Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 47
________________ ४६ श्रीहेमचन्द्रर्चायग्रन्थावली. किं भवति ? इत्याह ' नाशादि' इति चेत्, यद्येतेषामुत्पत्तिस्थितिनाशानां मध्यान्नाशदिकमेकतर न मन्यते-नाङ्गीक्रियते । केषाश्चित् गगनाद्यर्थानां नाशो नाङ्गीक्रियते, आदिशब्दादेवोत्पत्तिनाङ्गीक्रियते, उत क्षणिकवादाश्रयणेन तेषामेव स्थिति - श्रीक्रियते, तदा तर्हि अर्थो-घटादिः 'खकुसुमम्' इव गगनकुसुममिव असन् भवेत् । अयं भावार्थः-उत्पत्तिनाशस्थितिमत्त्वं तावत्सत्त्वम्, नाशाधनङ्गीकारे चार्थस्यैतल्लक्षणलक्षितसत्त्वाभावादसत्त्वमेव स्यात् ,खकुसुमदृष्टान्तेऽपि तथाखाभावात्सत्त्वाभावः। ननु खकुसुमे त्वतेषां त्रयाणामप्यभावोऽस्ति, प्रकृते च एकतराधनङ्गीकारे कथं खकुसुमसाम्यम् ? इति चेत्, सत्यम्, नाशाधेकतरानङ्गीकारे ह्यपरयोर्द्वयोरप्यनङ्गीकार एव; तथाहिनाशाभावाद् घटस्योत्पत्तिर्नास्ति पूर्वा कारपरित्यागेनैवोत्तराकारोत्पादात् । परित्यागस्तु नाश एव, इति तयोः साहचर्यम् । ____ अथ यस्योत्पत्ति स्ति, तस्य स्थितिरपि नास्ति, स्वाकारेणोत्पन्नस्यैव द्रव्यत्या स्थितत्वात्; अन्यथाऽनुत्पन्नत्वेन पर्यायाभावाव्यखाभावमसत्त्याऽसत्त्वमेव स्यात् । नहि जगति पर्यायद्रव्यातिरिक्तकिञ्चिदस्ति, इति । तथाचैकतरायभावे त्रयाणामप्यभावादर्थस्य खकुसुमसाम्यं स्यात्, असत्त्वाविशेषात, तस्माद त्पत्तिस्थितिविनाशवदेव वस्त्वङ्गीकर्तव्यम्, इत्यष्टमवृत्तार्थः॥८॥ अथोपसंहरन्नाहजयत्यसौ श्रीजिनशासनस्ततः स्थाद्वादतात्पर्यनिवन्धबन्धुरः। .. नयप्रकाशाष्टकनामधारक: स्वार्थ कृतः पण्डितपद्मसागरैः ।।।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50