________________
नयप्रकाशस्तवत्तिः । नरान्तरेऽवस्थान्तरे च मृत्पिण्डादिषु च यथोक्त लक्षणमेव संवेदनं प्रवर्तते, न चार्थप्रभवमविसंवादिसंवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते; प्रतीतिबाधितवेन तेषामनादेयत्वात् । न चैकान्तनित्येषु यथोक्तसंवेदनसम्भवः, व्यावृत्ताकारनिबन्धनस्य पर्यायभेदस्याभावात् , अन्यथैकान्तनित्यत्वानुपपत्तेः। - तथैकान्तनश्वरेष्वपि नाधिकृतसंवेदनभावोयुज्यते,अनुव ता. कारनिबन्धनस्य द्रव्यस्यान्वयाभावात्। तस्माद्यत एव नित्यम्,अत एवानित्यम् द्रव्यात्मना नित्यत्वात् , तस्य चाभ्यन्तरीकृतपर्यायत्वात्। यत एव चानित्यमत एव नित्यम् ,पर्यायात्मनाऽनित्यत्वात्, तस्य चाभ्यन्तरीकृतद्रव्यखात् , उभयरूपस्य चानुभवसिद्धवात् , एकान्तभिन्नस्य चोभयस्याभावात् । उक्तंचद्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः। क्व कदा केन किंरूपा दृष्टा मानेन केन का ॥१॥ इत्यादि ।
ननु पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्भवति किम् ? वा न ? इति । यदि भवति, अनित्यमेव तत् , निवृत्तिमत्त्वात् , पर्यायस्वात्मवत् । अथ न भवति, हन्त तर्हि द्रव्यपर्याययोर्भेदप्रसङ्गः, तथाहि-पर्यायेभ्योऽन्यद्रव्यम् , तनिवृत्तावपि तस्यानिटत्तेः, पटादिव घटः, इति । . एतदप्ययुक्तम् , कथञ्चिनिटत्तिभावात् , अस्य चानुभवसिद्धत्वात; तथाहि-घटपर्यायनिवृत्तौ कपालकालेऽपि तदबुद्धया मृदनुभूयत एव, तदेकान्तनिवृत्तौ चोर्ध्वपर्यायवनानुभूयते। अर्ध्वादिनिवृत्तित एव भेदसिद्धिः, इति चेत् ; न, ऊ देरपि मृदः सर्वथा भेदासिद्धेः । न चासो कपालमृद् घटमृदस्सर्वथा