Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
Catalog link: https://jainqq.org/explore/022483/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ न्द्रिाचार्यग्रन्थावली. नं.६ श्रीपद्मसागरगीणकृतस्वोपज्ञनयप्रकाशस्तववृत्तिः श्रीमत्पंन्यासश्रीनीतिविजयमहाराजसमुपदिष्टपट्टनस्थ-" डंख म्हेताभिधपाटकान्तःस्थप्राग्वाटज्ञातीय शा. केशवलाल लहेरचन्द्र" द्रव्यसाहाय्येन पट्टनस्थायाः श्रीहेमचन्द्राचार्यसभायाः सेक्रेटरी"शा. लहेरचन्द भोगीलाल" इत्यनेन प्रकाशिता श्रावकपण्डितवीरचन्द्र-प्रभुदासाभ्यां च संशोधिता. इश्वरलाल केशवलाल-माणेकलाल माधवलालाभ्यां अहम्मदावाद- ढींकवा चोकी' समीपस्थ-शान्तिविजयप्रीन्टींगाख्ये निजमुद्रणालये मुद्रिता । संवत् १९७५. वीर संवत् २४४५. सन १९१८. प्रत ३००. मूल्यमाणकत्रयम् Page #2 -------------------------------------------------------------------------- ________________ ॐ अर्हम श्रीहेमचन्द्राचार्यग्रन्थावली. नं० ६. श्री पद्मसागरग निकल नयप्रकाशस्तववृत्तिः॥ गङ्गापवाहा इव वाग्विलासा जयन्ति यस्य स्फुरदङ्गिरङ्गाः । स्वयंपवित्रा इति पूतविश्वाः सोऽस्तु श्रिये श्रीजिनवर्द्धमानः ॥ १ ॥ नत्वा तदीयक्रम पुण्डरिकं स्मृत्वा प्रसन्नां श्रुतदेवतां च । नयप्रकाशस्तवनस्य वृत्तिं स्वयंकृतस्यात्मकृते करोमि ॥ २ ॥ इह हि त्रिजगतीपतिप्रतिपादितप्रवचनरचनावितथगुणग्रामनिरूपकत्वेन यद्यपि अस्य सकलस्तवनग्रन्थस्यापि अशेषदूरितोच्छेदकताऽस्ति एव, तथापि निजहर्ष प्रकर्षो सिताम वाक्कायशुद्धया प्रथमं प्रणतस्यैव स्तवनं विशिष्टानं भवाने इति कृत्वा प्रथमं मनः कायशुद्धया कृतमपि वास्तविक त्वादिनाऽतिशयितत्वादाद्यकाव्यायपदेन नमस्कार बा रीकरोति तस्मै नमः श्रीजिनशासनाय सत्सतभङ्गीनयवासनाय । आसाद्य माद्यन्ति यदीयदेशमप्यक्षपादादिकदर्शनानि ॥ १ ॥ व्याख्या -' तस्मै नमः श्रीजिनशासनाय' इति तावदन्व यः । अत्र हि निरूप्यस्यैव जिनशासनस्य नमस्कारकरणाहार्ह Page #3 -------------------------------------------------------------------------- ________________ २ श्रीहेमचन्द्राचार्यग्रन्थावली. दादेविशेषो दर्शितो भवतीति । किविशिष्टाय जिनशासनाय ? 'सत्सप्तभङ्गीनयवासनाय' । सप्तभङ्गया नयानां च वासनाभावना यत्र, स तथा, तस्मै । ननु नयसप्तभङ्गयाः परस्परनिरपेक्षनयानां च वासना काणादादिशासनेऽप्यस्त्येव, इत्याह-'सत्' इति । सत्पदं सप्तभङ्गीनयपदयोर्विशेषणम् । तथा च सती-प्रधाना सप्तभङ्गी ससप्तभङ्गी-प्रमाणसप्तभङ्गी, इत्यर्थः । प्रधानत्वं चास्याः सकलादेशरूपत्वात् । सन्तः-समुदितत्वेन यावद्वस्वंशग्राहित्वात् 'प्रधाना-नयाः सन्नयाः। तथा च-सत्सप्तभङ्ग याः सनयानां च वासना जिनशासनमन्तरेण न कचिदप्यस्ति, इति तात्पर्यम् । - ननु तच्छब्दस्य यच्छब्दसापक्षवेन किं तजिनशासनम् ? इत्याह-'आसाद्य' इति । यदीयदेशम्-अंशमासाद्य-माप्य अक्षपादादिकदर्शनानि माद्यन्ति-मदवन्ति भवन्ति । कोऽर्थः १ अक्षपादादिदर्शनानि हि समुदितसप्तनयात्मकश्रीजिनशासनादेवकैकं मिथों निरपेक्षनैगमादिनयमाश्रित्य बहिभूतान्यपि माद्यन्ति, इत्यर्थः । यथा चैतेषां मिथो निरपेक्षकैकनैगमादिनयाश्रयणं तथाऽग्रे वक्ष्यामः। ननु श्रोतुरभिधेयप्रयोजनज्ञानपूर्विकैव प्रवृत्तिर्भवाते; अत्र चाभिधेयप्रयोजनमोरनुक्तत्वात्कथं प्रवृत्तिः ? इति चेत; न,अत्र 'सत्सप्तभङ्गीनयवासनाय' इति पदेनाभिधेयप्रयोजनयोरक्तत्वात् । सप्तभङ्गी नया एवात्राभिधेयम् । तद्वासना चात्र साक्षात्प्रयोजनम् , परम्परया चात्रानुक्तोऽपि मोक्ष एव, इति प्रथमवृत्तार्थः ॥१॥ __ अथ सप्तभङ्गीनयनिरूपणं वाक्यप्रसिद्धया भवति, तद्वा. Page #4 -------------------------------------------------------------------------- ________________ ‘नयप्रकाशस्तववृत्तिः क्यं च त्रिघा, तत्रापि दुर्नयवाक्यं हेयं, नयवाक्यं चोपेक्ष्य, प्रमाणवाक्यं तूपादेयम् , इत्येतद्दर्शयति प्रमाणवाक्यं नयवाक्यगर्भितं निर्दूषणं दुर्नयवाक्यदूरितम् । स्यादेवयुक्तं जिनराजशासने सतां चमत्कारकरं भवेन्न किम् ? ॥२॥ . व्याख्या-'जिनराजशासने ''सतो'-जिनाज्ञावतां 'प्रमाणवाक्यं' 'कि' 'चमत्कारकर''न', 'भवेत् ' ? अपि तु भवत्येव, इत्यर्थः । ननु कीदृशं प्रमाणवाक्यं भवति ? इति जिज्ञासायामाह-'स्यादेवयुक्तं'। स्यादित्यव्ययपदम् , समयसक्रेतात्कथंचित्ववाचकम् । तेन, भायोऽन्ययोगव्यवच्छेदपरेण एवकारण च युक्तम्-कलितम् । यथा-'स्यादस्त्येव घटः' इति । प्रमाणलं चास्य 'स्यादेव' पदलाग्छितत्वात् । तत्र कथश्चित्मकारेण स्वरूपादिना, न तु पररूपादिना घटेऽस्तिवं स्यात्पदेन प्रतिपायते । एवपदेन चास्तित्वविरुद्धनास्तित्वादीनां व्यवच्छेदः प्रतिपाद्यते । ननु जैनमते विरुद्धधर्माध्यासाङ्गीकारात् कालावच्छेदेन देशावच्छेदेन च यदा यशस्तित्वं प्रतिपाद्यते, तदा तत्र नास्तिखमपि प्रतिपाद्यम्, तत्कथम् ' स्यादस्त्येव घटः' इत्यत्र एवकारेण नास्तित्वव्यवच्छेदः क्रियते ? इति चेत् ; सत्यम् , यद्यप्येकस्मिन्नेव कालेऽप्येकस्मिन्नेव देशेऽस्तित्वं नास्तित्वं च वक्तव्यमेव, तथापि स्वरूपभेदस्तु सर्वथैव तत्र निगद्यः । नहि येनैव स्वरूपेण तत्रास्तिस्वं प्रतिपाद्यते, तेनैव स्वरूपेण नास्तित्वमपि मतिपादयितुं शक्यम् । ... Page #5 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यग्रन्थावली. ननु अस्तित्वनास्तित्वयोः कः स्वरूपभेदः ? इति चेत् ; शृणु, अस्तित्वं तावत्स्वस्वरूपेण, नास्तित्वं च परस्वरूपेण, पृथुबुध्नोदरायाकारजलाहरणादिक्रियाकर्तृत्वादिना स्वस्वरूपेण चास्त्येव घटः; तन्तुजन्यत्वशीतत्राणादिक्रियाकर्तृत्वादिना परस्वरूपेण च नास्त्येव घटः; इति सिद्धं-स्यादस्त्येव घटः, इति । अत्र एवकारेण अस्तित्वविरुद्ध नास्तित्वादीनां व्यवच्छेदो भवति, इति सुष्टुक्तम्-' स्यादेवयुक्तं ' 'प्रमाणवाक्यम्' इति । - 'अस्त्येव घटः' इति प्रमाणवाक्यमस्तु, स्यादित्यधिकम् । इति चेत् ; न, दुर्नयवाक्येऽतिप्रसक्तेः। __ननु दुर्नयवाक्यं कीदृशम् ? इति चेत् ; शृणु, 'अस्त्येव घटः' इति तावदुर्नयवाक्यम् । अत्र हि केवलेनैवकारेणास्तित्वव्यतिरिक्तास्तत्समानाधिकरणा अप्यनन्ता धर्मा व्यवच्छिचन्ते। अत एवास्य मिथ्यात्वम् , अस्तित्वसमानाधिकरणानामप्यनन्तानां धर्माणामपलापात् । अत एव सूत्रेऽपि प्रमाणवाक्यविशेषणं 'दुर्नयवाक्यदूरितम्' इति । तल्लक्षणस्पर्शमात्राभावाहुर्नयवाक्यं दूरितं-दूरीकृतं येन, तत्तथा, इति । .. . अथ ' स्याद् घटोऽस्ति' इत्येवास्तु, 'एव' इति पदमधिकम्, इति चेत् ; न, एवं हि नयवाक्येऽतिमसक्तेः। - ननु नयवाक्यं कीदृशम् ? इति चेतः शणु, 'स्यादस्ति घटः' इति तावन्नयवाक्यम् । अत्र हि स्यात्पदलान्छितत्वे क्रियमाणेऽपि केनचित्प्रकारेण घटेऽस्तित्वमानं सिद्धयति, तत्समानाधिकरणानामनन्तानामपि तद्वयतिरिक्तानां धर्माणामुपेक्षैव जायते । ____ ननु तर्हि नयवाक्यं किं प्रमाणम्, अप्रमाणं वा ? इति चेत: शृणु, नयवाक्यं तावन्न प्रमाणम् , नाप्यप्रमाणम् ; किन्तु प्रमाणे Page #6 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तत्रवृत्तिः कदेशः । तेन हि प्रमाणप्रतिपन्नानन्तधर्माणां मध्यादेकस्यैवास्तिस्वादेर्धर्मस्य ग्रहात् । ननु एक धर्मग्राहकत्वाविशेषात्कथं नास्य दुर्नयवाक्यत्वम् ? इति चेत् न, दुर्नयवाक्यं तु शेषधर्मापलापकत्वेनैकधर्मस्य ग्राहकम्; इदं तु शेषधर्मोपेक्षकत्वेनैकधर्मग्राहकम्; इत्यनयोर्विशेषः । प्रमाणवाक्यैकदेशत्वं त्वस्य प्रमाणवाक्यान्तनिं वात्; अत एव सूत्रेऽपि प्रमाणवाक्यविशेषणं ' नयवाक्यगर्भितम्, ' इति । नयवाक्यानि समुदितत्वेन गर्भे जातान्यस्य, इति नयवाक्यगर्भितम् इति । ननु लक्ष्यज्ञानस्य लक्षणाधीनत्वात्तेषां लक्षणानि वाच्यानि, तत्कथं नोक्तानि ? इति चेत्; आकर्णय, अपरधर्मापलापेनैकधर्मग्राहि वाक्यं दुर्नयवाक्यम् । 'धर्मग्राहिवाक्यं दुर्नयवाक्यम्' इत्युक्ते प्रमाणवाक्येऽतिप्रसक्तिः, तत उक्तम्, -' एक ' इति । तथाच प्रमाणवाक्येऽतिप्रसक्तिनिरासः, तस्य समुदितयावद्धग्राहित्वेन एक धर्मग्राहित्वाभावात् । तावत्युक्ते नयवाक्येऽतिप्रसक्तिः, तस्याप्येकधर्मग्राहित्वात्; अत उक्तम्- 'धर्मापल पेन' इति । तथाच यावद्धर्मापलापमादायासम्भवः, तत उक्तम्'अपरधर्म' इति ग्राह्यधर्म प्रतियोगि कान्योऽन्याभावप्रतियोगिधर्मालापनम् इत्यर्थः । नयवाक्य लक्षणं तु अपरधर्मग्रहोपेक्षकत्वे सत्येक धर्मग्राहि वाक्यं नयवाक्यम् । धर्मग्राहि वाक्यं नयवाक्यम्, इत्युक्ते प्रमाणवाक्येऽतिप्रसक्तिः, तत उक्तम् -' एक ' इति । तावत्युके दुर्नयवाक्येऽतिप्रसङ्गः तत उक्तम्- ' धर्मग्रहोपेक्षकत्वे सति ' इति । तथाच यावद्धर्मग्रहोपेक्षकत्वमङ्गीकृत्यासम्भवः नहि यावद्धर्मग्रहोपक्षकले सत्येक धर्मग्राहित्वं संभवति, तत उक्त , Page #7 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यग्रन्थावली. ‘अपर' इति; ग्राह्यधर्माद् व्यतिरिक्तधर्मोपेक्षकलम् । इत्यर्थः । प्रमाणवाक्यं तु युगपत्सकलधर्मग्राहि वाक्यम्-प्रमाणवाक्यम् । दुर्नय-नयवाक्ययोरपि सकलधर्मग्राहित्वं कालादिभेदेन प्रत्येकमस्त्येव, इति ताभ्यामस्य योगपद्येन भेदः, इति । तदेतान्युक्तानि प्रमाणवाक्यादिनां लक्षणानि, उदाहरणानि तु प्राक्मोक्तानि । इति द्वितीयवृत्तार्थः ॥ २ ॥ — अथैतानि वाक्यानि सकलादेशविकलादेशस्वरूपाणि भवन्ति, तेन तयोः स्वरूपं वाच्यम् ; इत्याशङ्कयाह एकत्रधर्मा युगपद्विरुद्धाः ___ कालाद्यभेदान्निहिता हि येन । आदेशमासाद्य तमत्र शासने जयन्ति जैनाः परवादिदर्शनम् ॥३॥ व्याख्या- जैनाः' जिनाज्ञाधराः 'आदेशमासाय' इति सकलादेशसान्निध्यं प्राप्य, इत्यर्थः । अथ सकलादेशस्वरूपसूचनाय यच्छन्इघटितं पूर्वार्द्ध व्याक्रियते-'येन' सकलादेशेन, 'कालायभेदात् ' इति कालादिभिरष्टभिः कृत्वाऽभेदवृत्तेः, इत्यर्थः । 'एकत्र' इति एकस्त्रिन्वस्तुनि घटादौ, 'युगपत् ' समकालम्, 'विरुद्धाः' सहानवस्थाननियमवन्तोऽस्तित्वनास्तित्वादयो धर्माः, 'निहिताः' स्थापिताः, इति तावत्सूत्रार्थः । . एकस्मिन्नेव हि घटादिवस्तुनि कालादिभिरष्टभिः कृत्वाऽभेदवृत्त्या प्रमाणप्रतिपन्ना अनन्ता अपि धर्मा योगपद्येन यदाऽभिधीयन्ते, तदा सकलादेशो भवति । Page #8 -------------------------------------------------------------------------- ________________ .नयप्रकाशस्तववृत्तिः के पुनः कालादयः ? कालः, आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दः, इति ।.. ____ कथमेभिरभेदवृत्त्या एकस्मिन्नेव वस्तुनि युगपद्विरुद्धधर्मग्रहः ? इति चेत् ; निशम्यताम्-‘स्याद् घटोऽस्त्येव' इत्यत्र घटे यत्कालमस्तित्वं तत्कालास्तत्रैव शेषा नास्तित्वादयो धर्माः स. न्ति; इति कालेनाभेदवृत्तिः। ......... ननु अस्तित्वेन सहाविरुद्धानां द्रव्यत्वादीनां धर्माणामेकत्रापि कालेनाभेदत्तिर्भवतु, परं सर्वथा तद्विरुद्धानां नास्तित्वादीनां कथं सा सम्भवति ? इति चेत् ; सत्यम् , अस्तित्वनिरूपणसमये हि घटे नास्तिवस्यापि वर्तमानत्वात् । तथाच अयमर्थः-' स्यादस्त्येव घटः' इत्युक्तेऽस्तित्वसमानाधिकरणा अनन्ता अपि धर्माः प्रतिपाद्यन्ते, घटत्वपृथुबुध्नोदरायाकारवत्वद्रव्यत्वाभिधेयत्वप्रमेयत्वादिभिरनन्तैर्धमैर्विशिष्टस्यैव घटस्य सत्तायोगात् । घटखाद्यनन्तधर्मावौशष्टये च घटस्यासवप्रसङ्गात्, तस्माद् घटेऽस्तित्वकैवल्याभावेन केवलास्तित्वस्य वक्तुमशक्यत्वात् , तत्समानाधिकरणानन्तधर्माणामपि तस्मिन्नेव काले प्रतिपादनात् कालेनाभेदात्तः। .. 'आत्मरूपम् ' घटपर्यायवादिकम् , तेनान्यधर्मः सहास्तित्वस्याभेदवृत्तिः। यथा-अस्तित्वं घटपर्यायः, तथाऽन्येऽपि धर्मा घटपाया एव; इत्यर्थः। . ' अर्थः ' नाम आधारः, ततो य एवं घटलक्षणोऽस्तित्वस्याधारः स एवापरधर्माणामपि; इत्यर्थाभेदवृत्तिः । .. ' सम्बन्धः' अविष्वगभावरूपः, ततो य एवास्तित्वस्य घटेऽविष्वग्भावरूपः सम्बन्धः स एवापरधर्माणामपि; इति सम्बन्धाभेदवृत्तिः। Page #9 -------------------------------------------------------------------------- ________________ श्री हेमचन्द्राचार्यग्रन्थावली. य एव घटे लोकप्रवृत्तिलक्षण उपकारोऽस्तित्वेन क्रियते, स एवान्यधर्मैरपि, सकलधर्मविशिष्ट एव घटे लोकप्रवृत्तेर्जायमानखात्; इत्युपकाराभेदवृत्तिः । " गुणी' घटः, तस्य ' देशः ' क्षेत्रं भूतलादिकम्, तदाश्रित्य यथा घटेऽस्तित्वसद्भावः, तथाऽन्यधर्माणामपि इति गुनिदेशा भेदवृत्तिः । धान्ये सति सम्बन्धः 'संसर्गः ' ततो य एव घटेऽस्तित्वस्य संसर्गः, स एवान्यधर्माणामपि इति संसर्गाभेदवृत्ति । नतु संसर्ग सम्बन्धयोः को भेदः ? इति चेत्; संसर्गे भेदः प्राधान्येन भवति, अभेदो गौण्येन सम्बन्धे तु भेदो गौण्येन, अभेदः प्राधान्येन, इति तात्पर्यम् । य एवास्तित्वधर्मात्मकस्य घटस्य वाचकः शब्दः, स एवान्यधर्मात्मकस्यापि इति शब्दाभेदवृत्तिः । इत्युक्तं सकलादेशस्वरूपम् ; अयं च प्रमाणवाक्यापरपय एव । विकला देश स्वरूपं तु एतद्विपरीतत्वेन सुखावबोधत्वात्, न सूत्रे प्रतिपादितम् । विकलादेशस्य सकलादेशवैपरीत्यं तु नयवाक्यात्मकत्वेनैभिरेव कालादिभिरष्टभिः कृत्वा भेदग्राहकत्वादेव । 9 दुर्नयवाक्यं तु न सकलादेशात्मकम् नापि विकलादेकिन्तु सर्वथा हेयत्वाद्वहिष्कृतमेव । इति तृतीय शात्मकम्, वृत्तार्थः ॥ ३ ॥ अथ प्राणवाक्यवाक्ययोर्विषयस्तु नया एव, ते च के ? कियन्तः ? सङ्गताथ कथं भवन्ति ? इति जिज्ञासायामाहक्रमान्नयाः सप्त परैर्गृहीताः परस्परं ये विवदन्त एव । Page #10 -------------------------------------------------------------------------- ________________ नयमकाशस्तववृत्तिः सप्तापि ते श्रीजिनशासनेऽस्मि न्नेकीभवन्ति स्म जिनेन्द्रवाचा ॥ ४॥ व्याख्या-मिथो विरुद्धाः 'सप्तापि' ' नयाः' 'श्रीजिनेन्द्रवाचा' तीर्थकरोपदेशेन इत्यर्थः, 'एकीभवन्ति स्म,' इति सङ्गता बभूवुः ; यथा-सर्वे पुत्रा मिथो विवादपराः स्वपितुः पुरः समायातास्तदुपदेशेनैकीभवन्ति, तथा तेऽपि । मिथो विरुद्धप्ररूपकलेन विवादपरा अनन्यगत्या भगवच्छासनाश्रयणाद्भगवत्पुरः समायाताः सन्तो भगवदुपदेशेन एकीभवन्ति स्म, " एगेगो मिच्छावाई सव्वे सम्मत्तवाइणो" इति वचनात् , समुदिता भवन्ति, इत्यर्थः। मिथो विरुद्धास्ते के नयाः ? इति, अतो यच्छब्दानुविद्धं व्याख्यानं पूर्वार्द्धनाह-'क्रमात् ' इति । नैगम-सङ्ग्रह-व्यवहारऋजसूत्र-शब्द-समभिरूढ-एवम्भूताश्च, इति क्रमेण समुदितत्वाभावेन ये सप्तापि नयाः परैबौद्धादिभिहीताः परस्परं' मिथो 'विवदन्ते ' विवादवन्तो भवन्ति । एवकारस्तु कदाचिदपि विवादापरिसमाप्तिसूचकः । ततोऽयं भावार्थ:-ये नया बौद्धादिभिः पृथग्भावनाश्रिताः सन्तो मिथ्यात्वप्ररूपकाः, त एव नयाः श्रीजिनशासने समुदितत्वेनाश्रिताः सन्तः सम्यक्त्वप्ररूपका भवन्ति, इति तावत्सूत्रार्थः । ननु अयं सकलोऽपि विचारो नयानां लक्षणोदाहरणादिनिरूपणेनैव विदुषां चेतश्चमत्कारं करोति, तेनैतनिरूपणीयम् ? . इति चेत् ; निरूप्यते-तत्र अनिराकृतप्रतिपक्षो वस्त्वंशग्राही ज्ञातुरभिप्रायो नयः, निराकृतपतिपक्षस्तु नयाभासः, इत्यनयोः सामान्यलक्षणम् । Page #11 -------------------------------------------------------------------------- ________________ श्री हेमचन्द्राचार्यग्रन्थावली. 9 स च द्वेधा, द्रव्यार्थिक पर्यायार्थिक विकल्पात् । द्रव्यमेवाथ - विषयो यस्य स द्रव्यार्थिकः । पर्याय एवार्थो यस्य, असौ पर्यायार्थिकः, इति नयविशेषलक्षणम् । तत्र आयो नैगम-सग्रह-व्यवहारविकल्पात् त्रिविधः, द्वितीयस्तु ऋजुसूत्र-शब्द- समभिरूढ एवम्भूतविकल्पाच्चतुर्विधः । १० तत्र अनिष्पन्नार्थसङ्कल्पग्राही नैगमः । निगमो हि सङ्कल्पः, तत्र भवः, तत्प्रयोजनो वा नैगमः । यथा - कचित्पुरुषो गृहीतकुठारो गच्छन् ' किमर्थं भवान् गच्छति ?' इति पृष्टः सन्नाह- प्रस्थमानेतुम् इति । एधोदकाद्याहरणे वा व्याप्रियमाणः ' किं करोति भवान् ? ' इति पृष्टः प्राह - ' ओदनं पचामि ' इति । न चासौ प्रस्थपर्यायः, ओदनपर्यांयो वा निष्पनः ; सङ्कल्पमात्रे प्रस्थादिव्यवहारात् । यद्वा नैकगमो नैगमः, धर्मधर्मिणोर्गुणप्रधानभावेन विषयीकरणात् । ' जीवगुणः सुखम्' इत्यत्र हि जीवस्याप्राधान्यम्, विशेषणत्वात्; सुखस्य तुं प्राधान्यम्, विशेष्यत्वात् । ' सुखी जीवः' इत्यादौ तु जीवस्य प्राधान्यम्, न सुखादेः, विपर्ययात् । न चास्यैव प्रमाणात्मकस्वानुषङ्गः, धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् । तयोरन्यतर एव हि नैगमनयेन प्रधानतयाऽनुभूयते । प्राधान्येन द्रव्यपर्यायद्वयात्मकमर्थमनुभवद्विज्ञानं प्रमाणं प्रतिपत्तव्यम् । प्रमाणनिरूपणं तु मत्कृतममाणप्रकाशादवसेयम् । सर्वथा धर्मधर्मिणोरर्थान्तरत्वाभिसन्धिस्तु नैगमाभासः, धर्मधर्मिणोः सर्वथाऽर्थान्तरत्वे धर्मिणि धर्माणां वृत्तिविरोधस्याग्रे प्रतिपाद्यमानत्वात् इति । स्वजात्यविरोधेनैकत्वमुपनीयार्थानाक्रान्तभेदात् समस्तसग्रहणात् सङग्रहः । स च परोऽपरश्च । तत्र परः सकलभा Page #12 -------------------------------------------------------------------------- ________________ নামায় , वानां सदात्मनैकत्वमभिपति, सर्वमेकम् , अविशेषात् । इत्य युक्त्या सत्तात्मत्वेनैकत्वमशेषार्थानां सङ्गृह्यतेऽनेन, इत्यर्थः । निराकृताशेषविशेषस्तु सत्ताद्वैताभिप्रायस्तदाभासः, प्रमाणप्रतिपन्नानन्ताशेषधर्माणां लोपात् ; इति । . तथाऽपरसङग्रहो द्रव्यत्वेनाशेषद्रव्याणामेकत्वमभिपैति । 'द्रव्यम् ' इत्युक्ते हि अतीतानागतवर्तमानकालवर्ति विवक्षिताविवक्षितपर्यायद्रवणशीलानां जीवाजीवतद्भेदप्रभेदानामेकत्वेन सङ्ग्रहः। ___ सामान्यविशेषाणां सर्वथाऽर्थान्तरत्वाभिमायो वाऽपरस महाभासः, प्रतीतिविरोधात् ; इति । ___ सङ्ग्रहगृहीतार्थानां विधिपूर्वकमवहरणं विभजनं विभेदेन मरूपणं व्यवहारः। सङ्ग्रहस्तु सर्वद्रव्याणि द्रव्यम् , इति सर्वपर्यायाश्च पर्याय, इति; सङ्ग्रह्णाति । व्यवहारस्तु तद्विभागमभिमैति, यद्रव्यम् , तद्धर्माधर्माकाशकालपुद्गलजीवादिभेदात् षोढा, इति । एवं सहभाविततक्रमभावित्वरूपं प्रर्याय विभागमपि यथासम्भवमभिप्रेति व्यवहारः। कल्पनाऽऽरोपितद्रव्यपर्यायप्रविभागमभिभौति व्यवहाराभासः, द्रव्यादिपविभागस्तु न सन् , प्रपञ्चरूपत्वात् इत्यादितदुक्तिः । ऋजु' प्राञ्जलम्-वर्तमानक्षणमात्रं सूत्रयति, इति ऋजुसूत्रः मुखक्षणः सम्प्रत्यस्ति इत्यादिः । द्रव्य त्य सतोऽप्यनपणात्, अतीतानागतयोश्च विनष्टानुत्पनत्वेन असम्भवात् । न चैवं लोकव्यवहारविलोपप्रसङ्गः, नयस्यास्यैवं विषयमात्रारूपणात, लोकव्यवहारस्तु सकलनयसमुहसाध्यः, इति । . Page #13 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यगन्थावली. . अत्र केचिदेवमपि निरूपयन्ति-ऋजुसूत्रः पुनरिदं मन्यते वर्तमानक्षणवत्यैव वस्तुरूपम्, न अतीतमनागतं च; अतीतस्य विनष्टत्वात्, अनागतस्य चानुत्पन्नत्वात्, खरविषाणस्येव अर्थक्रियाकारित्वाभावात् । यदेव अर्थक्रियाकारि, तदेव वस्तु, अत एवास्याभिप्रायेणानुपयोगित्वात् परकीय वस्त्वप्यवस्त्वेव इति । ____यस्तु सर्वद्रव्यं सर्वथा प्रतिक्षिपति अखिलार्थानां प्रतिक्षणं क्षणिकत्वाभिमानात् स तदाभासः प्रतीतिविरुद्धत्वात्, इति । कालकारकलिङ्गसंख्यासाधनोपसर्गभेदाद्भिननर्थ शपति, इति शब्दो नयः, शब्दप्रधानत्वात् । ततोऽपास्तं वैयाकरणानां मतम् । ते हि 'विश्वदृश्वाऽस्य पुत्रो भविता' इत्यत्र कालभेदेऽपि एक पदार्थमादृत्य 'यो विश्वं द्रश्यति सोऽस्य पुत्रो भविता' इत्यत्र भविष्यकालेनातीतकालस्याभेदाभिधानात् , तथाव्यवहारोपलम्भात् । तच्चानुपपन्नम्, कालभेदेऽप्याभेदेऽतिप्रसङ्गात्, भरतेश्वरब्रह्मदत्तयोरप्यतीतानागतार्थगोचरयोरेकार्थतापत्तेः । अथानयोभैंदविषयत्वान्नैकार्थता; विश्वदृश्वा भविता' इत्यत्रानयोरप्यसौ मा. भूत, तत एव न खलु 'विश्वं दृष्ट्वान्-विश्वदृश्वा' इति शब्दस्य योऽर्थोऽतीतकालः, स भविता, इति शब्दस्यानागतकालो युक्तः पुत्रस्य भाविनोऽतीतत्वविरोधात् , अतीतकालस्याप्यनागतत्वाध्यारोपात्, एकार्थत्वे तु न परमार्थतः कालभेदेऽप्यभिन्नार्थव्यवस्था स्यात् । ___तथा करोति क्रियत इति कर्मकारकभेदेऽप्यभिन्नमर्थ पुनः केचिदाद्रियन्ते । य करोति किश्चित्, स एव क्रियते केनचित्, इति प्रतीतेः। तदप्यसाम्प्रतम् । देवदत्तः कटं करोति, इत्यत्रापि कर्तृकर्मणोर्देवदत्तकटयोरभेदप्रसङ्गात् । Page #14 -------------------------------------------------------------------------- ________________ . १३ नयप्रकाशस्तवत्तिः तथा 'पुष्यस्तारक' इत्यत्र लिङ्गभेदेऽपि नक्षत्रार्थमेकमेवाद्रियन्ते पुनः केचित्, तदप्यसङ्गतम् । 