Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
४० श्रीहेमचन्द्राचार्यग्रन्थावली. वति, तत्रैव मध्याह्ने दिनकरप्रतप्ते उष्णः, इति न विरोधः । न चैककालैकद्रव्याभावतः' विरोधः, यतः-एकस्मिन्नेव काले एकस्मिन्नेव द्रव्ये तयोर्भाव एव; तथाहि-धूपकडुत्थकस्थालकेऽग्निसम्बन्धे उष्णस्पर्शो भवति, तस्यैव तु गण्डके शीतः; इति न च विरोधः । ' एककालैकद्रव्यैकप्रदेशासम्भवलक्षणविरोधः'त्विष्ट एव,एकप्रदेशस्यापरप्रदेशाभावेनावयवावयविभेदानुपपत्तेः, भिन्नधर्मत्वात् , भिन्नधर्मयोश्चैकत्वं विरुद्धमेव, अन्यथा, तद्भेदाभावप्रसङ्गात् ।
न चैवं सदसन्नित्यानित्यादिभेदानां भिन्नधर्मत्वम् , एकत्रैव भावात् ; भावस्य च सतस्तत्स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते, परद्रव्यक्षेत्रकालभावरूपेण चासत् , इत्यादिना प्रतिपादितत्वात् । ततश्च नासम्भावना विर धेन नियमभाविनामपि विरोधकल्पना न्याय्या, अतिप्रसङ्गात् । नहि श्रावणत्वं विरुद्धमपि घटादिसत्त्वेन, न पुनरसत्तयाऽपि विरुध्यते, तथोपलम्भाभावात् । अभिन्ननिमित्तत्वेनापि विरोधः सिद्ध एव । नहि यदेव शीतस्पर्शस्य निमित्तं तदेवोष्णस्य, भेदाभावेन तत्सङ्करोपलब्धिप्रसङ्गात् । न च सदसदादिधर्माणामभिन्ननिमित्तम्, निमित्तभेदाभ्युपगमात्, न चैकस्मिन्निमित्तभेदोन युक्तः, एकान्तेन एकत्वासिद्धः, धर्मधर्मिरूपत्वात् , धर्मधर्मिणोश्च भेदाभेदस्य प्रतिपादितत्वात् । इत्यलं विस्तरेण । इति सिद्धमेकत्रैव बस्तुनि कालाद्यभेदेन सत्त्वासत्त्वनित्यानित्यत्वेत्यादिधर्मवन्दम् , इति; अनया गत्या चास्याः सप्तभङ्गायाः स्याद्वादविचारचतुरत्वेन अनेकान्तविचारवर्द्धिनी इति विशेषणपदमपि सार्थक बभूव । इति पूर्णः पञ्चमवृत्तार्थः ॥
नन्वत्र सप्तभङ्गयां सत्त्वासत्त्वयोरिव विशेषसामान्ययोर

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50