________________
.नयमकाशस्तवत्तिः ज्ञानप्रसङ्गः, तस्यैकस्वभावखात्, न चैतदेवम् , क्वचित दाचित्कस्यचिदेव तद्विज्ञानभावात् । न चैकस्वभावस्य देशादिकृतो विशेषः, इति कल्पना युज्यते, तद्भावेऽनित्यत्वप्रसङ्गात् । सहकारिणमपेक्ष्य जनयति, इति चेत्, न, एकान्तनित्य- . स्यापेक्षायोगात् ; तथाहि-'सहकारिणा तस्य कश्चिद्विशेषः क्रियते' इति वक्तुं तावदशक्यम्, यदि क्रियते स किमर्थान्तरभूतोऽनर्थान्तरभूतो वा ? यद्यर्थान्तरभूतस्तर्हि तस्य किमायातम् ? स तस्याविशेषकारकः, इति चेत् ; अनवस्थाप्रसङ्गः; तथाहिस विशेषस्ततो भिन्नोऽभिन्नो वा ? इति प्रश्नावकाशात्तदेवावतते, इत्यनवस्था। .. अथानन्तरभूतः, स विद्यमानः ? अविद्यमानो वा ? यदि विद्यमानः, कथं क्रियते ? करणे वाऽनवस्थामसङ्गः । .. अथाविद्यमानः, व्याहतमेतत् ; स ततोऽनर्थान्तरभूतोऽविधमानश्चेति, करणे चानित्यत्वापत्तिरिति; तथाहि-तस्मिक्रियमाणे पदार्थ एव कृतः स्यात्, तदव्यतिरिक्तत्वात्तस्य । अथ, माभूदेष दोषः, 'न क्रियते । इत्याश्रीयते । न तर्हि स तस्य सहकारी, तस्याकिश्चित्करत्वात् । भावे वातिप्रसङ्गः, इति; तथाहि-यदि कंचन विशेषमकुर्वन्नपि स तस्य सहकार्यभ्युपगम्यते, सर्वभावानामेव तत्सहकारित्वप्रसङ्गः, तद्विशेषाकरणेनाविशेषात्, इति । .
व्यर्था सहकारिकल्पना, इति चेत् ; न, एवंभूत एव तस्य वस्तुनः स्वभावः, येनाविशेषकारकमपि प्रतिनियतं सहकारिणमपेक्ष्य कार्य जनयति, इति ।
एतदपि मनोरथमात्रम्-विकल्पानुपपत्तेः, तद्धि यदाऽभी