'पटः, कुटी' इत्यत्राप्येकत्वानुषङ्गात् । तथा 'आपोऽम्भः' इत्यत्र संख्याभेदेऽप्येकमर्थ जलाख्यं मन्यन्ते केचित् , तदप्ययुक्तम् , 'पटस्ते तव' इत्यत्राप्येकत्वानुषङ्गात् । . तथा 'एहि, मन्ये रथेन यास्यामि 'न हि यास्यसि' यातस्ते पिता' इति साधनभेदेऽप्यर्थाभेदमाद्रियन्ते पुनः केचित्, तदप्यसङ्गतम् , 'अहं पचामि, स्वं पचसि,' इत्यत्राप्येकार्थत्वप्रसङ्गात् । __ तथा 'संतिष्ठते, प्रतिष्ठते' इत्यत्रोपसर्गभेदेऽप्यर्थाभेदमाद्रियन्ते पुनः केचित्, उपसर्गस्य धात्वर्थमात्रोद्योतकत्वात् ,तदप्यचारु । तिष्ठति, प्रतिष्ठते' इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसङ्गात् । ततः कालादिभेशाद्भिन्न एवार्थः शब्दस्य । तथाहिविभिन्न कालादिशब्दो विभिन्नार्थप्रतिपादकः, विभिन्नकालादिशब्दत्वात्, तथाविधान्यशब्दवत् । ननु एवं लोकव्यवहारविरोधः स्यात्, इति चेत् विरुध्यताम् । तत्त्वं तु मीमांसते, नहि भेषजमातुरेच्छानुवृत्ति । ....' ___नानार्थान् समेत्याभिमुख्येन रूढः समभिरूढः। शब्दनयो हि पर्यायशब्दभेदान्नार्थभेदमभिपैति । कालादिभेदत एवार्थभेदाभिप्रायात् । अयं तु पर्यायभेदेनाप्यर्थभेदमभिप्रति । तथाहि'इन्द्रः,शक्रः,पुरन्दरः' इत्याद्याः शब्दा विभिन्नार्थगोचराः,विभिनशब्दत्वात् , वाजिवारणवत् इति । ........ .... एवम्' इत्थं विवक्षितक्रियापरिणामप्रकारेण · भूतम् । परिणतमर्थ योऽभिप्रति, स एवंभूतो नयः। समभिरूढो हि शक्कनक्रियायां सत्यामसत्यां वा देवराजार्थस्य शक्रव्यपदेशमभिप्रति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यांवा गोव्यपदेशमभिप्रेति, Page #15 -------------------------------------------------------------------------- ________________ १४ श्रीहेमचन्द्राचार्यग्रन्थावली. तथा रूढेः सद्भावात् । अयं तु शकनक्रियापरिणतिक्षणे एव शक्रव्यपदेशमभिमैति, न पूजनाभिषेचनक्षणे, अतिप्रसङ्गात् । गमनक्रियापरिणतिक्षणे एव गोव्यपदेशमाभिति, न स्थितिक्षणेऽपि, अतिप्रसङ्गात् , एवं सर्वत्रापि इति । . ____ अथ श्री वादिदेवमूरिरचितग्रन्थेषु शब्दसमभिरूढएवंभूतनयानामेवं निरूपणं दृश्यते । तथाहि-कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः। यथा-बभूव भवति भविष्यति सुमेरुः • इत्यादि । तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः, यथा बभूव भवति भविष्यति सुमेरुः इत्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति, भिन्न कालशब्दखात् , तादृसिद्धान्यशब्दवत् , इति । पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन समभिरूढः, इन्दनादिन्द्रः,शकनाच्छक्रः,पुर्दारणात्पुरन्दरः; इत्यादि । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः; यथा-इन्द्रः, शक्रः, पुरन्दरः, इत्यादयः शब्दा भिन्नाभिघेया एव भिन्नशब्दत्वात् , करिकुरङ्गतुरङ्गवत् इत्यादि । - शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थ वाच्यलेनाभ्युपगच्छन्नेवम्भूतः । यथा-इन्दनमनुभवनिन्द्रः, शकनक्रियापरिणतः शक्रः, पूर्दारणे प्रवृत्तः पुरन्दरः, इत्युच्यते । क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तदाभासः। यथा-विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम्, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् । इत्यादिदेवसूरिकृत ग्रन्थः ॥ पूर्वकृतनिरूपणाच्चैतनिरूपणस्यैतेषां त्रयाणामपि नयानां नयाभासयुक्तवस्य पार्थक्येन दर्शनाद्विशेषः। .. Page #16 -------------------------------------------------------------------------- ________________ १५ नयप्रकाशस्तववृत्तिः ननु पूर्वनिरूपणे कथं नैते नयाभासाः पृथक्दर्शिताः ? इति चेत् तत्रैतेषां नयानां शब्दविचारचतुरखेन विशेषतात्पर्याविवक्षयैवकारमात्रविहितविभेदास्त्रयोऽप्येते नयाभासा न प्रदर्शिता इति हाईम् । एतेषु च नयेषु ऋजुसुत्रान्ताश्वखारोऽथेप्रधानाः, शेषास्तु त्रयः शब्दप्रधानाः प्रत्येतव्याः। कः पुनरत्र बहुविषयो नयः ? को वाऽल्पविषयः ? कश्रात्र कारणभूतः कार्यभूतो वा ? इति चेत्, पूर्वः पूर्वो बहुविपया कारणभूतश्च, परः परोऽल्पविषया कार्यभूतश्व, इति ब्रूमःसङ्ग्रहाद्धि नैगमो बहुविषयो भावविषयत्वात् यथा-सति संकल्पस्तथाऽसत्यपि । सङ्ग्रहस्तु ततोऽल्पविषयः सन्मात्रगोचरत्वात्, तत्पूर्वकसाच्च तत्कार्यम् । सङ्ग्रहाद्वयवहारोऽपि, तत्पूर्वकः सद्विशेषावबोधकत्वात् , अल्पविषय एव । व्यवहारात्कालत्रितयवृत्त्यर्थगोचरात् ऋजुमुत्रोऽपि, तत्पूर्वको वर्तमानार्थगोचरतयाऽल्पविषय एव । ___ कालादिभेदेनाभिन्नार्थप्रतिपादकात् ऋजुसुत्रात् , तत्पूर्वकः शब्दनयोऽप्यल्पविषय एव तद्विपरीतार्थगोचरत्वात् । ____ शब्दनयात् पर्यायभेदेनार्थाभेदं प्रतिपद्यमानात् तद्विपर्ययात्तत्पूर्वकः समभिरूढोऽप्यल्पविषय एव । - समाभिरूढतश्च क्रियाभेदेनाभिन्नमर्थ प्रतिपादयतस्तद्विपर्ययेण एवम्भूतोऽप्यल्पविषय एव इति। . नन्वेते नयाः किमेकस्मिन्विषयेऽविशेषेण प्रवर्तन्ते ? किंवा विशेषोऽस्ति ? इति अत्रोच्यते-यत्रोत्तरो नयोऽर्थीशे वर्तते, तंत्र पूर्वः पूर्वोऽपि वर्तत एव । यथा-सहस्रेऽष्टशती, तस्यां वा पञ्चशती, इत्यादौ पूर्वसंख्या उत्तरसंख्यायामावरोधेन वर्तते । Page #17 -------------------------------------------------------------------------- ________________ १६ श्री हेमचन्द्राचार्य ग्रन्थावली. यत्र तु पूर्वः पूर्वो नयः प्रवर्त्तते, तत्र उत्तर उत्तरो नयो न प्रवचैते, पञ्चशत्यादी अष्टशत्यादिवत् । एवं नयार्थे प्रमाणस्यापि सांशवस्तुवेदिनो वृत्तिरविरुद्धा । न तु प्रमाणार्थे नयानां वस्त्वंशमात्रवेदिनाम् इति । कथं पुनर्नय सप्तभङ्गयाः प्रवृत्तिः ? इति चेत्; प्रतिपर्याय वस्तुन्यैकत्राविरोधेन विधेः प्रकल्पनया इति ब्रूमः । तथाहि - संकल्पमात्रग्राहिणो नैगमस्याश्रयणात् विधिक - ल्पना प्रस्थादिसंकल्पमात्रम्, 'मस्यादि स्यादस्ति इति । सङ्ग्रहाश्रयणात्तु प्रतिषेधकल्पना, न प्रस्थादिसंकल्पमात्रम् ; प्रस्थादिसन्मात्रस्य तथाप्रतीतेः असतः प्रतीतिविरोधात् इति । " व्यवहाराश्रयणाद्वा द्रव्यस्य पर्यायस्य वा प्रस्थादिमतीतिः, तद्विपरीतस्यासतो वा प्रत्येतुमशक्तेः । ऋजुसूत्रस्याश्रयणाद्वा पर्यायमात्रस्य प्रस्थादिखेन प्रतीतिः, अन्यथा प्रतीत्यनुत्पत्तेः । शब्दाश्रयणाद्वा कालादिभिन्नस्यार्थस्य प्रस्थादित्वम्, अन्यथाऽतिप्रसङ्गात् । 'समभिरूढाश्रयणाद्वा पर्यायभेदेन भिन्नस्यार्थस्य प्रस्थादित्वम्, अन्यथाऽतिप्रसङ्गात् । 'एवम्भूताश्रयणाद्वा प्रस्थादिक्रियापरिणतस्यैवार्थस्य प्रस्थादित्वम्, नान्यस्य, अतिप्रसङ्गात्; इति । , तथा 'स्यादुभयं क्रमार्पितोभयन्याश्रयणात् ' स्यादवक्तव्यम् ' सहार्पितोभयनयाश्रयणात् एवमवक्तव्योत्तराः शेपात्रयो भङ्गा यथायोगमुदाहार्याः । इयं हि वस्त्वंशमात्रग्राहित्वेन विकला देशरूपा नयखतभङ्गी इति । Page #18 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तववृत्तिः .. १७ एवमेते समापि नयाः परस्परनिरपेक्षा अपि श्री जिनशासने समुदिता भवन्ति, इति चतुर्थवृत्तार्थः ॥ ४ ॥ .. .. नन्वते वस्त्वंशग्राहिणो मिन्नाथगोचरा अपि नयाः कथमेकत्र समुदिता भवन्ति ? इति चेत् ;प्रमाणसप्तभङ्गया इति ब्रूमः। ननु काऽसौ प्रमाणसप्तभङ्गी ? इत्याशंकायामाहयया विधिश्चापि निषेध एक स्मिन्साध्यतेऽर्थे युगपत्क्रमाच्च । सा सप्तमङ्गी जिनराजशासने ___ जयत्यनेकान्तविचारवर्धिनी ॥ ५॥ व्याख्या-' एकस्मिन् ' वस्तुनि ‘क्रमात् ' परिपाट्या विधिः साध्यते, 'चः' पुनरर्थे 'निषेधः' एकत्रैव कालायभेदेऽपि निरूपकवचनभेदात् विधिसाधनान्तरं निषेधोऽपि साध्यत इत्यर्थः; 'युगपच्च' इति चकारस्य भिन्नक्रमलादेकस्मिमेव वस्तुनि सहैव निरूपणं निपुणवचनरचनया विधिनिषेधौ यया सप्तमङ्गया साध्येते इत्यर्थः । ननु यया प्रमाणसप्तभङ्गया क्रमयोगपद्याभ्यां विधिनिषेधौ साध्येते, सा सप्तभङ्गी सोदाहरणा मुव्यक्ता च निरूपणीया इति चेत् ; निरूप्यते___एकत्र जीवादौ वस्तुनि एकैकसत्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादिवाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पालोचनया कृत्वा स्याच्छब्दलाच्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी. इति गीयते । . तद्यथास्यादस्त्येव सर्वम्, इति विधिकल्पनया. प्रथमोभाः । Page #19 -------------------------------------------------------------------------- ________________ १८ श्रीहेमचन्द्राचार्यग्रन्थावली. स्यानास्त्येव सर्वम्, इति निषेधकल्पनया द्वितीयः। स्यादस्त्येव, स्यान्नास्त्येव, इति क्रमतो विधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेव, इति युगपद्विधिनिषेधकल्पनया चतुर्थः । स्यादस्त्येव, स्यादवक्तव्यमेव, इति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव, स्यादवक्तव्यमेव, इति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव, स्यान्नास्त्येव, स्यादवक्तव्यमेव, इति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः। तत्र 'स्यात्' कथश्चित्स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण; तथाहिकुम्भो द्रव्यतः पार्थिवत्वादिना स्वरूपेणास्ति, न जलत्यादिरूपेण क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन; कालतः शशिरत्वेन, न वासन्तिकादित्वेन; भावतः श्यामत्वेन, न रक्तत्वादिना; अन्यथा स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्रभङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपातम्, इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत; प्रतिनियतस्वार्थानभिधानात्, तदुक्तम्-'वाक्येऽवधारणं तावदनिष्टार्थनिष्पत्तये कर्तव्यम्' अन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् । तथापि 