SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १६ श्री हेमचन्द्राचार्य ग्रन्थावली. यत्र तु पूर्वः पूर्वो नयः प्रवर्त्तते, तत्र उत्तर उत्तरो नयो न प्रवचैते, पञ्चशत्यादी अष्टशत्यादिवत् । एवं नयार्थे प्रमाणस्यापि सांशवस्तुवेदिनो वृत्तिरविरुद्धा । न तु प्रमाणार्थे नयानां वस्त्वंशमात्रवेदिनाम् इति । कथं पुनर्नय सप्तभङ्गयाः प्रवृत्तिः ? इति चेत्; प्रतिपर्याय वस्तुन्यैकत्राविरोधेन विधेः प्रकल्पनया इति ब्रूमः । तथाहि - संकल्पमात्रग्राहिणो नैगमस्याश्रयणात् विधिक - ल्पना प्रस्थादिसंकल्पमात्रम्, 'मस्यादि स्यादस्ति इति । सङ्ग्रहाश्रयणात्तु प्रतिषेधकल्पना, न प्रस्थादिसंकल्पमात्रम् ; प्रस्थादिसन्मात्रस्य तथाप्रतीतेः असतः प्रतीतिविरोधात् इति । " व्यवहाराश्रयणाद्वा द्रव्यस्य पर्यायस्य वा प्रस्थादिमतीतिः, तद्विपरीतस्यासतो वा प्रत्येतुमशक्तेः । ऋजुसूत्रस्याश्रयणाद्वा पर्यायमात्रस्य प्रस्थादिखेन प्रतीतिः, अन्यथा प्रतीत्यनुत्पत्तेः । शब्दाश्रयणाद्वा कालादिभिन्नस्यार्थस्य प्रस्थादित्वम्, अन्यथाऽतिप्रसङ्गात् । 'समभिरूढाश्रयणाद्वा पर्यायभेदेन भिन्नस्यार्थस्य प्रस्थादित्वम्, अन्यथाऽतिप्रसङ्गात् । 'एवम्भूताश्रयणाद्वा प्रस्थादिक्रियापरिणतस्यैवार्थस्य प्रस्थादित्वम्, नान्यस्य, अतिप्रसङ्गात्; इति । , तथा 'स्यादुभयं क्रमार्पितोभयन्याश्रयणात् ' स्यादवक्तव्यम् ' सहार्पितोभयनयाश्रयणात् एवमवक्तव्योत्तराः शेपात्रयो भङ्गा यथायोगमुदाहार्याः । इयं हि वस्त्वंशमात्रग्राहित्वेन विकला देशरूपा नयखतभङ्गी इति ।
SR No.022483
Book TitleNayprakash Stav Vrutti
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy