Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
नयप्रकाशस्तवतिः ननु सामान्यविशेषौ पदार्थधर्मो धर्मधर्मिणोश्चात्यन्तभेदेनार्थान्तरखसिद्धौ, कथं तयोस्तन्निरासः? इति चेत् न धर्मधर्मिणो स्तावदत्यन्तभेदमेव नाङ्गीकुर्मः, कथं तयोरर्थान्तरत्वसिद्धिः ? इत्येत दर्शयति
यथाऽतिभेदो विबुधैर्निरस्यते ___ सम्बन्धहाने: खलु धर्मधर्मिणोः । भेद: कथञ्चित्तु तयोस्तथा न
श्रीमजिनेन्द्रागमसंमतस्तै: ॥॥ व्याख्या-'यथा' इति दृष्टान्तोपन्यासे, धर्मधर्मिणोः 'विबुधैः ' बैनमतनिष्णातैः · अतिभेदः ' सर्वथा पार्थक्यं निरस्यते । कुतः ? 'सम्बन्धहाने' सम्बन्धाभावप्रसङ्गात् । कोऽर्थः? यैर्धर्मधर्मिणोरत्यन्यभेदोऽङ्गीक्रियते, तैस्तयोः समवाय एवाङ्गीक्रियते, स च तयोरत्न्तभेदेनोपपद्यते । नात्यन्तभिन्नयोईटपटयोरिव तयोः समवायसम्बयो भवति । तथा च प्रयोगःधर्मधर्मिणौ न समवायसम्बधौ, अत्यन्त भिन्नखात् , घटपटयोरिव; इति कृत्वा सम्बन्धहान्यापत्याऽतिभेदो बुधौनरस्यते, इति तात्पर्यम् ।
ननु यद्ययं सर्वथा भेदो बुधैर्निरस्यते, तर्हि तयोर्भेदः किं सर्वथा नास्त्येव ? इति चेत् ; न, तयोः कथञ्चिभेदोऽस्ति, इति दर्शयति-भेदः' इति तयोः कथञ्चिद्भेदस्तु तथा न बुधैनिरस्यते, इति पूर्ववदेव संटकः ।
नन्वेवं तयोः किं सम्बन्धहानिर्न भवति इति चेत् न, भवत्येव, इति ब्रूमः, यतो धर्मधर्मिणोर्जनैरविष्वग्भावसम्बन्ध एवाङ्गीक्रियते, स च तयोरत्यन्तभेदाभावे सिद्ध सिद्ध एव ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50