'अस्त्येव कुम्भः' इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भायस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात्, तत्प्रतिपत्तये ' स्यात्' इति शब्दः प्रयुज्यते, स्यात्-कथञ्चित् स्वद्रव्यादिभिरेवायमस्ति, न परद्रव्यादिभिरपि, इत्यर्थः । यत्रापि चासो न प्रयुज्यते, तत्रापि व्यवच्छेदफलैवकारवद बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्-" सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते " यथैवकारोऽयोगादिव्यवच्छेद Page #20 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तववृत्तिः प्रयोजन इति । अयं भावार्थ:- स्यात्पदेन हि स्वरूपेणास्तित्वायोगव्यवच्छेदः क्रियते, एवकारेण च पररूपेण नास्तित्वायोगव्यवच्छेदः क्रियते इति प्रथमो भङ्गः । " ' स्यात् ' कथञ्चित् ' नास्त्येव कुम्भादि: ' स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसच्चानङ्गीकारे प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियतिर्न स्यात् । १९ न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धम्, इति वक्तव्यम् ? कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वात् साधनवत् । न हि क्वचिदनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम्, तस्य साधनत्वाभावप्रसङ्गात्; तस्माद्वस्तुनोऽस्तित्वं नास्तित्वेन विनाभूतम्, नास्तित्वं च तेन, इति विवक्षावशाच्चानयोः प्रधानोपसर्जनभावः । प्रथमभङ्गे हि विधेः प्राधान्येन निरूपणम्, प्रतिषेधस्य गौणत्वेन । द्वितीयभङ्गे तु प्रतिषेधस्य प्राधान्येन निरूपणम्, विधेस्तु गौणत्वेन; इत्यनयोर्विशेषः । एवमुत्तरभङ्गेष्वपि ज्ञेयम्, इति द्वितीयो भङ्गः । तृतीयः स्पष्ट एव द्वाभ्यामस्तित्व नास्तित्वधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यामेकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासम्भवात्, अवक्तव्यं जीवादि वस्तु । तथाहि -सदसत्त्वगुणद्वयं युगपदेकत्र 'सत् ' इत्यनेन वक्तुमशक्यम्, तस्यासत्त्वप्रतिपादनासमर्थत्वात्; तथा असत्' इत्यनेनापि, तस्य सच्चप्रत्यायन सामार्थ्याभावात् न च पुष्पदन्तादिवत् सांकेतिकमेकपदं तद्वक्तुं समर्थम्, तस्यापि क्रमेणार्थद्वयप्रत्यायने सामर्थ्योपपत्तेः । ' एवं सकलवाचकरहितत्वादवक्तव्यं युगपत्सदसत्त्वाभ्यां Page #21 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यग्रन्थावली. प्रधानभावाप्तिाभ्यामाकान्तं व्यवतिष्ठते, न च सर्वथाऽवक्तव्यम्, अवक्तव्यशब्देनाप्यनभिधेयत्वप्रसङ्गात, इति चतुर्थः । शेषास्त्रयः सुगमाभिप्रायाः । इयं च सकलादेशापरपर्याया प्रमाणसप्तमी प्रमाणवाक्यनिरूपिता इति ।: ननु नयवाक्ये प्रमाणवाक्ये च कथं सप्तैव भङ्गाः सम्भवन्ति ? इति चेत्, प्रतिपायप्रश्नानां तावतामेव सम्भवात, प्रश्नवशादेव हि सप्तभङ्गीनियमः। - सप्तविधप्रश्नोऽपि कुतः ? इति चेतः सप्तविधजिज्ञासासंभवात् । सापि सप्तधा कुतः ? इति चेत्, सप्तधा संशयोत्पत्तेः । सोऽपि सप्तधा कथम् ? इति चेत; तद्विषयवस्तुधर्मस्य सप्तविधत्वात् । तथाहि सत्त्वं तावद्वस्तुधर्मः, तदनभ्युपगमे वस्तुनो वस्तुत्वायोगात, खरशङ्गवत् । तथा, कथञ्चिदसत्त्वं तद्धगतध]में एव स्वरूपादिभिरिव पररूपादिभिरपि, अस्यासत्त्वानगीकारे प्रतिनियतस्वरूपासंभवात् वस्तुप्रतिनियमविरोधः स्यात् । एतेन क्रमार्पितोभयत्वादीनां वस्तुधर्मत्वं प्रतिपादितं प्रतिपत्तव्यम् । तदभावे क्रमेण सदसत्त्वविकल्पशब्दव्यवहारविरोधात्, सहावक्तव्योपलक्षितोत्तरधर्मीवकल्पत्रय [विकल्प] सत्वव्यवहारस्य चासत्वमसङ्गात् । न चामी व्यवहारा निषिया एव, वस्तुप्रतिपत्तिप्रत्तिप्राप्तिनिश्चयात्, तथाविधरूपादिव्यवहारवत् । ननु प्रथमद्वितीयधर्मवत्मथमतृतीयादिधर्माणां क्रमेतरार्पितानां धर्मान्तरत्वसिद्धेन सप्तविधधर्म नियमः सिद्धयेत् । ' ___इत्यप्यसुन्दरम्, क्रमार्पितयोः प्रथमतृतीयधर्मयोईयोधर्मान्तरत्वेनापतीतेः सत्त्वद्वयस्यासम्भवात्, विवक्षितस्वरूपादिना सत्त्वस्यैकत्वात्, तदन्यस्वरूपादिना सत्त्वस्य द्वितीयस्य संभवे Page #22 -------------------------------------------------------------------------- ________________ २१ नयमकाशस्तववृत्तिः विशेषादेशात्, तत्प्रतिपक्षभूतासत्त्वस्याप्यपरस्य संभवात्, अप. रधर्मसप्तकसिद्धेः सप्तभङ्गायन्तरसिद्धतो न कश्चिदुपालम्भः । एतेन द्वितीयतृतीयधर्मयोः क्रमार्पितयोधर्मान्तरत्वमप्रातीतिक व्याख्यातम् । कथमेवं प्रथमचतुर्थयोर्द्वितीयचतुर्थयोश्च सहितयोर्धर्मान्तरत्वं स्यात् ? इति चेत्, चतुर्थे अवक्तव्यधर्मे सच्चा तत्त्वयोरपरामर्शत्वात् न खलु सहार्पितयोरवक्तव्यशब्दनाभिधानम् । किं ताह ? क्रमापितयोस्तयोः सवेथा वक्तुमशक्यवक्तव्यवस्य धमान्तरस्य तेन प्रतिपादनमिष्यते न च तेन सहितस्य सत्त्वस्यो. भयस्य वा प्रतीतिः, धर्मान्तरत्वासिद्धिर्वा । प्रथमभङ्गे सत्त्वस्य प्रधानभावेन प्रतीतेः, द्वितीये पुनरसस्वस्य, तृतीय क्रमार्पितयोः, चतुर्थे वक्तव्यत्वस्य, पञ्चभे सत्त्व सहितस्य, षष्ठे पुनरसत्त्वोपेतस्य, सप्तमे क्रमवत्तदुभययुक्तस्य सकलजनैः सुप्रतीतखात्, इति । ननु च वक्तव्यत्वस्य धर्मान्तरत्वे वस्तुनि वक्तव्यत्वस्याट्रमस्य धर्मान्तरस्य भावात् कथं सप्तविध एव धर्मः सप्तमजीविषयः स्यात् ? ... ___ इत्यप्यपेशलम्, सत्त्वादिभिरभिधीयमानतया वक्तव्यखस्य प्रसिद्धः सामान्येन वक्तव्यत्वस्यापि विशेषेण वक्तव्यतायामव: स्थानात् । भवतु वा,-वक्तव्यत्वात्तयोधर्मयोः प्रसिद्धिः, तथापि आभ्यां विधिप्रतिषेधकल्पनाविषयाभ्यामिव सप्तभङ्गायन्तरस्य प्रवृत्तेनं तद्विषयसप्तविधधर्मनियमविधातः, यतः-तद्विषयः संशयः सप्तधैव न स्यात् । तद्धेतुजिज्ञासा वा, तन्निमित्तः प्रश्नो वा, वस्तुन्येकत्र सप्तविधवाक्यनियमहेतुः।। इत्युपपन्नेयं प्रश्नवशादेकवस्तुन्यविरोधेन विधिनिषेधकल्प Page #23 -------------------------------------------------------------------------- ________________ २२ श्रीहेमचन्द्राचार्यग्रन्थावली.. ना सप्तभङ्गी । अविरोधेनाभिधानात् प्रत्यक्षादिविरूद्धविधिप्रतिषेधकल्पनायाः सप्तभङ्गीरूपता प्रत्युक्ता, एकवस्तुनीत्याभधानाच्च अनेकवस्त्वाश्रयकल्पनायाः; इति । नन्वियं सप्तभङ्गी क्व भवति ? इत्याह-'जिनराजशासने सा सप्तभङ्गी जयति' इत्युत्तरान्वियः । किं विशिष्टा ? 'अनेकान्तविचारवर्द्धिनी'-स्याद्वादविचारद्धिकारिणी, इत्यर्थः । अनया किल सप्तभङ्गया एकान्तवादनिरासपूर्वमनेका. तवाद एवादाप्ता भवात, एकास्मन्नव वस्तुनि कालाद्यभेदेन सत्त्वासत्त्वाधनेकधर्माणां प्रतिपादनात् । . नन्वेवं घटादिरूपमेकं वस्तु 'सदसत्' इत्युक्तं भवति, तच्च नैव घटते; तथाहि-सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, असत्त्वमपि सत्त्वपरिहारेण, अन्यथा तयोरविशेषात् । ततश्च तयपि सत्, कथमसत् ? अथासत्, कथं सत् ? इत्येकत्र सदसत्वयोर्विरोधात् । तथा चोक्तम् यस्मात्सत्त्वमसत्त्वं च विरुद्धं हि मिथो द्वयम् । - वस्त्वेकं सदसदूपं तस्मात्खलु न युज्यते ॥१॥ किंच-सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्वं च वस्तु. धर्मतयाऽभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम्-धर्मधर्मिणोः किं तावद्भेदः ? आहोश्विदभेदः ? आहोश्विद्भेदाभेदः ? इति । तत्र यदि तावद्भेदः, ततः सदसत्त्वयोर्भिन्नत्वात् , कथमेकं सदसद्रूपम् ? इति । अथाभेदः, ततः सदसत्त्वयोरेकत्वम्, एकस्माद्धर्मिणो भिन्नत्वात्, तत्स्वरूपवत् । अतोऽपि कथमेकं सदसदूपम् ? इति । धर्मिणो वा भेदः, सदसत्त्वयोरभिन्नत्वात् , स्वात्मवत् । इत्थमपि कथमेक मुभयरूपम् ? । अथ भेदाभेदः, अत्रापि येना Page #24 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तवत्तिः कारेण भेदः, तेन भेद एव ? येन चाभेदः, तेनाभेद एव ? तदेवमपि नैकमुभयरूपम् । अथ यैनैवाकारेण भेदः, तेनैवाभेदः ? येनैव चाभेदः, ते. नैव भेदः ? इति । एतदप्यचारु, विरोधात् । ___ यदि येनाकारेण भेदः, कथं तेनैवाभेदः ? अथाभेद कथं भेदः ? इति । _ अथ येनाप्याकारेण भेदः, तेनापि भेदश्चाभेदश्व; इत्युभयम् ? येनापि चाभेदः, तेनाप्यभेदश्च भेदश्व; इत्युभयमेव ? । अत्रापि येनाकारेण भेद; तेन भेद एव; येन चाभेदः, तेनाभेद एव; इति तदेवावर्तते । किंच-भेदाभेदमभ्युपगच्छताऽवश्यमेवेदमङ्गीकर्त्तव्यम्-इह धर्मधर्मिणोधर्मधर्मितया भेदः । स्वभावतोऽपि हि तयोर्भदेऽझीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वयमेवाङ्गीकृतं स्यात् , न पुनरेकं द्विरूपम्। इति । तदत्रापि निरूप्यते-नानासादितस्वभावभेदयोधर्मधर्मिणोधर्मधर्मितयापि भेदो युज्यते; तथाहि-यदि यो धर्मस्य स्वभावः, स एव धर्मिणोऽपि एवं सत्यसौ धर्मी धर्म एव स्यात्, तत्स्वभावत्वात्, धर्मस्वरूपवत् । ___ धर्मोऽपि धर्मिमात्रमेव स्यात्, इति ? ततश्चैवं धर्मधर्मिणौ स्वभावभेदानासादनेनापतिलब्धभेदौ कथं भवतः ? इति । न च स्वभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, पूर्वदोषानतिवृत्तेः। किं च-'संविन्निष्टाश्च विषयव्यवस्थितयः' न च सदसदूपं वस्तु संवेधते, उभयरूपस्य संवेदनस्याभावात; तथाहि-नाक्षजे विज्ञाने सदसत्त्वे प्रतिभासेते, असत्त्वस्यारूपत्वात् , रूपत्वे चासत्त्वविरोधात्, तथाऽनुभवाभावाच्च । Page #25 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यग्रन्थावली. न च कार्यान्तरेणापि सदसदूपं वस्तु प्रतिपत्तुं शक्यते, यतः नोभयरूपं कार्यमुपलभ्यते । न च तत्कार्यकरणे प्रवर्तमानं केनचिदाकारेण करोति, केनचिन्न करोति; एकस्य करणाकरणविरोधात् । सर्वात्मना च करणे तद्भावरूपमेव स्यात् ;तथाहिनाभावः कस्य चिदपि कारणं भवितुमर्हति, अभावत्वविरोधात ; तत्कारणत्वे च विश्वमदरिदं स्यात्, तत एव कटककुण्डलायुत्पत्तेः । अतः श्रद्धागम्यमेवेदं 'सदसदूपं वस्तु' इति । . एतेन नित्यानित्यमपि प्रत्युक्तभेवावगन्तव्यम्, विरोधादेव तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यमाख्यायते । प्रकृत्यैकक्षणस्थितिधर्मकं चानित्यम्, इति । ततश्च तयदि नित्यम्, कथमनित्यम् ? अनित्यम् चेत्, कथं नित्यम् ? इति। - . ननु