________________
नयप्रकाशस्तवत्तिः
४१ विनाभावो दर्शितः, स च कथं भवति ? इत्याहविशेषसामान्यमयाः पदार्था ।
भवन्ति सर्वेऽप्यविशेषमेव । अर्थान्तरत्वं वनवस्थितेस्तयो.
र्न स्यात्कदाचिज्जिनराजशासने॥ ६ ॥ 'विशेषसामान्यमयाः । इति-विशेषा विष्वगभाववन्तः, सामान्या विष्वगभाववन्तश्च भवन्ति, इति । एतावता प्रतिपदार्थ सामान्यविशेषयोरविष्वगभावेनाव्यभिचारिसम्बन्धरूपाविनाभावात्सामानाधिकरण्यमुक्तम् यत्र हि सामान्यम्, तत्रावश्यं विशेषस्य सत्त्वात् । यत्र च विशेषः, तत्राप्यवश्यं सामान्यस्य विद्यमानत्वात् । सामान्य विशेषयांश्च पदार्थस्वरूपत्वेन पदार्थानां तन्मयत्वं नाम ताभ्यामेकीभावापनत्वं चोक्ता, इति; तथाहि-सामान्यं तावत्समानपरिणामनिबन्धनम् । तथैवान्वर्थयोगातू सजातीयेभ्यः पदार्थभ्य एवास्थ समानारिणामनिबन्धनत्वात् , नतु विजातीयेभ्यः । तेन विजातीयार्थासनानपरिगामनिवन्धन विशेषः । तथाविधारिगामनिवन्धनत्वं च तत्स्वरूपवत एफस्यैव घटादेरर्थस्य, इति; तत्स्वरूपवत्त्वाभावे च वाध्ययस्येव घटादे. रसत्त्वप्रसङ्गात् । इत्यादि साधकबाधकं पूर्वोक्तोव, इति ॥
अविशेषमेव ' इति पदं तु 'द्रव्यगुगकर्मस्वेव सामान्यम् , विशेषस्तु नित्यद्रव्येष्वा' इति परपरिकलितविशेषनिरासकत्वेन सार्थकम्, इति । ननु सामान्यविशेषयो. पदार्थाविष्वगभावे कथमर्थान्तरत्वं स्यात् ? इति चेत् न, कयमपि इत्येतदर्शयाते'अर्थान्तरत्वम्' इति सामान्यस्य विशेषस्य वा पदार्थाद्भिन्नत्वेऽ