________________
.नयप्रकाशस्तववृत्तिः के पुनः कालादयः ? कालः, आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दः, इति ।.. ____ कथमेभिरभेदवृत्त्या एकस्मिन्नेव वस्तुनि युगपद्विरुद्धधर्मग्रहः ? इति चेत् ; निशम्यताम्-‘स्याद् घटोऽस्त्येव' इत्यत्र घटे यत्कालमस्तित्वं तत्कालास्तत्रैव शेषा नास्तित्वादयो धर्माः स. न्ति; इति कालेनाभेदवृत्तिः। .........
ननु अस्तित्वेन सहाविरुद्धानां द्रव्यत्वादीनां धर्माणामेकत्रापि कालेनाभेदत्तिर्भवतु, परं सर्वथा तद्विरुद्धानां नास्तित्वादीनां कथं सा सम्भवति ? इति चेत् ; सत्यम् , अस्तित्वनिरूपणसमये हि घटे नास्तिवस्यापि वर्तमानत्वात् । तथाच अयमर्थः-' स्यादस्त्येव घटः' इत्युक्तेऽस्तित्वसमानाधिकरणा अनन्ता अपि धर्माः प्रतिपाद्यन्ते, घटत्वपृथुबुध्नोदरायाकारवत्वद्रव्यत्वाभिधेयत्वप्रमेयत्वादिभिरनन्तैर्धमैर्विशिष्टस्यैव घटस्य सत्तायोगात् । घटखाद्यनन्तधर्मावौशष्टये च घटस्यासवप्रसङ्गात्, तस्माद् घटेऽस्तित्वकैवल्याभावेन केवलास्तित्वस्य वक्तुमशक्यत्वात् , तत्समानाधिकरणानन्तधर्माणामपि तस्मिन्नेव काले प्रतिपादनात् कालेनाभेदात्तः। ..
'आत्मरूपम् ' घटपर्यायवादिकम् , तेनान्यधर्मः सहास्तित्वस्याभेदवृत्तिः। यथा-अस्तित्वं घटपर्यायः, तथाऽन्येऽपि धर्मा घटपाया एव; इत्यर्थः।
. ' अर्थः ' नाम आधारः, ततो य एवं घटलक्षणोऽस्तित्वस्याधारः स एवापरधर्माणामपि; इत्यर्थाभेदवृत्तिः ।
.. ' सम्बन्धः' अविष्वगभावरूपः, ततो य एवास्तित्वस्य घटेऽविष्वग्भावरूपः सम्बन्धः स एवापरधर्माणामपि; इति सम्बन्धाभेदवृत्तिः।