नहि कूटस्थनित्यतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः, किन्तु पूर्वोत्तरक्षणविभागेन प्रबन्धवृत्त्या । नहि पर्यायाणामिव द्रव्यस्याप्युच्छेदः, तद्रूपेण तथा प्रतीतेः । पर्याया एवं हि पर्यायरूपेण निरुध्यन्ते । ... ननु 'द्रव्यम्.' इति नित्यमभ्युपगम्यते, इति चेत् तदयुक्तम्, यस्मादेषाऽत्र नित्यता न सम्भवति, पर्यायव्यतिरिक्त स्य द्रव्यस्यासिद्धेः; तथाहि-न पर्यायव्यतिरिक्तं द्रव्यमस्ति, तथाऽ. नुभवाभावात् । व्यतिरिक्तभावे त्वेकरूपैकवस्तुवादहानिप्रसङ्गः। व्यतिरिक्ताव्यतिरिक्तपक्षस्तु विरोधाघ्रातत्वादनुद्घोष्यः, इति । ____एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम् तथाहि-एक सामान्यम्, अनेके विशेषाः; तथा निरवयवं सामान्यम्, सावयवा विशेषाः; तथाऽक्रिय सामान्यम्, सक्रिया विशेषाः, तथा सर्वगतं. सामान्यम्, असर्वगता विशेषाः ।। Page #26 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तववृत्तिः ततश्च-तयदि सामान्यरूपम्, कथं विशेषरूपम् ? चेद्विशेषरूपम्, कथं सामान्यरूपम् ? इति । किंच-सामान्योभयविशेषरूपत्वे सति वस्तुनः सकललोकव्यवहारप्रसिद्धसंत्र्यवहारनियमोच्छेदप्रसङ्गः, तथाहि-विषमोदकादिव्यक्त्यभिन्नमनानास्वभावमेकं सामान्यं वर्तते; ततश्व न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकात् । नापि मोदको मोदक एव, विषाभिन्नसामान्याभेदात् । किं तर्हि ? . उभयमपि उभयरूपम् । ततश्च विषार्थी विषे प्रवर्तते, मोदके च; एवं मोदकार्थ्यपि मोदके, विषे च । लोकस्तु विषार्थी विष एव प्रवर्तते, न मोदके, मोदकार्थ्यपि मोदक एव, न तु विषे; इत्यस्य नियमस्योच्छेदः स्यात् । तथाच-विषे भक्षितेऽपि मोदको भक्षितः स्यात्, मोदके भक्षिते विषं भक्षितं स्यात् । तथा च सति प्रतीतिविरोधः स्यात् । ननु विषादिषु विशेषरूपताऽप्यस्त्येव, सा तदर्थमो नियमेन प्रवृत्तेषिजम् , तद्भक्षणे नान्यभक्षणं स्यात् ।। ... एतदयुक्तम् , विकल्पानुपपत्तेः; तथाहि-विषविशेषरूपता मोदकादिविशेषरूपव्यात्ता वा स्यात् ? तत्स्वरूपनियता वा ? न तावन्मोदकादिविशेषरूपव्यावृत्ता, तदनान्तरभूतसामान्याव्यतिरेकात् । व्यतिरेके चोभयरूपवस्तुवादहानिप्रसङ्गात् । व्यतिरेकाव्यतिरेकपक्षस्य चाविरोधेन तिरस्कृतत्वात् । नापि स्वरूपनियता, मोदकाधभिन्नसामान्यानान्तरसात् । अर्थान्तरत्वे च सैव विशेषरूपता अर्थक्रियार्थिप्रवृत्तिविषयत्वात् वस्त्वस्तु, तत्फलविशेषोपादानभावलक्षितस्वभावत्वाद्वस्तुनः । सा च तादृशी नान्यत्रास्ति, अर्थिनः प्रत्यभावात् । तत्त्यज्यतामुभय Page #27 -------------------------------------------------------------------------- ________________ २६ श्रीहेमचन्द्राचार्यग्रन्थावली. रूपैकवस्तुवादाभिमानः ॥ एवमभिलाप्यमपि विरोधबाधितत्वादेवानुद्घोष्यम् ; तथाहि-अभिलप्यते यत्तदभिलाप्यम्, अनभिलाप्यं चेत्, न तहमिलाप्यम् , इति, एकस्यानेकविरुद्धधर्मानुगमाभावात् । - किंच-विरुद्धधर्माध्यासितस्वरूपत्वात् वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः; तथाहि-रतदात्माङ्गनाभवनमणिकनकधनधान्यादिकम् ,अनात्मकम् अनित्यम्,अशुचि, दुःखम् इति कथञ्चिद्विज्ञाय भावतस्तथैव भावयतः,वस्तुतस्तत्राभिष्वङ्गास्पदाभावाद्, भावनाप्रकविशेषतः वैराग्यमुपजायते; ततो मुक्तिः। यदा तु तदात्माऽङ्गनादिकं सात्मकायपि,तदा यथोक्तभावनाऽभावात्, भावेऽपि मिथ्यात्वरूपत्वात् , वैराग्याभावः, तदभावाच्च मुत्त्यभावः, इति ॥ ___ तदेवमेते मन्दमतयो दुस्तर्कोपहतास्तीर्थ्याः स्वयं नष्टाः परानपि मन्दमतीनाशयन्ति, इति प्रतिविधीयते । तत्र यत्तावदुक्तम्-"कथमेकमेव घटादिरूपं वस्तु सच्चासच्च भवति," तदेतदाबालगोपालाङ्गनादिप्रतीतमनाशङ्कनीयमेव; यतः-तत्स्वद्रव्यक्षेत्रकालभावरूपेण सर्तते, परद्रव्यक्षे कालभावरूपेण चासत् ; ततश्च सच्चासच्च भवति; अन्यथा तदभावप्रसङ्गात् तथाहि-यदि तद्यथा स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्त्तते, तथैव परद्रव्यक्षेत्रकालभावरूपेणापि स्यात् । ततश्च तद् घट वस्त्वेव न स्यात; परद्रव्यक्षेत्रकालभावरूपेणासत्त्वे सति स्वद्रव्यक्षेत्रकालभावरूपेणाप्यसत्त्वात्, खरविषाणादिवत् । इत्येवं तदभावप्रसङ्गात्-सदभावप्रसङ्गात् सदसद्रूपं तदङ्गीकर्तव्यम्, इति । ___ तथा च-द्रव्यतः-पार्थिवत्वेन सत्, नावादित्वेन क्षेत्रतःइहत्यत्वेन, न पाटलिपुत्रकादित्वेन; तथा कालतः-घटकाललेन; . Page #28 -------------------------------------------------------------------------- ________________ नयमकाशस्तवत्तिः . २७ न मृत्पिण्डकपालकालत्वेन; तथा भावतः-श्यामत्वेन, न रक्तत्वादिना, इति । अन्यथेतररूपापत्त्या तत्स्वरूपहानिप्रसङ्गः, इति । अत्र बौद्धः प्राह-नन्वेतत्स्वद्रव्यसत्त्वमेव परद्रव्यासत्त्वम्, एवं स्वक्षेत्रसत्त्वमेव परक्षेत्रासत्त्वम् , एवं स्वकालसत्त्वमेव परकालासत्त्वम्, एवं स्वभावसत्त्वमेव परभावासत्त्वम्, इति। तथा च-घटवस्तुनः पार्थिवद्रव्यसत्त्वमेव अबादिद्रव्यात त्वम्, तथेहक्षेत्रसत्त्वमेव पाटलिपुत्राद्यसत्त्वम्, तथा घटकालसत्त्वमेव मृत्पिण्डकपालकालासत्त्वम्, तथा श्यामत्वसत्त्वमेव रक्तत्वायसत्वम्, इति । एतदप्यसारम्, तस्यैकस्वभावत्वेऽवस्तुत्वमसङ्गात् तथाहियदि पार्थिवद्रव्यसत्त्वमेव, अवादिद्रव्यासत्त्वम्, एवं तर्हि यथा तत्पार्थिवद्रव्यत्वेन सत्, एवमबादिद्रव्यत्वेनापि सदेव स्यात् ; तत्सत्त्वाव्यतिरिक्तवादितरासत्त्वस्य; यथाऽवादि द्रव्यत्वेनासत्, तथा पार्थिवद्रव्यत्वेनापि असदेव स्यात्, तदसत्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । एवं यदि इहक्षेत्रसत्त्वमेव, पाटलिपुत्रायसत्त्वम्, सतश्च तद्यथेह सत्, तथा पाटलिपुत्रकादावपि स्यात्, इह सत्याव्यतिरिक्तत्वात्तत्रासत्त्वस्य; यथा वा पाटलिपुत्रादावसत्, तथेहापि, तदसत्त्वाव्यतिरिक्तत्वादिहसत्त्वस्य । एवं यदि घटकालसत्वमेव, मृत्पिण्डकपालकालासत्त्वम् , ततश्च तद्यथा घटकाले सद्, एवं मृत्पिण्डकपालकालेऽपि स्यात्, तत्सत्वाव्यतिरिक्तत्वात् तदसत्त्वस्य; यथा वा मृत्पिण्डकपालकालेऽसत्, तथा घटकालेऽपि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात् तत्सत्त्वस्य । एवं यदि श्यामत्वसत्वमेव, रक्तत्वाद्यसत्त्वम्, ततश्च तद्यथा श्यामत्वेन सत्, एवं रक्तत्वादिनाऽपि स्यात्, तदसत्त्वाव्यतिरि Page #29 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यगन्थावली. क्तत्वादितरासत्त्वस्य; यथा वा रक्तत्वादिनाऽसत्, तथा श्यामत्वेनापि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । ततश्च तदितररूपापत्त्यादिनाऽवस्तुत्वमसङ्गः, इत्यलं स्वदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेन इति । ततश्चैवं न सर्वथा सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, न चासत्त्वं सत्त्वपरिहारेण । , न चानयोरविशेष एव, भिन्ननिमित्तत्वात्। तथाहि-स्वद्रव्यादिरूपेण सत्, परद्रव्यादिरूपेण चासत्, इत्युक्तम्। ततश्चैवं सदसदूपं वस्त्वङ्गीकर्त्तव्यमेव । यदप्युक्तम्-" सदसटूपं वस्त्वभ्युपगच्छता सत्त्वमसत्वं च वस्तुधर्मतयाऽभ्युपगतं भवति," एतदिष्यत एव । . . यत्पुनरिदमुक्तम्-" ततश्चात्रापि वक्तव्यम्-धर्मधर्मिणोः किं तावद्भेदः ? " इत्यादि, अत्रापि सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषोऽनभ्युपगमतिरस्कृतत्वादेव न नः क्षतिमावहति । भेदाभेदपक्षस्त्वभ्युपगम्यत एव । नन्वत्रापि " येन प्रकारेण भेदः, तेन भेद एव ?" इत्यादिदूषणमुक्तम्, इति चेत् न, अधिकृतविकल्पस्यार्थापरिज्ञानात, अन्योऽन्यव्याप्तिभावेन भेदाभेदपक्षस्य जात्यन्तरात्मकत्वात्केवलभेदानुपपत्तेः । नान्योऽन्यानुविद्धौ इति जैनमतम्, अभेदाननुविद्धस्य केवलभेदस्यासिद्धेः,भेदाननुविद्धस्य चाभेदस्यासि द्धेः; अतो येनाकारेण भेदस्तेन भेद एव, इत्यर्थशून्यमेव । ___अथ 'धर्मर्मिणोर्भेदाभेदः' इति कोऽर्थः ? कथञ्चिद्भेदः, कथश्चिदभेदः, इति । तत्र धर्मागां मिथो भेदात्पतिनियतधाश्रितत्वाच कथञ्चिद्भेदः, । तथाहि-न धर्माणां धर्मिणा सर्वथैकले धर्मतयापि भेदो युज्यते, इति प्रतीतमेतत् । तथा धर्माणा Page #30 -------------------------------------------------------------------------- ________________ २९ नयप्रकाशस्तववृत्तिः मेवाभ्यन्तरीकृतर्मिस्वरूपत्वाद्धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वाच्च कथञ्चिदभेदः, इति । न चात्यन्तभेदे धर्मधर्मिकल्पना युज्यते, अतिप्रसङ्गात् । .... ननपेक्षितेयं धर्मधर्मिकल्पना, न तत्त्वतः इति । एतदप्ययः क्तम् , दृष्टविरोधात् । न च दृष्टेऽनुपपनं नाम, अनुत्तव्यात भावं च, तदेकस्मभाव एवासावनुभवो घटप्रतिच्छायतयोपजायमानः पटादिप्रतिभासव्यवच्छेदेन ख्याप्यते । न पुनरस्य भावतो द्वे रूपे, इति चेत्, नैतद्युक्तम् , विहितोत्तरखात् 'तत्स्वरूपसत्त्वमेव परस्वरूपासत्त्वम्' इति निर्लोठितम् ।। किञ्च-एकान्तपर्यायनयमतानुसारिपक्षे कल्पनायोगात; तथा हि-कल्पना वस्तुनि समुत्पन्ने वा स्यात् ? अनुत्पन्ने वा ? न तावदनुत्पन्ने, तस्यैवासत्वात् उत्पन्नेऽपि गृहीते वा स्याद् ? अगृहीते वा ? न तावदगृहीते अतिप्रसङ्गात् गृहीतेऽपि च तद्ग्राहकस्य ज्ञानस्याविकल्पकखात्, विकल्पज्ञानस्य चातद्विषयत्वात्, भावकाले च तदसत्त्वात् । तत्रैव कल्पना, इति चेत् न, विकल्पानुपपत्तेः; तथाहि-तत्राप्युत्पन्ने वा स्याद ? अनुत्पन्ने वा ? नानुत्पन्ने असत्त्वात नाप्युत्पन्ने, उत्पत्त्यनन्तरविनाशित्वात् । विकल्पनारूपमेवोत्पयते, इति चेत्, न, तस्य हेत्वयोगात् । हेत्वयोगश्च स्वलक्षणादनुत्पत्तेः। स्वलक्षगानुभवाहितसंस्कारातज्जन्म, इति चेत् न, संस्कारस्यापि स्वलक्षणेतररूपानतिकमात्, इति । यच्चोक्तम्-" भेदाभेदमभ्युपगच्छताऽवश्यं चेदमगीकर्तव्यम् ,-इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः, इत्यादि" एतदपि “धर्माणां मिथो भेदात्मतिनियतवन Page #31 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यग्रन्थावली. याश्रितत्वाच्च कथघिद्भेदः" इत्यादिना प्रत्युक्तम् , प्रका. रान्तरेण भेदाभेदासिद्धे। यदप्युक्तम्-" संविनिष्ठाश्च विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात् ," इत्यादि । एतदपि “ अनुवृत्तव्यात्तस्वभावं वस्त्वध्यक्षतोऽवसीयते" इत्यादिना परिहृतम् , उभयरूपस्य संवेदनस्यावा. धितत्वात् । यच्चोक्तम्-" न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुत्पद्यते," इत्यादि । एतदप्यनवकाशम् , वस्तुस्थित्योभयरूपस्योपलम्भस्य साधितत्वात् । " न च तत्कायकरणे प्रवर्तमान केनचिदाकारेण करोति, केनचिन करोति, एकस्य करणाकरणविरोधात्," इत्यायप्यसारम् , विरोधासिद्धः, तथाहि-पर्यायात्मना करोति, द्रव्यात्मना न करोति, इति; कुत एकस्य करणाकरणविरोधः ? इति । अथवा स्वकार्यकर्टलेन करोति, कार्यान्तराकर्तृखेन न करोति, अतः केनचिदाकारेण करोति, केनचिन करोति, कोऽत्र विरोधः ? इति । तस्माद्व्यवस्थितमेतत् ‘सदसद्रूपं वस्तु' इति । . एतेन "नित्यानित्यमपि प्रत्युक्तमवगन्तव्यम्" इत्यादि यदुक्तम् , तदप्यनुपपन्नम् , प्रमाणतस्तदवगमात् ; तथाहि-नित्यानित्यमेव तदवगम्यते, अन्यथा तदवगमाभावप्रसङ्गात् ; तथाहि-यदि तदप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते, एवं तर्हि तद्विज्ञानजननस्वभावं वा स्यात् ? अनननस्वभावं वा ? ययायपक्षः, एवं सति सर्वत्र सर्वदा सर्वेषां तद्वि Page #32 -------------------------------------------------------------------------- ________________ .