Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 26
________________ नयप्रकाशस्तववृत्तिः ततश्च-तयदि सामान्यरूपम्, कथं विशेषरूपम् ? चेद्विशेषरूपम्, कथं सामान्यरूपम् ? इति । किंच-सामान्योभयविशेषरूपत्वे सति वस्तुनः सकललोकव्यवहारप्रसिद्धसंत्र्यवहारनियमोच्छेदप्रसङ्गः, तथाहि-विषमोदकादिव्यक्त्यभिन्नमनानास्वभावमेकं सामान्यं वर्तते; ततश्व न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकात् । नापि मोदको मोदक एव, विषाभिन्नसामान्याभेदात् । किं तर्हि ? . उभयमपि उभयरूपम् । ततश्च विषार्थी विषे प्रवर्तते, मोदके च; एवं मोदकार्थ्यपि मोदके, विषे च । लोकस्तु विषार्थी विष एव प्रवर्तते, न मोदके, मोदकार्थ्यपि मोदक एव, न तु विषे; इत्यस्य नियमस्योच्छेदः स्यात् । तथाच-विषे भक्षितेऽपि मोदको भक्षितः स्यात्, मोदके भक्षिते विषं भक्षितं स्यात् । तथा च सति प्रतीतिविरोधः स्यात् । ननु विषादिषु विशेषरूपताऽप्यस्त्येव, सा तदर्थमो नियमेन प्रवृत्तेषिजम् , तद्भक्षणे नान्यभक्षणं स्यात् ।। ... एतदयुक्तम् , विकल्पानुपपत्तेः; तथाहि-विषविशेषरूपता मोदकादिविशेषरूपव्यात्ता वा स्यात् ? तत्स्वरूपनियता वा ? न तावन्मोदकादिविशेषरूपव्यावृत्ता, तदनान्तरभूतसामान्याव्यतिरेकात् । व्यतिरेके चोभयरूपवस्तुवादहानिप्रसङ्गात् । व्यतिरेकाव्यतिरेकपक्षस्य चाविरोधेन तिरस्कृतत्वात् । नापि स्वरूपनियता, मोदकाधभिन्नसामान्यानान्तरसात् । अर्थान्तरत्वे च सैव विशेषरूपता अर्थक्रियार्थिप्रवृत्तिविषयत्वात् वस्त्वस्तु, तत्फलविशेषोपादानभावलक्षितस्वभावत्वाद्वस्तुनः । सा च तादृशी नान्यत्रास्ति, अर्थिनः प्रत्यभावात् । तत्त्यज्यतामुभय

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50