________________
श्रीहेमचन्द्राचार्यग्रन्थावली. न च कार्यान्तरेणापि सदसदूपं वस्तु प्रतिपत्तुं शक्यते, यतः नोभयरूपं कार्यमुपलभ्यते । न च तत्कार्यकरणे प्रवर्तमानं केनचिदाकारेण करोति, केनचिन्न करोति; एकस्य करणाकरणविरोधात् । सर्वात्मना च करणे तद्भावरूपमेव स्यात् ;तथाहिनाभावः कस्य चिदपि कारणं भवितुमर्हति, अभावत्वविरोधात ; तत्कारणत्वे च विश्वमदरिदं स्यात्, तत एव कटककुण्डलायुत्पत्तेः । अतः श्रद्धागम्यमेवेदं 'सदसदूपं वस्तु' इति । .
एतेन नित्यानित्यमपि प्रत्युक्तभेवावगन्तव्यम्, विरोधादेव तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यमाख्यायते । प्रकृत्यैकक्षणस्थितिधर्मकं चानित्यम्, इति । ततश्च तयदि नित्यम्, कथमनित्यम् ? अनित्यम् चेत्, कथं नित्यम् ? इति। - .
ननु नहि कूटस्थनित्यतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः, किन्तु पूर्वोत्तरक्षणविभागेन प्रबन्धवृत्त्या । नहि पर्यायाणामिव द्रव्यस्याप्युच्छेदः, तद्रूपेण तथा प्रतीतेः । पर्याया एवं हि पर्यायरूपेण निरुध्यन्ते । ... ननु 'द्रव्यम्.' इति नित्यमभ्युपगम्यते, इति चेत् तदयुक्तम्, यस्मादेषाऽत्र नित्यता न सम्भवति, पर्यायव्यतिरिक्त स्य द्रव्यस्यासिद्धेः; तथाहि-न पर्यायव्यतिरिक्तं द्रव्यमस्ति, तथाऽ. नुभवाभावात् । व्यतिरिक्तभावे त्वेकरूपैकवस्तुवादहानिप्रसङ्गः। व्यतिरिक्ताव्यतिरिक्तपक्षस्तु विरोधाघ्रातत्वादनुद्घोष्यः, इति ।
____एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम् तथाहि-एक सामान्यम्, अनेके विशेषाः; तथा निरवयवं सामान्यम्, सावयवा विशेषाः; तथाऽक्रिय सामान्यम्, सक्रिया विशेषाः, तथा सर्वगतं. सामान्यम्, असर्वगता विशेषाः ।।