नयमकाशस्तवत्तिः ज्ञानप्रसङ्गः, तस्यैकस्वभावखात्, न चैतदेवम् , क्वचित दाचित्कस्यचिदेव तद्विज्ञानभावात् । न चैकस्वभावस्य देशादिकृतो विशेषः, इति कल्पना युज्यते, तद्भावेऽनित्यत्वप्रसङ्गात् । सहकारिणमपेक्ष्य जनयति, इति चेत्, न, एकान्तनित्य- . स्यापेक्षायोगात् ; तथाहि-'सहकारिणा तस्य कश्चिद्विशेषः क्रियते' इति वक्तुं तावदशक्यम्, यदि क्रियते स किमर्थान्तरभूतोऽनर्थान्तरभूतो वा ? यद्यर्थान्तरभूतस्तर्हि तस्य किमायातम् ? स तस्याविशेषकारकः, इति चेत् ; अनवस्थाप्रसङ्गः; तथाहिस विशेषस्ततो भिन्नोऽभिन्नो वा ? इति प्रश्नावकाशात्तदेवावतते, इत्यनवस्था। .. अथानन्तरभूतः, स विद्यमानः ? अविद्यमानो वा ? यदि विद्यमानः, कथं क्रियते ? करणे वाऽनवस्थामसङ्गः । .. अथाविद्यमानः, व्याहतमेतत् ; स ततोऽनर्थान्तरभूतोऽविधमानश्चेति, करणे चानित्यत्वापत्तिरिति; तथाहि-तस्मिक्रियमाणे पदार्थ एव कृतः स्यात्, तदव्यतिरिक्तत्वात्तस्य । अथ, माभूदेष दोषः, 'न क्रियते । इत्याश्रीयते । न तर्हि स तस्य सहकारी, तस्याकिश्चित्करत्वात् । भावे वातिप्रसङ्गः, इति; तथाहि-यदि कंचन विशेषमकुर्वन्नपि स तस्य सहकार्यभ्युपगम्यते, सर्वभावानामेव तत्सहकारित्वप्रसङ्गः, तद्विशेषाकरणेनाविशेषात्, इति । . व्यर्था सहकारिकल्पना, इति चेत् ; न, एवंभूत एव तस्य वस्तुनः स्वभावः, येनाविशेषकारकमपि प्रतिनियतं सहकारिणमपेक्ष्य कार्य जनयति, इति । एतदपि मनोरथमात्रम्-विकल्पानुपपत्तेः, तद्धि यदाऽभी Page #33 -------------------------------------------------------------------------- ________________ ३२. श्रीहेमचन्द्राचार्यग्रन्थावली. ष्टसहकारिसन्निधौ कार्य जनयति, तदाऽस्यानन्तरोदितसहकार्यपेक्षालक्षणस्वभावो व्यावर्तते ? न वा ? इति वक्तव्यम् । यदि व्यावर्त्तते, अनित्यत्वप्रसङ्गः, स्वभावव्यावृत्तौ स्वभाववतोऽपि तदव्यतिरेकेण तद्वदेव निवृतेः । अथ न व्यावतते, तर्हि कार्याजननप्रसङ्गः तत्स्वभावानिवृत्तेः, तथाहि-य एव तस्य कार्यजननावस्थायां स्वभावः, अजननावस्थायामपि स एव, इति कथं जनयति ? सर्वदा वा जननप्रसङ्गः, इत्येवं तावदेकान्तनित्यपक्षे विज्ञानादिकार्यायोगात् तदवगमाभावः, इति । नित्यानित्यं पुनः कथञ्चिदवस्थितत्वात् अनेकस्वभावत्वाजनयति विज्ञानादिकम् , इति अतोऽवगम्यते, इति । . . नित्यानित्यत्वं च वरतुनो द्रव्यपर्यायोभयरूपत्वादनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात्प्रत्यक्षसिद्धमेवः तथाहि-मृत्पिण्डशिवकस्थासकघटकपालादिष्वविशेषेण सर्वत्रानुवृत्तो मृदन्वयः संवेद्यते, प्रतिभेदं च पर्यायव्यावृत्तिः, तथा च-न यथाप्रतिभासं मृत्पिण्डे संवेदनम् , तथाप्रतिभासमेव शिवकादिषु, आकारभेदाद् । न च यथाप्रतिभासभेदं तद्विजातीयेषूदकदहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, मृदन्वयानुभवात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तुं युज्यते प्रतीतिविरोधात् । न च निराकारमेव संवेदनम्, अर्थान्तरस्येव ततो विवक्षितार्थापरिच्छेदात् । न ह्यर्थीकारानुभवव्यतिरेकेणापरोऽर्थपरिच्छेदः, अतिप्रसङ्गात् , सर्वस्य सर्वार्थपरिच्छेतृत्वापत्तेश्च । ___ न चेदं संवेदनं भ्रान्तम् , इति शक्यते वक्तुम् , देशकाल. नरावस्थान्तरेऽविशेषेण प्रवृत्तेः; तथाहि-देशान्तरे कालान्तरे १ अत्रानेकान्तवादजयपताकादौ मूलपन्थे [ वाणारस्यां मुद्रिते पृ०. ८३. ९७. ] कथञ्चित्पाठभेदः चिन्त्यश्च धीधनैः । Page #34 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तवत्तिः । नरान्तरेऽवस्थान्तरे च मृत्पिण्डादिषु च यथोक्त लक्षणमेव संवेदनं प्रवर्तते, न चार्थप्रभवमविसंवादिसंवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते; प्रतीतिबाधितवेन तेषामनादेयत्वात् । न चैकान्तनित्येषु यथोक्तसंवेदनसम्भवः, व्यावृत्ताकारनिबन्धनस्य पर्यायभेदस्याभावात् , अन्यथैकान्तनित्यत्वानुपपत्तेः। - तथैकान्तनश्वरेष्वपि नाधिकृतसंवेदनभावोयुज्यते,अनुव ता. कारनिबन्धनस्य द्रव्यस्यान्वयाभावात्। तस्माद्यत एव नित्यम्,अत एवानित्यम् द्रव्यात्मना नित्यत्वात् , तस्य चाभ्यन्तरीकृतपर्यायत्वात्। यत एव चानित्यमत एव नित्यम् ,पर्यायात्मनाऽनित्यत्वात्, तस्य चाभ्यन्तरीकृतद्रव्यखात् , उभयरूपस्य चानुभवसिद्धवात् , एकान्तभिन्नस्य चोभयस्याभावात् । उक्तंचद्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः। क्व कदा केन किंरूपा दृष्टा मानेन केन का ॥१॥ इत्यादि । ननु पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्भवति किम् ? वा न ? इति । यदि भवति, अनित्यमेव तत् , निवृत्तिमत्त्वात् , पर्यायस्वात्मवत् । अथ न भवति, हन्त तर्हि द्रव्यपर्याययोर्भेदप्रसङ्गः, तथाहि-पर्यायेभ्योऽन्यद्रव्यम् , तनिवृत्तावपि तस्यानिटत्तेः, पटादिव घटः, इति । . एतदप्ययुक्तम् , कथञ्चिनिटत्तिभावात् , अस्य चानुभवसिद्धत्वात; तथाहि-घटपर्यायनिवृत्तौ कपालकालेऽपि तदबुद्धया मृदनुभूयत एव, तदेकान्तनिवृत्तौ चोर्ध्वपर्यायवनानुभूयते। अर्ध्वादिनिवृत्तित एव भेदसिद्धिः, इति चेत् ; न, ऊ देरपि मृदः सर्वथा भेदासिद्धेः । न चासो कपालमृद् घटमृदस्सर्वथा Page #35 -------------------------------------------------------------------------- ________________ ३४ श्रीहेमचन्द्राचार्यग्रन्थावली. ऽन्यैव, तदत्यन्तभेदे तस्या अमृत्त्वप्रसङ्गात् ; यथा-उदकं न मृत् , दतोऽत्यन्तभेदात् , एवमसावपि स्याद् , अविशेषात् , इति । ____ नन्वेतदमृत्स्वभावेभ्यो व्यावृत्तत्वात्कपालपदार्थस्य मृत्स्वभावता, नोदकस्य, तेभ्यो व्यावृत्त्यभावात् , इति । एतदप्यसमीक्षिताभिधानम्, वस्तुनो विजातीयेतरव्यावृत्ताव्यावृत्तोभयस्वभावापत्तेः; तथाहि-अमृत्स्वभावेभ्य एवोदकादिभ्यो व्यावृत्तस्वभावः एवं सति कपालपदार्थः स्यात् , न तु मृपिण्डशिपमदि-पो मृत्स्वभावभ्योऽपि, नट्यावृवारमत्स्वभावत्वमसङ्गात् । यथैवाऽमृत्स्वभावेभ्यो व्यावृत्तः सन्मृत्स्व. भावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तोऽमृत्स्वभावः स्यात, न्यायानुमतमेतत् । अन्यथाऽमृत्स्वभावव्यावृत्तावपि मृस्वभावत्वानुपपत्तेः। स्यादेतद्-वस्तुतः सजातीयेतरव्यात्तस्वरूपत्वात् , पतिनियतैकस्वभावत्वात् , सर्वभावानां ययोक्तदोषाभावः, तथाहियथाऽसौ कपालभाव उदकादिभ्यो व्यावृत्तः सन्मृत्स्वभावः, एवं घटादिभ्योऽपि, तस्यैकस्वभावत्वात्, तेनैव रूपेण व्यावृ. तत्वात् , इति । एतदप्ययुक्तम्-अनुभवविरुद्धत्वात् ; तथाहि-यदि स येनैव स्वभावेनामृत्स्वभावेभ्यो व्यावृत्तः, तेनैव मृत्स्वभावेभ्योऽपि, हन्त तर्हि-यथैवामृत्स्वभावभावकान्तविभिन्नावभासहेतुः, तथैव मृत्स्वभावापेक्षयाऽपि स्यात् । न च भवति, मृत्स्वभावस्यानुभूयमानत्वाव, तस्यैव तथा परिणतिदर्शनात् । अनुभवस्य चापहोतुमशक्यत्वात् , ' अनुभवप्रमाणकाश्च सन्तोऽर्थाधिगमे' इति । प्रतिनियतैकस्वभावानुभवनिबन्धनाभ्युपगमे च पर्यायतः समान परिणाम एवाभ्युपगत इति, न काचिनो बाधा । इत्यलं विस्तरेण। Page #36 -------------------------------------------------------------------------- ________________ नयनकाशस्तवत्तिः तथैकान्तानिवृत्तौ [सत्यां] तद्विलक्षणबुद्धयभाव एव, इति न स्यात्कपालबुद्धिः, विशेषाभावात्, तस्यापच्युतानुस्पअस्थिरैकस्वभावखात्, इति । एतेन स्यादारेका-" नहि कूटस्थनित्यतया" इत्यादि यदाशङ्कयोक्तम्-" पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः" इत्यादि' तदपि प्रतिक्षिप्तमेवावगन्तव्यम् , कथञ्चिद्वयतिरेकसिद्धेः, इति ॥ तथा चोक्तम् द्रव्यपर्याययोः सिद्धो भेदाभेदः-प्रमाणतः। संवेदनं यतः सर्वमन्वयव्यतिरेकवत् ॥१॥ .... यचोक्तम्-"एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम्" इत्यादि, तदप्ययुक्तम्-सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात् ; तथाहि-'घटो घटः' इति सामान्याकारा बुद्धिरुत्पद्यते, मार्तिकः, ताम्रः, राजतः, इति विशेषाकारा च पटादिवा न भवति, इति । .. . न चार्थसद्भावोऽर्थसद्भावादेव निश्चीयते, सर्वसत्वानां सर्वज्ञत्वप्रसङ्गात् , सर्वार्थानामेव सद्भावस्याविशेषात् । . . किं तर्हि ? ... अर्थविज्ञानसद्भावानिश्चयः । ज्ञानं च सामान्यविशेषाकारमेवोपजायते, इति । अतोऽनुभवसिद्धत्वात् सामान्यविशे. षरूपं वस्तु, इति ॥ . ..