Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
नयप्रकाशस्तववृत्तिः
४५
रविरहान्नाशवत्त्वम्, तथाऽनुवृत्ताकार निबन्धनरूपद्रव्य तयाऽनुवर्तनात्स्थितिमत्त्वम् । एवमात्मनोऽपि तद्भवापेक्षया देवत्वेनासतस्तत्ररूपात्मलाभादुत्पत्तिमत्त्वम् तथा देवत्वेन सतस्तच्च्युतिरूपसत्ताविरहान्नाशवत्त्वम्, द्रव्यतयाऽनुवर्तनात्स्थितिमत्त्वम् । एवं सकलार्थानामप्येतत्रयात्मकत्वमेव ।
"
ननुत्पादादयः परस्परं भिद्यन्ते न वा ? यदि भिद्यन्ते, तदा कथमेकं वस्तु त्र्यात्मकम् ? न भिद्यन्ते चेत् ? तथापि कथमेकत्र्यात्मकम् ? इति चेत् न, लक्षणत्वेन तेषां कथञ्चिद्भेदाभ्युपगमात्; तथा च प्रयोगः-उत्पत्तिविनाशधौव्याणि कथञ्चिद्भिन्नानि, भिन्नलक्षणत्वात्, रूपवत् । अनिनानि च परस्परं कदाचिदपि अनपेक्षत्वाभावात् तथाहि उत्पत्तिः केवला नाहित, स्थितिविगमरहितत्वात्, कूर्मरोमवत् तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिशून्यत्वात् तद्वत् एवं स्थितिः केवला नास्ति, विनाशोत्पत्तिशुन्यत्वात् तद्वदेव । एवमुत्पत्तिः स्थितिविनाशावपेक्षते, विनाशस्तु स्थित्युत्पादावपेक्षते, कोऽर्थः ? यस्यार्थस्योत्पतिस्तस्यैवार्थस्य स्थितिः यस्य स्थिति - स्तस्यैवोत्पत्तिः यथा घटस्य स्वाकारादिनोत्पत्तिः, तस्यैव च घटस्य द्रव्यतया स्थितिरपि तथा द्रव्यतया स्थितस्य घटस्य स्वाकारेणोत्पत्तिः, यस्यैवार्थस्य विनाशः, तस्यैव स्थितिः, यस्यैवार्थस्य स्थितिः तस्यैव विनाशः, यथा - घटस्यैव मृत्पिण्डावस्था - विनाशात्स्वावस्थोत्पत्तिः, द्रव्यतयाऽवस्थितस्यैव तस्य तदाकारविरहान्नाशः, एवमुत्पादव्ययधौ व्याणां परस्परसापेक्षत्वेनाभेदोऽपि सिद्धः । तेनोत्पत्तिस्थितिविनाशाः कथञ्चिद्भिन्नाः । इति सिद्धमेकं वस्तु त्र्यात्मकम्, इति ।
,
नन्वेतेषां त्रयाणां मध्ये क्वचिद्यद्येकतरं नाङ्गीक्रियते, तदा

Page Navigation
1 ... 44 45 46 47 48 49 50