Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 6
________________ नयप्रकाशस्तत्रवृत्तिः कदेशः । तेन हि प्रमाणप्रतिपन्नानन्तधर्माणां मध्यादेकस्यैवास्तिस्वादेर्धर्मस्य ग्रहात् । ननु एक धर्मग्राहकत्वाविशेषात्कथं नास्य दुर्नयवाक्यत्वम् ? इति चेत् न, दुर्नयवाक्यं तु शेषधर्मापलापकत्वेनैकधर्मस्य ग्राहकम्; इदं तु शेषधर्मोपेक्षकत्वेनैकधर्मग्राहकम्; इत्यनयोर्विशेषः । प्रमाणवाक्यैकदेशत्वं त्वस्य प्रमाणवाक्यान्तनिं वात्; अत एव सूत्रेऽपि प्रमाणवाक्यविशेषणं ' नयवाक्यगर्भितम्, ' इति । नयवाक्यानि समुदितत्वेन गर्भे जातान्यस्य, इति नयवाक्यगर्भितम् इति । ननु लक्ष्यज्ञानस्य लक्षणाधीनत्वात्तेषां लक्षणानि वाच्यानि, तत्कथं नोक्तानि ? इति चेत्; आकर्णय, अपरधर्मापलापेनैकधर्मग्राहि वाक्यं दुर्नयवाक्यम् । 'धर्मग्राहिवाक्यं दुर्नयवाक्यम्' इत्युक्ते प्रमाणवाक्येऽतिप्रसक्तिः, तत उक्तम्, -' एक ' इति । तथाच प्रमाणवाक्येऽतिप्रसक्तिनिरासः, तस्य समुदितयावद्धग्राहित्वेन एक धर्मग्राहित्वाभावात् । तावत्युक्ते नयवाक्येऽतिप्रसक्तिः, तस्याप्येकधर्मग्राहित्वात्; अत उक्तम्- 'धर्मापल पेन' इति । तथाच यावद्धर्मापलापमादायासम्भवः, तत उक्तम्'अपरधर्म' इति ग्राह्यधर्म प्रतियोगि कान्योऽन्याभावप्रतियोगिधर्मालापनम् इत्यर्थः । नयवाक्य लक्षणं तु अपरधर्मग्रहोपेक्षकत्वे सत्येक धर्मग्राहि वाक्यं नयवाक्यम् । धर्मग्राहि वाक्यं नयवाक्यम्, इत्युक्ते प्रमाणवाक्येऽतिप्रसक्तिः, तत उक्तम् -' एक ' इति । तावत्युके दुर्नयवाक्येऽतिप्रसङ्गः तत उक्तम्- ' धर्मग्रहोपेक्षकत्वे सति ' इति । तथाच यावद्धर्मग्रहोपेक्षकत्वमङ्गीकृत्यासम्भवः नहि यावद्धर्मग्रहोपक्षकले सत्येक धर्मग्राहित्वं संभवति, तत उक्त ,

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50