Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 45
________________ ४४ श्रीहेमचन्द्राचार्यग्रन्थावली. नन्धविष्वगभावापन्नयोस्वयोः कथञ्चिद्भेदोऽप्यनुपपन्न एव, नहि स एव घटस्तस्माद् घटाद्भिद्यते, इति चेत् ? न, कथञ्चि - दस्यैवं सिद्धेः, तथाहि-द्रव्यार्थिकनयापेक्षया नित्यस्यापि धर्मिोऽ विष्वगभावापन्धमः सहाभेदः, उत्पादविनाशादिविषयदशापनैस्तैरेव सह भेदः, यथा-सुवर्णस्य धर्मिणः कटकत्वमुद्रिकाखादिभिधमैः सह भेदाभेदौ । नहि कटकत्वमुद्रिकात्वादयो धर्मास्तदाकारीभूतात्सुवर्णात्क्वचित्पृथगुपलभ्यन्ते, इति कृत्वा तस्य तैः सहाभेदः, भेदस्तु कटकत्वादिधर्मनाशे मुद्रिकात्वादिधर्माणामुत्पद्यमानत्वेऽपि धर्मिणस्तस्य विद्यमानत्वात् । इति सप्तमवृत्तवार्थः ॥७॥ ननु कथञ्चिद्भिन्नमपि धर्मर्मिरूपं वस्तु किमुत्पत्तिमत् ? विनाशवत् ? स्थितिमत् ? तत्त्र वद्वा ? इत्याशङ्कयाह. उत्पत्तिनाशस्थितिमद्घटात्मा- . दिकं मतं वस्तु जिनेन्द्रशासने । नाशादिकं ह्येकतरं न मन्यते चेत्स्यादिवासन्खकुसुमं तदार्थः॥॥ व्याख्या-घटश्चात्मा च घटात्मानौ, तावादौ यस्य, तद् घटात्मादिः तदेव घटात्मादिकम् , स्वार्थे कादेवं सिद्धिः। 'वस्तु' पदार्थः, ' उत्पत्तिनाशस्थितिमत्' इति-उत्तत्तियुक्तम् , नाशयुक्तम् , स्थितियुक्तम् , इत्यर्थः । 'मतम् ' संमतम् । क्व ? जिनेन्द्रशासने' अर्हत्प्रवचने । तत्र असत आत्मलाभः उत्पत्तिः, सतः सत्ताविरहो नाशः, द्रव्यतयानुवर्तनं स्थितिः। तत्र घटस्य मृत्पिण्डाद्यवस्थायां पृथुबुध्नोदरायाकारत्वेनासतस्तत्स्वरूपात्मलाभादुत्पत्तिमत्त्वम् , अथ तत्त्वेन सतस्तदभिन्नस्तदाका

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50