________________
नयप्रकाशस्तववृत्तिः .. १७ एवमेते समापि नयाः परस्परनिरपेक्षा अपि श्री जिनशासने समुदिता भवन्ति, इति चतुर्थवृत्तार्थः ॥ ४ ॥ .. .. नन्वते वस्त्वंशग्राहिणो मिन्नाथगोचरा अपि नयाः कथमेकत्र समुदिता भवन्ति ? इति चेत् ;प्रमाणसप्तभङ्गया इति ब्रूमः।
ननु काऽसौ प्रमाणसप्तभङ्गी ? इत्याशंकायामाहयया विधिश्चापि निषेध एक
स्मिन्साध्यतेऽर्थे युगपत्क्रमाच्च । सा सप्तमङ्गी जिनराजशासने ___ जयत्यनेकान्तविचारवर्धिनी ॥ ५॥
व्याख्या-' एकस्मिन् ' वस्तुनि ‘क्रमात् ' परिपाट्या विधिः साध्यते, 'चः' पुनरर्थे 'निषेधः' एकत्रैव कालायभेदेऽपि निरूपकवचनभेदात् विधिसाधनान्तरं निषेधोऽपि साध्यत इत्यर्थः; 'युगपच्च' इति चकारस्य भिन्नक्रमलादेकस्मिमेव वस्तुनि सहैव निरूपणं निपुणवचनरचनया विधिनिषेधौ यया सप्तमङ्गया साध्येते इत्यर्थः ।
ननु यया प्रमाणसप्तभङ्गया क्रमयोगपद्याभ्यां विधिनिषेधौ साध्येते, सा सप्तभङ्गी सोदाहरणा मुव्यक्ता च निरूपणीया इति चेत् ; निरूप्यते___एकत्र जीवादौ वस्तुनि एकैकसत्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादिवाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पालोचनया कृत्वा स्याच्छब्दलाच्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी. इति गीयते । . तद्यथास्यादस्त्येव सर्वम्, इति विधिकल्पनया. प्रथमोभाः ।