न चायमनुभवो भ्रान्त इति युज्यते, घटादिसनिधावविकलतदन्यकारणानां सर्वेषामेवाविशेषेणोपजायमानत्वात् , इति । सिद्धं सर्व वस्तु सामान्यविशेषात्मकम् इति । .. यच्चोक्तम्-" एक सामान्यमनेके विशेषाः" इत्यादि । तदप्ययुक्तमः अनभ्युपगमातू । नहि यथोक्तस्वभावं सामान्यम Page #37 -------------------------------------------------------------------------- ________________ ३६ श्रीहेमचन्द्राचार्यग्रन्थावली. भ्युपगम्यतेऽस्माभिः, युक्तिरहितत्वात् । किन्त्वनेकधर्मात्मकस्य वस्तुनः समानपरिणामः सामान्यम्, इति; समानानां भाव:सामान्यम् , इत्यन्वर्थयोगात् । समानत्वं च भेदाविनाभाव्येव । तदभावे च सर्वथैकत्वतः समानत्वानुपपत्ति; इति । समानपरिणाम एव समानबुद्धिशब्दद्वयप्रतिनिमित्तम् , तेषामेवासमानपरिणामनिबन्धना विशेषबुद्धिः, इति । तथा चोक्तम् वस्तुन एव समानः परिणामो यः स एव सामान्यम् । असमानस्तु विशेषो वस्त्वेकमनेकरूपं तु ॥ ततश्च-तधत एव सामान्यरूपम् , अत एव विशेषरूपम्, समानपरिणामस्यासमानपरिणामाविनाभूतत्वात; यत एव च विशेषरूपम् , अत एव सामान्यरूपम् , असमानपरिणामस्यापि समानपरिणामाविनाभावत् , इति । न चानयोविरोधः, समाना- ६, समानपरिणामयोरुभयोरपि स्वस्वसंवेदनसिद्धत्वात् , स्वसंवेदनस्योभयरूपत्वात् , उभयरूपतायाश्च व्यवस्थितत्वात् । ___ यच्चोक्तम्-" सामान्यविशेषोभयरूपत्वे सति वस्तुनः ' सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः" इत्यादि, तदपि जिनमतानभिज्ञतासूचकमेव । नहि " विषमोदकादिविशेषानान्तरम् , सर्वथैकस्वभावम् , एकम्, अनवयवम् , सामान्यम्" इत्यभिदधति जैनाः । न विषं विषमेव, मोदकाघभिन्नसामान्याव्यतिरेकात् , इत्यादि। किं तर्हि ? समानपरिणामः ? स च भेदाविनाभूतत्वात् । न य एव विषादिभिन्नः, स एव मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायागात् । Page #38 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तववृत्तिः ३७ नन्वेतत्समानपरिणामस्यापि रिणामवत्तद्भावानुपपत्तिः, इति । एतदप्ययुक्तम्, सत्यप्यन्यत्वे समानासमान परिणामयोर्भिनस्वभावत्वात् तथाहि - समानधिषणाध्वनिनिबन्धन स्वभावः समानपरिणामः, तथा विशिष्टबुद्धयभिधानजननस्वभावस्त्वितरः, इति । प्रतिविशेषमन्यत्वादसमानप यथोक्तसंवेदनासंवेद्याभिधेयाभिधाना एव विषादयः, इति प्रतीतमेतत्; अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि द्वयमप्युभयरूपम्, तथाहि - विषार्थी विष एवं प्रवर्त्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविना भूतत्वात् न तु मोदके, तत्समानपरिणामाविनाभावाभावात्तद्विशेषपरिणामस्य, इति । अतः प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदना, इति । एतेन " विषे भक्षितेऽपि मोदको भक्षितः स्यात् " इत्याद्यपि प्रतिक्षिप्तमवमन्तव्यम्, तुल्ययोगक्षेमत्वात् इति ॥ यच्च परेणाप्युक्तम् - "सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः” इत्यादि तदपि न विदुषां मनोरञ्जकमित्यपकर्णयितव्यम्, वस्तुतः प्रदत्तोत्तरत्वात् इत्यलं विस्तरेण । यच्चोक्तम् - " एवमभिलाप्यानभिलाप्यम् " इत्यादि तदप्ययुक्तम्, अन्यथा व्यवहारोच्छेदप्रसङ्गात्, तथाहि - यद्येकान्तेनैवानभिलाप्यमभ्युपगम्यते, कथं तर्हि शब्दविशेषादर्थप्रतीत्यादिः ? दृश्यते च ' अनलाद्यानय' इत्याद्युक्ते विनीतानां धूमध्व'जादौ प्रवृत्तिः । एवमेकान्ताभिलाप्यत्वम्, अनलाचलादिशब्दोच्चारेण वदनदाहपूरणादिप्रसङ्गान्नाङ्गीकर्त्तव्यम् । न चैत्रंवादिनः क्वचिदप्युपलभ्यन्ते इत्यतो नेह यत्नः इति । तस्माद्वयवहारान्यथाऽनुपपत्तेरभिलाप्यानभिलाप्यम्, इति स्थितम् ; Page #39 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यग्रन्थावली. न चात्र विरोधबाधा, भिन्ननिमित्तत्वात् ; तथाहि-अभिलाप्यधर्मकलापापेक्षया तदभिलाप्यम्, अनमिलाप्यधर्मकलापनिमितत्वापेक्षया चानभिलाप्यम्, इति । धर्मधर्मिणोश्च कथश्चिद्भेदः, इति प्रतिपादितम् , ततश्च तद्यत एवाभिलाप्यम् , अत एवानभिलाप्यम् अभिलाप्यधर्मकलापनिमित्तापेक्षयैवाऽभिल,प्यत्वात्, अभिलाप्यधर्माणां चानभिलाप्यधर्माणां चानभिलाप्यधर्माविनाभूतत्वात् । यत एव चानभिलाप्यम् , अत एव चाभिलाप्यम्, अनभिलाप्यधर्माणां चाभिलाप्यधर्माविनाभूतत्वात्, इति । नन्वेतद्यदि तदभिलाप्यानभिलाप्यधर्मकम् ' एवं तद्यभिलाप्यानां शब्देनाभिधीयमानत्वात्किमित्यकृतसङ्केतस्य पुरोऽवस्थितेऽपि वाच्ये शब्दान्न संपत्ययश्वृत्ती भवतः इति । अत्रोच्यते-तद्ज्ञानावरणकर्मक्षयोपशमाभावात् , तस्य च सङ्केताभिव्यङ्गन्यत्वात् । तथाहि-ज्ञस्वभावस्यात्मनो मिथ्यात्वादिजनितज्ञानावरगादिकर्ममलपटलाच्छादितस्वरूपस्य सङ्केततपश्चरणदानप्रतिपक्षभावनादिभिस्तदावरणकर्मक्षयोपशमक्षयावेवापयेते, ततो विवक्षितार्थाकारं संवेदनं प्रवर्तते; इति । अन्यथा तत्मवृत्त्यभावात् , तत्मथमतयैव सर्वत्रादृष्टसङ्केतानामर्भकाणां सङ्केतस्य कर्तुमशक्यत्वात् ; तथाहि-न शब्दादप्यसङ्केतितात्तदर्थे प्रतिपत्तियुज्यते, तत्सङ्केतकरणे च तत्राप्ययमेव वृत्तान्तः, इत्यनवस्थाप्रसङ्गः । क्वचिदवस्थाने चास्मन्मतानुवाद एव, इत्यलं विस्तरेण । . यदप्युक्तम्-" विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः" इति, एतदपि सूक्ष्मेक्षिकया मुक्तिमार्गमनालोच्यैवोक्तम्, इतिउक्तवत्सत्त्वानित्यत्वादीनां विरोधिवासिद्धेः; अन्यथा वस्त्वभावप्रसङ्गः । Page #40 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तवत्तिः ३९ किञ्च-विरोधिधर्माध्यासितस्वरूपाभाव एव वस्न एकान्तवादिन एव मुक्त्यभावप्रसङ्गः ; तथाहि-यदि तदात्माऽङ्गनामणिकनकधनधान्यादिकमेकान्तेनैवानात्मकादिधर्मयुक्तं भावनालम्बनमिष्यते, हन्त ! तर्हि सर्वथाऽनात्मकत्वाद्भावकभाव्याभावाचत्परिज्ञानोचरकालभाविभावनाभावतः कुतः कस्य वा मोहादिपहाणम् , इति कथ्यतामिदम् । । नन्वेतद्विरुद्धधर्माध्यासितस्वरूपत्वे सति वस्तुन एवाभावानिवन्धनव्यवहाराभावः; नहि शीतोष्णस्पर्शवदेकमस्ति, तयोर्विरोधात् , इति चेत् ? अत्रोच्यते-अथ कोऽयं विरोधः ? अन्यतराभावेऽन्यतराभावः, इति चेत् ? अस्त्वेतत्, किन्तु-शीतोष्णस्पर्शयोर्यो विरोधः, स किं स्वरूपसद्भावकृत एव ? उतैककालेऽसंभवेन ? आहोश्विदेकद्रव्यायोगेन ? किमेककालैकद्रव्याभावतः ? उतैककालै कद्रव्यैकप्रदेशासम्भवेन ? आहोश्विक्षभिन्नत्वनिमित्रत्वेन ? इति । - किश्चातः ? - न तावत् स्वरूपसद्भावकृतः एव शीतोष्णएशयोर्विरोधः, नहि शीतस्पर्शोऽनपेक्षितान्यनिमित्तः स्वात्मसद्भाव एवोष्णस्पशेन सह विरुध्यते, उष्णस्पर्शो वेतरेण; अन्यथा, त्रैलोक्येऽपि शीतोष्णस्पर्शाभावः स्यात् , एकस्य वा कस्यचिदवस्थानादन्यतरस्य; न चानयो गति कदाचिदप्यसत्ता, सदैव वडवानलतुहिनसद्भावात् । न 'चैककालासम्भवेन' शीतोष्णस्पर्शयोर्विरोधः; यतः-एकस्मिन्नपि काले तयोः सद्भाव उपलभ्यत एव, यथाशीता आपः पर्वते, तत्रैवोष्णोऽनिरपि, इति । न चैकद्रव्यायोगेन' यतः-एकेनापि द्रव्येण तयोर्योगो भवत्येव, तथा च शीतकाले रात्रौ निरावरणे देशे पर्युषिते लोहभाजने शीतस्पर्टी भ. Page #41 -------------------------------------------------------------------------- ________________ ४० श्रीहेमचन्द्राचार्यग्रन्थावली. वति, तत्रैव मध्याह्ने दिनकरप्रतप्ते उष्णः, इति न विरोधः । न चैककालैकद्रव्याभावतः' विरोधः, यतः-एकस्मिन्नेव काले एकस्मिन्नेव द्रव्ये तयोर्भाव एव; तथाहि-धूपकडुत्थकस्थालकेऽग्निसम्बन्धे उष्णस्पर्शो भवति, तस्यैव तु गण्डके शीतः; इति न च विरोधः । ' एककालैकद्रव्यैकप्रदेशासम्भवलक्षणविरोधः'त्विष्ट एव,एकप्रदेशस्यापरप्रदेशाभावेनावयवावयविभेदानुपपत्तेः, भिन्नधर्मत्वात् , भिन्नधर्मयोश्चैकत्वं विरुद्धमेव, अन्यथा, तद्भेदाभावप्रसङ्गात् । न चैवं सदसन्नित्यानित्यादिभेदानां भिन्नधर्मत्वम् , एकत्रैव भावात् ; भावस्य च सतस्तत्स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते, परद्रव्यक्षेत्रकालभावरूपेण चासत् , इत्यादिना प्रतिपादितत्वात् । ततश्च नासम्भावना विर धेन नियमभाविनामपि विरोधकल्पना न्याय्या, अतिप्रसङ्गात् । नहि श्रावणत्वं विरुद्धमपि घटादिसत्त्वेन, न पुनरसत्तयाऽपि विरुध्यते, तथोपलम्भाभावात् । अभिन्ननिमित्तत्वेनापि विरोधः सिद्ध एव । नहि यदेव शीतस्पर्शस्य निमित्तं तदेवोष्णस्य, भेदाभावेन तत्सङ्करोपलब्धिप्रसङ्गात् । न च सदसदादिधर्माणामभिन्ननिमित्तम्, निमित्तभेदाभ्युपगमात्, न चैकस्मिन्निमित्तभेदोन युक्तः, एकान्तेन एकत्वासिद्धः, धर्मधर्मिरूपत्वात् , धर्मधर्मिणोश्च भेदाभेदस्य प्रतिपादितत्वात् । इत्यलं विस्तरेण । इति सिद्धमेकत्रैव बस्तुनि कालाद्यभेदेन सत्त्वासत्त्वनित्यानित्यत्वेत्यादिधर्मवन्दम् , इति; अनया गत्या चास्याः सप्तभङ्गायाः स्याद्वादविचारचतुरत्वेन अनेकान्तविचारवर्द्धिनी इति विशेषणपदमपि सार्थक बभूव । इति पूर्णः पञ्चमवृत्तार्थः ॥ नन्वत्र सप्तभङ्गयां सत्त्वासत्त्वयोरिव विशेषसामान्ययोर Page #42 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तवत्तिः ४१ विनाभावो दर्शितः, स च कथं भवति ? इत्याहविशेषसामान्यमयाः पदार्था । भवन्ति सर्वेऽप्यविशेषमेव । अर्थान्तरत्वं वनवस्थितेस्तयो. र्न स्यात्कदाचिज्जिनराजशासने॥ ६ ॥ 'विशेषसामान्यमयाः । इति-विशेषा विष्वगभाववन्तः, सामान्या विष्वगभाववन्तश्च भवन्ति, इति । एतावता प्रतिपदार्थ सामान्यविशेषयोरविष्वगभावेनाव्यभिचारिसम्बन्धरूपाविनाभावात्सामानाधिकरण्यमुक्तम् यत्र हि सामान्यम्, तत्रावश्यं विशेषस्य सत्त्वात् । यत्र च विशेषः, तत्राप्यवश्यं सामान्यस्य विद्यमानत्वात् । सामान्य विशेषयांश्च पदार्थस्वरूपत्वेन पदार्थानां तन्मयत्वं नाम ताभ्यामेकीभावापनत्वं चोक्ता, इति; तथाहि-सामान्यं तावत्समानपरिणामनिबन्धनम् । तथैवान्वर्थयोगातू सजातीयेभ्यः पदार्थभ्य एवास्थ समानारिणामनिबन्धनत्वात् , नतु विजातीयेभ्यः । तेन विजातीयार्थासनानपरिगामनिवन्धन विशेषः । तथाविधारिगामनिवन्धनत्वं च तत्स्वरूपवत एफस्यैव घटादेरर्थस्य, इति; तत्स्वरूपवत्त्वाभावे च वाध्ययस्येव घटादे. रसत्त्वप्रसङ्गात् । इत्यादि साधकबाधकं पूर्वोक्तोव, इति ॥ अविशेषमेव ' इति पदं तु 'द्रव्यगुगकर्मस्वेव सामान्यम् , विशेषस्तु नित्यद्रव्येष्वा' इति परपरिकलितविशेषनिरासकत्वेन सार्थकम्, इति । ननु सामान्यविशेषयो. पदार्थाविष्वगभावे कथमर्थान्तरत्वं स्यात् ? इति चेत् न, कयमपि इत्येतदर्शयाते'अर्थान्तरत्वम्' इति सामान्यस्य विशेषस्य वा पदार्थाद्भिन्नत्वेऽ Page #43 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यग्रन्थावली. ङ्गीक्रियमाणेऽनवस्था स्यात् । तथाहि यथा-द्रव्यगुणकर्मसु सामान्यं सत्, 'सत्' इत्यादिव्यवहारजनकम् ; तथा सामान्येऽपि सत्पदार्थत्वाविशेषात् तद्वयवहारजनकं सामान्य.न्तरं वाच्यम्, तत्रापि सामान्यान्तरम् , इत्यनवस्था । अथ तत्सामान्यस्य सद्यवहारः स्वरूपादेव भवति, तर्हि प्रकृतेऽपि तत्स्वरूपमेव तद्वयवहारजनकमस्तु, कि मिति ततो भिन्न सामान्यरूपार्थाङ्गीकारेण ? इति । एवं विशेषेऽप्यनवस्था; तथाहि-यथा विशेषः स्वाश्रयच्यावृत्तिजनकः, तथा विशेषेऽपि व्यावृत्तत्वाविशेषेण व्यावृत्तिजनकं विशेपान्तरं वाच्यम्, तत्रापि विशेषान्तरम्, इत्यनवस्था । ___ अनया गत्याऽनवस्थितेर्जायमानत्वेन तयोः सामान्यविशेपयोरर्थान्तरत्वं स्वाश्रयार्थभिन्नत्वं न स्यात्-न भवेत् । क्य ? जिनराजशासने-जिनेन्द्रशासन एव हि एवंविधविचारस्य विधमानत्वात् । 'कदाचित् ' इति पदं तु कथञ्चित्तयोरर्थान्तरत्वसूचकत्वे सार्थकम् । ___ ननु यदि घटाद्यर्थेभ्यः सामान्यविशेषौ न भिन्नौ स्तः,तर्हि पदार्थानामनुत्तिव्यावृत्ती कथं स्याताम् ? इति चेत् ; उच्यते-- स्वत एव तेषामनुवृत्तिव्यावृत्ती भवतः ; तथाहि-घट एव तावत्पृथुबुध्नोदराद्याकारवत्त्वेन प्रतीतिविषयीभवन्सन्नन्यानपि तदाकृतिभृतः पदार्थान् घटस्वरूपतया घटशब्दवाच्यतया च प्रत्याययन्सामान्याख्यां लभते । स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन्विशेषव्यपदेशमश्नुते; इति घटस्थेवापरार्थानां स्वत एवानुवृत्तिव्यावृत्ती भवतः इति षष्ठवृत्ताः ॥६॥ Page #44 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तवतिः ननु सामान्यविशेषौ पदार्थधर्मो धर्मधर्मिणोश्चात्यन्तभेदेनार्थान्तरखसिद्धौ, कथं तयोस्तन्निरासः? इति चेत् न धर्मधर्मिणो स्तावदत्यन्तभेदमेव नाङ्गीकुर्मः, कथं तयोरर्थान्तरत्वसिद्धिः ? इत्येत दर्शयति यथाऽतिभेदो विबुधैर्निरस्यते ___ सम्बन्धहाने: खलु धर्मधर्मिणोः । भेद: कथञ्चित्तु तयोस्तथा न श्रीमजिनेन्द्रागमसंमतस्तै: ॥॥ व्याख्या-'यथा' इति दृष्टान्तोपन्यासे, धर्मधर्मिणोः 'विबुधैः ' बैनमतनिष्णातैः · अतिभेदः ' सर्वथा पार्थक्यं निरस्यते । कुतः ? 'सम्बन्धहाने' सम्बन्धाभावप्रसङ्गात् । कोऽर्थः? यैर्धर्मधर्मिणोरत्यन्यभेदोऽङ्गीक्रियते, तैस्तयोः समवाय एवाङ्गीक्रियते, स च तयोरत्न्तभेदेनोपपद्यते । नात्यन्तभिन्नयोईटपटयोरिव तयोः समवायसम्बयो भवति । तथा च प्रयोगःधर्मधर्मिणौ न समवायसम्बधौ, अत्यन्त भिन्नखात् , घटपटयोरिव; इति कृत्वा सम्बन्धहान्यापत्याऽतिभेदो बुधौनरस्यते, इति तात्पर्यम् । ननु यद्ययं सर्वथा भेदो बुधैर्निरस्यते, तर्हि तयोर्भेदः किं सर्वथा नास्त्येव ? इति चेत् ; न, तयोः कथञ्चिभेदोऽस्ति, इति दर्शयति-भेदः' इति तयोः कथञ्चिद्भेदस्तु तथा न बुधैनिरस्यते, इति पूर्ववदेव संटकः । नन्वेवं तयोः किं सम्बन्धहानिर्न भवति इति चेत् न, भवत्येव, इति ब्रूमः, यतो धर्मधर्मिणोर्जनैरविष्वग्भावसम्बन्ध एवाङ्गीक्रियते, स च तयोरत्यन्तभेदाभावे सिद्ध सिद्ध एव । Page #45 -------------------------------------------------------------------------- ________________ ४४ श्रीहेमचन्द्राचार्यग्रन्थावली. नन्धविष्वगभावापन्नयोस्वयोः कथञ्चिद्भेदोऽप्यनुपपन्न एव, नहि स एव घटस्तस्माद् घटाद्भिद्यते, इति चेत् ? न, कथञ्चि - दस्यैवं सिद्धेः, तथाहि-द्रव्यार्थिकनयापेक्षया नित्यस्यापि धर्मिोऽ विष्वगभावापन्धमः सहाभेदः, उत्पादविनाशादिविषयदशापनैस्तैरेव सह भेदः, यथा-सुवर्णस्य धर्मिणः कटकत्वमुद्रिकाखादिभिधमैः सह भेदाभेदौ । नहि कटकत्वमुद्रिकात्वादयो धर्मास्तदाकारीभूतात्सुवर्णात्क्वचित्पृथगुपलभ्यन्ते, इति कृत्वा तस्य तैः सहाभेदः, भेदस्तु कटकत्वादिधर्मनाशे मुद्रिकात्वादिधर्माणामुत्पद्यमानत्वेऽपि धर्मिणस्तस्य विद्यमानत्वात् । इति सप्तमवृत्तवार्थः ॥७॥ ननु कथञ्चिद्भिन्नमपि धर्मर्मिरूपं वस्तु किमुत्पत्तिमत् ? विनाशवत् ? स्थितिमत् ? तत्त्र वद्वा ? इत्याशङ्कयाह. उत्पत्तिनाशस्थितिमद्घटात्मा- . दिकं मतं वस्तु जिनेन्द्रशासने । नाशादिकं ह्येकतरं न मन्यते चेत्स्यादिवासन्खकुसुमं तदार्थः॥॥ व्याख्या-घटश्चात्मा च घटात्मानौ, तावादौ यस्य, तद् घटात्मादिः तदेव घटात्मादिकम् , स्वार्थे कादेवं सिद्धिः। 'वस्तु' पदार्थः, ' उत्पत्तिनाशस्थितिमत्' इति-उत्तत्तियुक्तम् , नाशयुक्तम् , स्थितियुक्तम् , इत्यर्थः । 'मतम् ' संमतम् । क्व ? जिनेन्द्रशासने' अर्हत्प्रवचने । तत्र असत आत्मलाभः उत्पत्तिः, सतः सत्ताविरहो नाशः, द्रव्यतयानुवर्तनं स्थितिः। तत्र घटस्य मृत्पिण्डाद्यवस्थायां पृथुबुध्नोदरायाकारत्वेनासतस्तत्स्वरूपात्मलाभादुत्पत्तिमत्त्वम् , अथ तत्त्वेन सतस्तदभिन्नस्तदाका Page #46 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तववृत्तिः ४५ रविरहान्नाशवत्त्वम्, तथाऽनुवृत्ताकार निबन्धनरूपद्रव्य तयाऽनुवर्तनात्स्थितिमत्त्वम् । एवमात्मनोऽपि तद्भवापेक्षया देवत्वेनासतस्तत्ररूपात्मलाभादुत्पत्तिमत्त्वम् तथा देवत्वेन सतस्तच्च्युतिरूपसत्ताविरहान्नाशवत्त्वम्, द्रव्यतयाऽनुवर्तनात्स्थितिमत्त्वम् । एवं सकलार्थानामप्येतत्रयात्मकत्वमेव । " ननुत्पादादयः परस्परं भिद्यन्ते न वा ? यदि भिद्यन्ते, तदा कथमेकं वस्तु त्र्यात्मकम् ? न भिद्यन्ते चेत् ? तथापि कथमेकत्र्यात्मकम् ? इति चेत् न, लक्षणत्वेन तेषां कथञ्चिद्भेदाभ्युपगमात्; तथा च प्रयोगः-उत्पत्तिविनाशधौव्याणि कथञ्चिद्भिन्नानि, भिन्नलक्षणत्वात्, रूपवत् । अनिनानि च परस्परं कदाचिदपि अनपेक्षत्वाभावात् तथाहि उत्पत्तिः केवला नाहित, स्थितिविगमरहितत्वात्, कूर्मरोमवत् तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिशून्यत्वात् तद्वत् एवं स्थितिः केवला नास्ति, विनाशोत्पत्तिशुन्यत्वात् तद्वदेव । एवमुत्पत्तिः स्थितिविनाशावपेक्षते, विनाशस्तु स्थित्युत्पादावपेक्षते, कोऽर्थः ? यस्यार्थस्योत्पतिस्तस्यैवार्थस्य स्थितिः यस्य स्थिति - स्तस्यैवोत्पत्तिः यथा घटस्य स्वाकारादिनोत्पत्तिः, तस्यैव च घटस्य द्रव्यतया स्थितिरपि तथा द्रव्यतया स्थितस्य घटस्य स्वाकारेणोत्पत्तिः, यस्यैवार्थस्य विनाशः, तस्यैव स्थितिः, यस्यैवार्थस्य स्थितिः तस्यैव विनाशः, यथा - घटस्यैव मृत्पिण्डावस्था - विनाशात्स्वावस्थोत्पत्तिः, द्रव्यतयाऽवस्थितस्यैव तस्य तदाकारविरहान्नाशः, एवमुत्पादव्ययधौ व्याणां परस्परसापेक्षत्वेनाभेदोऽपि सिद्धः । तेनोत्पत्तिस्थितिविनाशाः कथञ्चिद्भिन्नाः । इति सिद्धमेकं वस्तु त्र्यात्मकम्, इति । , नन्वेतेषां त्रयाणां मध्ये क्वचिद्यद्येकतरं नाङ्गीक्रियते, तदा Page #47 -------------------------------------------------------------------------- ________________ ४६ श्रीहेमचन्द्रर्चायग्रन्थावली. किं भवति ? इत्याह ' नाशादि' इति चेत्, यद्येतेषामुत्पत्तिस्थितिनाशानां मध्यान्नाशदिकमेकतर न मन्यते-नाङ्गीक्रियते । केषाश्चित् गगनाद्यर्थानां नाशो नाङ्गीक्रियते, आदिशब्दादेवोत्पत्तिनाङ्गीक्रियते, उत क्षणिकवादाश्रयणेन तेषामेव स्थिति - श्रीक्रियते, तदा तर्हि अर्थो-घटादिः 'खकुसुमम्' इव गगनकुसुममिव असन् भवेत् । अयं भावार्थः-उत्पत्तिनाशस्थितिमत्त्वं तावत्सत्त्वम्, नाशाधनङ्गीकारे चार्थस्यैतल्लक्षणलक्षितसत्त्वाभावादसत्त्वमेव स्यात् ,खकुसुमदृष्टान्तेऽपि तथाखाभावात्सत्त्वाभावः। ननु खकुसुमे त्वतेषां त्रयाणामप्यभावोऽस्ति, प्रकृते च एकतराधनङ्गीकारे कथं खकुसुमसाम्यम् ? इति चेत्, सत्यम्, नाशाधेकतरानङ्गीकारे ह्यपरयोर्द्वयोरप्यनङ्गीकार एव; तथाहिनाशाभावाद् घटस्योत्पत्तिर्नास्ति पूर्वा कारपरित्यागेनैवोत्तराकारोत्पादात् । परित्यागस्तु नाश एव, इति तयोः साहचर्यम् । ____ अथ यस्योत्पत्ति स्ति, तस्य स्थितिरपि नास्ति, स्वाकारेणोत्पन्नस्यैव द्रव्यत्या स्थितत्वात्; अन्यथाऽनुत्पन्नत्वेन पर्यायाभावाव्यखाभावमसत्त्याऽसत्त्वमेव स्यात् । नहि जगति पर्यायद्रव्यातिरिक्तकिञ्चिदस्ति, इति । तथाचैकतरायभावे त्रयाणामप्यभावादर्थस्य खकुसुमसाम्यं स्यात्, असत्त्वाविशेषात, तस्माद त्पत्तिस्थितिविनाशवदेव वस्त्वङ्गीकर्तव्यम्, इत्यष्टमवृत्तार्थः॥८॥ अथोपसंहरन्नाहजयत्यसौ श्रीजिनशासनस्ततः स्थाद्वादतात्पर्यनिवन्धबन्धुरः। .. नयप्रकाशाष्टकनामधारक: स्वार्थ कृतः पण्डितपद्मसागरैः ।।। Page #48 -------------------------------------------------------------------------- ________________ नयप्रकाशस्तवत्तिः सुकरमेवेदं नवमवृत्तम्, इति । समाप्तेयं श्रीनयप्रकाशवृत्तिः । स्याद्वादनिष्णातचक्रिचऋशिरोमणिः । अतुच्छस्वच्छसद्गच्छतपोगच्छप्रभुः प्रभुः ॥१॥ श्रीहीरविजयाभिख्यः मरिर्जयति भूतलम् । यद्गुणग्रामपीयूषावादवान्विबुधो जनः ॥२॥ राज्ये तदीयेऽखिलशास्त्रवेदिनः श्रीवाचकाग्रेसरधर्मसागराः । जयन्ति तेषां चरणप्रसत्या नयप्रकाशो विहितो मयाऽयम् ॥३॥ चक्रे शास्त्रमिदं यत्नात् अग्निफ्टचन्द्रवत्सरे । [१६७३] पद्मसागरसंज्ञेन बुधेन स्वात्मबुद्धये ॥४॥ नमोऽस्तु श्रीस्याद्वादवादिपदे ॥ ग्रन्थाग्रम् ७४० । Page #49 --------------------------------------------------------------------------  Page #50 -------------------------------------------------------------------------- ________________ श्री हेमचन्द्राचार्यग्रन्थावलीतर छपायेलाग्रन्यो- पाटण. 1 दोधकवृत्ति. 2 न्यायावतार. 3 सिद्धदूत. 4 वसुदेवहिण्डीसार. ( पत्राकारे ) 5 वेदांकुश. (,) 0--6-0 6 नयप्रकाशस्तववृत्ति. --3-0 7 थी 11. काव्यमनोहर तथा मण्डनग्रन्थसंग्रह भा. 1 0-12-0 छपाता ग्रन्थो. 1 बृहद्महार्णवन्यास. 2 धर्मपरीक्षा. 3 चतुर्विंशतिप्रबन्ध (पत्राकारे) 4 तिलकमञ्जरीसार पत्राकारे 5 अनेकान्तवादप्रवेश. 6 प्राकृतव्याकरण. 7 काव्यमण्डन. 8 तिलकमंजरी कथासारांश 9 नयप्रकाशस्तववृत्तिभाषान्तर. (गुनशता.) तैयार थतां ग्रंथो. 1 जीवानुशासन. 2 नाभेयनेमिद्विसंधानकाव्य. 3 सम्मतितर्क भाग 2. 4 संगीतमंडन, 5 उपसर्गमंडन. .6 शृंगारमंडन. 7 मलयगिरिशब्दानुशासन.