SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३२. श्रीहेमचन्द्राचार्यग्रन्थावली. ष्टसहकारिसन्निधौ कार्य जनयति, तदाऽस्यानन्तरोदितसहकार्यपेक्षालक्षणस्वभावो व्यावर्तते ? न वा ? इति वक्तव्यम् । यदि व्यावर्त्तते, अनित्यत्वप्रसङ्गः, स्वभावव्यावृत्तौ स्वभाववतोऽपि तदव्यतिरेकेण तद्वदेव निवृतेः । अथ न व्यावतते, तर्हि कार्याजननप्रसङ्गः तत्स्वभावानिवृत्तेः, तथाहि-य एव तस्य कार्यजननावस्थायां स्वभावः, अजननावस्थायामपि स एव, इति कथं जनयति ? सर्वदा वा जननप्रसङ्गः, इत्येवं तावदेकान्तनित्यपक्षे विज्ञानादिकार्यायोगात् तदवगमाभावः, इति । नित्यानित्यं पुनः कथञ्चिदवस्थितत्वात् अनेकस्वभावत्वाजनयति विज्ञानादिकम् , इति अतोऽवगम्यते, इति । . . नित्यानित्यत्वं च वरतुनो द्रव्यपर्यायोभयरूपत्वादनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात्प्रत्यक्षसिद्धमेवः तथाहि-मृत्पिण्डशिवकस्थासकघटकपालादिष्वविशेषेण सर्वत्रानुवृत्तो मृदन्वयः संवेद्यते, प्रतिभेदं च पर्यायव्यावृत्तिः, तथा च-न यथाप्रतिभासं मृत्पिण्डे संवेदनम् , तथाप्रतिभासमेव शिवकादिषु, आकारभेदाद् । न च यथाप्रतिभासभेदं तद्विजातीयेषूदकदहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, मृदन्वयानुभवात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तुं युज्यते प्रतीतिविरोधात् । न च निराकारमेव संवेदनम्, अर्थान्तरस्येव ततो विवक्षितार्थापरिच्छेदात् । न ह्यर्थीकारानुभवव्यतिरेकेणापरोऽर्थपरिच्छेदः, अतिप्रसङ्गात् , सर्वस्य सर्वार्थपरिच्छेतृत्वापत्तेश्च । ___ न चेदं संवेदनं भ्रान्तम् , इति शक्यते वक्तुम् , देशकाल. नरावस्थान्तरेऽविशेषेण प्रवृत्तेः; तथाहि-देशान्तरे कालान्तरे १ अत्रानेकान्तवादजयपताकादौ मूलपन्थे [ वाणारस्यां मुद्रिते पृ०. ८३. ९७. ] कथञ्चित्पाठभेदः चिन्त्यश्च धीधनैः ।
SR No.022483
Book TitleNayprakash Stav Vrutti
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy