________________
श्रीहेमचन्द्राचार्यग्रन्थावली. ‘अपर' इति; ग्राह्यधर्माद् व्यतिरिक्तधर्मोपेक्षकलम् । इत्यर्थः ।
प्रमाणवाक्यं तु युगपत्सकलधर्मग्राहि वाक्यम्-प्रमाणवाक्यम् । दुर्नय-नयवाक्ययोरपि सकलधर्मग्राहित्वं कालादिभेदेन प्रत्येकमस्त्येव, इति ताभ्यामस्य योगपद्येन भेदः, इति ।
तदेतान्युक्तानि प्रमाणवाक्यादिनां लक्षणानि, उदाहरणानि तु प्राक्मोक्तानि । इति द्वितीयवृत्तार्थः ॥ २ ॥ — अथैतानि वाक्यानि सकलादेशविकलादेशस्वरूपाणि भवन्ति, तेन तयोः स्वरूपं वाच्यम् ; इत्याशङ्कयाह
एकत्रधर्मा युगपद्विरुद्धाः ___ कालाद्यभेदान्निहिता हि येन । आदेशमासाद्य तमत्र शासने
जयन्ति जैनाः परवादिदर्शनम् ॥३॥ व्याख्या- जैनाः' जिनाज्ञाधराः 'आदेशमासाय' इति सकलादेशसान्निध्यं प्राप्य, इत्यर्थः ।
अथ सकलादेशस्वरूपसूचनाय यच्छन्इघटितं पूर्वार्द्ध व्याक्रियते-'येन' सकलादेशेन, 'कालायभेदात् ' इति कालादिभिरष्टभिः कृत्वाऽभेदवृत्तेः, इत्यर्थः । 'एकत्र' इति एकस्त्रिन्वस्तुनि घटादौ, 'युगपत् ' समकालम्, 'विरुद्धाः' सहानवस्थाननियमवन्तोऽस्तित्वनास्तित्वादयो धर्माः, 'निहिताः' स्थापिताः, इति तावत्सूत्रार्थः । . एकस्मिन्नेव हि घटादिवस्तुनि कालादिभिरष्टभिः कृत्वाऽभेदवृत्त्या प्रमाणप्रतिपन्ना अनन्ता अपि धर्मा योगपद्येन यदाऽभिधीयन्ते, तदा सकलादेशो भवति ।