________________
३६ श्रीहेमचन्द्राचार्यग्रन्थावली. भ्युपगम्यतेऽस्माभिः, युक्तिरहितत्वात् । किन्त्वनेकधर्मात्मकस्य वस्तुनः समानपरिणामः सामान्यम्, इति; समानानां भाव:सामान्यम् , इत्यन्वर्थयोगात् । समानत्वं च भेदाविनाभाव्येव । तदभावे च सर्वथैकत्वतः समानत्वानुपपत्ति; इति । समानपरिणाम एव समानबुद्धिशब्दद्वयप्रतिनिमित्तम् , तेषामेवासमानपरिणामनिबन्धना विशेषबुद्धिः, इति । तथा चोक्तम्
वस्तुन एव समानः परिणामो यः स एव सामान्यम् । असमानस्तु विशेषो वस्त्वेकमनेकरूपं तु ॥
ततश्च-तधत एव सामान्यरूपम् , अत एव विशेषरूपम्, समानपरिणामस्यासमानपरिणामाविनाभूतत्वात; यत एव च विशेषरूपम् , अत एव सामान्यरूपम् , असमानपरिणामस्यापि समानपरिणामाविनाभावत् , इति । न चानयोविरोधः, समाना- ६, समानपरिणामयोरुभयोरपि स्वस्वसंवेदनसिद्धत्वात् , स्वसंवेदनस्योभयरूपत्वात् , उभयरूपतायाश्च व्यवस्थितत्वात् । ___ यच्चोक्तम्-" सामान्यविशेषोभयरूपत्वे सति वस्तुनः ' सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः" इत्यादि, तदपि जिनमतानभिज्ञतासूचकमेव । नहि " विषमोदकादिविशेषानान्तरम् , सर्वथैकस्वभावम् , एकम्, अनवयवम् , सामान्यम्" इत्यभिदधति जैनाः । न विषं विषमेव, मोदकाघभिन्नसामान्याव्यतिरेकात् , इत्यादि।
किं तर्हि ?
समानपरिणामः ? स च भेदाविनाभूतत्वात् । न य एव विषादिभिन्नः, स एव मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायागात् ।