Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
नयप्रकाशस्तवत्तिः
३९
किञ्च-विरोधिधर्माध्यासितस्वरूपाभाव एव वस्न एकान्तवादिन एव मुक्त्यभावप्रसङ्गः ; तथाहि-यदि तदात्माऽङ्गनामणिकनकधनधान्यादिकमेकान्तेनैवानात्मकादिधर्मयुक्तं भावनालम्बनमिष्यते, हन्त ! तर्हि सर्वथाऽनात्मकत्वाद्भावकभाव्याभावाचत्परिज्ञानोचरकालभाविभावनाभावतः कुतः कस्य वा मोहादिपहाणम् , इति कथ्यतामिदम् । । नन्वेतद्विरुद्धधर्माध्यासितस्वरूपत्वे सति वस्तुन एवाभावानिवन्धनव्यवहाराभावः; नहि शीतोष्णस्पर्शवदेकमस्ति, तयोर्विरोधात् , इति चेत् ? अत्रोच्यते-अथ कोऽयं विरोधः ? अन्यतराभावेऽन्यतराभावः, इति चेत् ? अस्त्वेतत्, किन्तु-शीतोष्णस्पर्शयोर्यो विरोधः, स किं स्वरूपसद्भावकृत एव ? उतैककालेऽसंभवेन ? आहोश्विदेकद्रव्यायोगेन ? किमेककालैकद्रव्याभावतः ? उतैककालै कद्रव्यैकप्रदेशासम्भवेन ? आहोश्विक्षभिन्नत्वनिमित्रत्वेन ? इति । - किश्चातः ? - न तावत् स्वरूपसद्भावकृतः एव शीतोष्णएशयोर्विरोधः, नहि शीतस्पर्शोऽनपेक्षितान्यनिमित्तः स्वात्मसद्भाव एवोष्णस्पशेन सह विरुध्यते, उष्णस्पर्शो वेतरेण; अन्यथा, त्रैलोक्येऽपि शीतोष्णस्पर्शाभावः स्यात् , एकस्य वा कस्यचिदवस्थानादन्यतरस्य; न चानयो गति कदाचिदप्यसत्ता, सदैव वडवानलतुहिनसद्भावात् । न 'चैककालासम्भवेन' शीतोष्णस्पर्शयोर्विरोधः; यतः-एकस्मिन्नपि काले तयोः सद्भाव उपलभ्यत एव, यथाशीता आपः पर्वते, तत्रैवोष्णोऽनिरपि, इति । न चैकद्रव्यायोगेन' यतः-एकेनापि द्रव्येण तयोर्योगो भवत्येव, तथा च शीतकाले रात्रौ निरावरणे देशे पर्युषिते लोहभाजने शीतस्पर्टी भ.

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50