________________
नयमकाशस्तववृत्तिः सप्तापि ते श्रीजिनशासनेऽस्मि
न्नेकीभवन्ति स्म जिनेन्द्रवाचा ॥ ४॥ व्याख्या-मिथो विरुद्धाः 'सप्तापि' ' नयाः' 'श्रीजिनेन्द्रवाचा' तीर्थकरोपदेशेन इत्यर्थः, 'एकीभवन्ति स्म,' इति सङ्गता बभूवुः ; यथा-सर्वे पुत्रा मिथो विवादपराः स्वपितुः पुरः समायातास्तदुपदेशेनैकीभवन्ति, तथा तेऽपि । मिथो विरुद्धप्ररूपकलेन विवादपरा अनन्यगत्या भगवच्छासनाश्रयणाद्भगवत्पुरः समायाताः सन्तो भगवदुपदेशेन एकीभवन्ति स्म, " एगेगो मिच्छावाई सव्वे सम्मत्तवाइणो" इति वचनात् , समुदिता भवन्ति, इत्यर्थः।
मिथो विरुद्धास्ते के नयाः ? इति, अतो यच्छब्दानुविद्धं व्याख्यानं पूर्वार्द्धनाह-'क्रमात् ' इति । नैगम-सङ्ग्रह-व्यवहारऋजसूत्र-शब्द-समभिरूढ-एवम्भूताश्च, इति क्रमेण समुदितत्वाभावेन ये सप्तापि नयाः परैबौद्धादिभिहीताः परस्परं' मिथो 'विवदन्ते ' विवादवन्तो भवन्ति । एवकारस्तु कदाचिदपि विवादापरिसमाप्तिसूचकः । ततोऽयं भावार्थ:-ये नया बौद्धादिभिः पृथग्भावनाश्रिताः सन्तो मिथ्यात्वप्ररूपकाः, त एव नयाः श्रीजिनशासने समुदितत्वेनाश्रिताः सन्तः सम्यक्त्वप्ररूपका भवन्ति, इति तावत्सूत्रार्थः ।
ननु अयं सकलोऽपि विचारो नयानां लक्षणोदाहरणादिनिरूपणेनैव विदुषां चेतश्चमत्कारं करोति, तेनैतनिरूपणीयम् ? . इति चेत् ; निरूप्यते-तत्र अनिराकृतप्रतिपक्षो वस्त्वंशग्राही ज्ञातुरभिप्रायो नयः, निराकृतपतिपक्षस्तु नयाभासः, इत्यनयोः सामान्यलक्षणम् ।