________________
२ श्रीहेमचन्द्राचार्यग्रन्थावली. दादेविशेषो दर्शितो भवतीति । किविशिष्टाय जिनशासनाय ? 'सत्सप्तभङ्गीनयवासनाय' । सप्तभङ्गया नयानां च वासनाभावना यत्र, स तथा, तस्मै ।
ननु नयसप्तभङ्गयाः परस्परनिरपेक्षनयानां च वासना काणादादिशासनेऽप्यस्त्येव, इत्याह-'सत्' इति । सत्पदं सप्तभङ्गीनयपदयोर्विशेषणम् । तथा च सती-प्रधाना सप्तभङ्गी ससप्तभङ्गी-प्रमाणसप्तभङ्गी, इत्यर्थः । प्रधानत्वं चास्याः सकलादेशरूपत्वात् । सन्तः-समुदितत्वेन यावद्वस्वंशग्राहित्वात् 'प्रधाना-नयाः सन्नयाः। तथा च-सत्सप्तभङ्ग याः सनयानां च वासना जिनशासनमन्तरेण न कचिदप्यस्ति, इति तात्पर्यम् । - ननु तच्छब्दस्य यच्छब्दसापक्षवेन किं तजिनशासनम् ? इत्याह-'आसाद्य' इति । यदीयदेशम्-अंशमासाद्य-माप्य अक्षपादादिकदर्शनानि माद्यन्ति-मदवन्ति भवन्ति । कोऽर्थः १ अक्षपादादिदर्शनानि हि समुदितसप्तनयात्मकश्रीजिनशासनादेवकैकं मिथों निरपेक्षनैगमादिनयमाश्रित्य बहिभूतान्यपि माद्यन्ति, इत्यर्थः । यथा चैतेषां मिथो निरपेक्षकैकनैगमादिनयाश्रयणं तथाऽग्रे वक्ष्यामः।
ननु श्रोतुरभिधेयप्रयोजनज्ञानपूर्विकैव प्रवृत्तिर्भवाते; अत्र चाभिधेयप्रयोजनमोरनुक्तत्वात्कथं प्रवृत्तिः ? इति चेत; न,अत्र 'सत्सप्तभङ्गीनयवासनाय' इति पदेनाभिधेयप्रयोजनयोरक्तत्वात् । सप्तभङ्गी नया एवात्राभिधेयम् । तद्वासना चात्र साक्षात्प्रयोजनम् , परम्परया चात्रानुक्तोऽपि मोक्ष एव, इति प्रथमवृत्तार्थः ॥१॥ __ अथ सप्तभङ्गीनयनिरूपणं वाक्यप्रसिद्धया भवति, तद्वा.