Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 43
________________ श्रीहेमचन्द्राचार्यग्रन्थावली. ङ्गीक्रियमाणेऽनवस्था स्यात् । तथाहि यथा-द्रव्यगुणकर्मसु सामान्यं सत्, 'सत्' इत्यादिव्यवहारजनकम् ; तथा सामान्येऽपि सत्पदार्थत्वाविशेषात् तद्वयवहारजनकं सामान्य.न्तरं वाच्यम्, तत्रापि सामान्यान्तरम् , इत्यनवस्था । अथ तत्सामान्यस्य सद्यवहारः स्वरूपादेव भवति, तर्हि प्रकृतेऽपि तत्स्वरूपमेव तद्वयवहारजनकमस्तु, कि मिति ततो भिन्न सामान्यरूपार्थाङ्गीकारेण ? इति । एवं विशेषेऽप्यनवस्था; तथाहि-यथा विशेषः स्वाश्रयच्यावृत्तिजनकः, तथा विशेषेऽपि व्यावृत्तत्वाविशेषेण व्यावृत्तिजनकं विशेपान्तरं वाच्यम्, तत्रापि विशेषान्तरम्, इत्यनवस्था । ___ अनया गत्याऽनवस्थितेर्जायमानत्वेन तयोः सामान्यविशेपयोरर्थान्तरत्वं स्वाश्रयार्थभिन्नत्वं न स्यात्-न भवेत् । क्य ? जिनराजशासने-जिनेन्द्रशासन एव हि एवंविधविचारस्य विधमानत्वात् । 'कदाचित् ' इति पदं तु कथञ्चित्तयोरर्थान्तरत्वसूचकत्वे सार्थकम् । ___ ननु यदि घटाद्यर्थेभ्यः सामान्यविशेषौ न भिन्नौ स्तः,तर्हि पदार्थानामनुत्तिव्यावृत्ती कथं स्याताम् ? इति चेत् ; उच्यते-- स्वत एव तेषामनुवृत्तिव्यावृत्ती भवतः ; तथाहि-घट एव तावत्पृथुबुध्नोदराद्याकारवत्त्वेन प्रतीतिविषयीभवन्सन्नन्यानपि तदाकृतिभृतः पदार्थान् घटस्वरूपतया घटशब्दवाच्यतया च प्रत्याययन्सामान्याख्यां लभते । स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन्विशेषव्यपदेशमश्नुते; इति घटस्थेवापरार्थानां स्वत एवानुवृत्तिव्यावृत्ती भवतः इति षष्ठवृत्ताः ॥६॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50