________________
श्रीहेमचन्द्राचार्यग्रन्थावली. न चात्र विरोधबाधा, भिन्ननिमित्तत्वात् ; तथाहि-अभिलाप्यधर्मकलापापेक्षया तदभिलाप्यम्, अनमिलाप्यधर्मकलापनिमितत्वापेक्षया चानभिलाप्यम्, इति । धर्मधर्मिणोश्च कथश्चिद्भेदः, इति प्रतिपादितम् , ततश्च तद्यत एवाभिलाप्यम् , अत एवानभिलाप्यम् अभिलाप्यधर्मकलापनिमित्तापेक्षयैवाऽभिल,प्यत्वात्, अभिलाप्यधर्माणां चानभिलाप्यधर्माणां चानभिलाप्यधर्माविनाभूतत्वात् । यत एव चानभिलाप्यम् , अत एव चाभिलाप्यम्, अनभिलाप्यधर्माणां चाभिलाप्यधर्माविनाभूतत्वात्, इति ।
नन्वेतद्यदि तदभिलाप्यानभिलाप्यधर्मकम् ' एवं तद्यभिलाप्यानां शब्देनाभिधीयमानत्वात्किमित्यकृतसङ्केतस्य पुरोऽवस्थितेऽपि वाच्ये शब्दान्न संपत्ययश्वृत्ती भवतः इति ।
अत्रोच्यते-तद्ज्ञानावरणकर्मक्षयोपशमाभावात् , तस्य च सङ्केताभिव्यङ्गन्यत्वात् । तथाहि-ज्ञस्वभावस्यात्मनो मिथ्यात्वादिजनितज्ञानावरगादिकर्ममलपटलाच्छादितस्वरूपस्य सङ्केततपश्चरणदानप्रतिपक्षभावनादिभिस्तदावरणकर्मक्षयोपशमक्षयावेवापयेते, ततो विवक्षितार्थाकारं संवेदनं प्रवर्तते; इति । अन्यथा तत्मवृत्त्यभावात् , तत्मथमतयैव सर्वत्रादृष्टसङ्केतानामर्भकाणां सङ्केतस्य कर्तुमशक्यत्वात् ; तथाहि-न शब्दादप्यसङ्केतितात्तदर्थे प्रतिपत्तियुज्यते, तत्सङ्केतकरणे च तत्राप्ययमेव वृत्तान्तः, इत्यनवस्थाप्रसङ्गः । क्वचिदवस्थाने चास्मन्मतानुवाद एव, इत्यलं विस्तरेण । . यदप्युक्तम्-" विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः" इति, एतदपि सूक्ष्मेक्षिकया मुक्तिमार्गमनालोच्यैवोक्तम्, इतिउक्तवत्सत्त्वानित्यत्वादीनां विरोधिवासिद्धेः; अन्यथा वस्त्वभावप्रसङ्गः ।