________________
नयप्रकाशस्तवत्तिः कारेण भेदः, तेन भेद एव ? येन चाभेदः, तेनाभेद एव ? तदेवमपि नैकमुभयरूपम् ।
अथ यैनैवाकारेण भेदः, तेनैवाभेदः ? येनैव चाभेदः, ते. नैव भेदः ? इति । एतदप्यचारु, विरोधात् । ___ यदि येनाकारेण भेदः, कथं तेनैवाभेदः ? अथाभेद कथं भेदः ? इति । _ अथ येनाप्याकारेण भेदः, तेनापि भेदश्चाभेदश्व; इत्युभयम् ? येनापि चाभेदः, तेनाप्यभेदश्च भेदश्व; इत्युभयमेव ? । अत्रापि येनाकारेण भेद; तेन भेद एव; येन चाभेदः, तेनाभेद एव; इति तदेवावर्तते ।
किंच-भेदाभेदमभ्युपगच्छताऽवश्यमेवेदमङ्गीकर्त्तव्यम्-इह धर्मधर्मिणोधर्मधर्मितया भेदः । स्वभावतोऽपि हि तयोर्भदेऽझीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वयमेवाङ्गीकृतं स्यात् , न पुनरेकं द्विरूपम्। इति ।
तदत्रापि निरूप्यते-नानासादितस्वभावभेदयोधर्मधर्मिणोधर्मधर्मितयापि भेदो युज्यते; तथाहि-यदि यो धर्मस्य स्वभावः, स एव धर्मिणोऽपि एवं सत्यसौ धर्मी धर्म एव स्यात्, तत्स्वभावत्वात्, धर्मस्वरूपवत् । ___ धर्मोऽपि धर्मिमात्रमेव स्यात्, इति ? ततश्चैवं धर्मधर्मिणौ स्वभावभेदानासादनेनापतिलब्धभेदौ कथं भवतः ? इति । न च स्वभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, पूर्वदोषानतिवृत्तेः।
किं च-'संविन्निष्टाश्च विषयव्यवस्थितयः' न च सदसदूपं वस्तु संवेधते, उभयरूपस्य संवेदनस्याभावात; तथाहि-नाक्षजे विज्ञाने सदसत्त्वे प्रतिभासेते, असत्त्वस्यारूपत्वात् , रूपत्वे चासत्त्वविरोधात्, तथाऽनुभवाभावाच्च ।