Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
नयप्रकाशस्तववृत्तिः
३७
नन्वेतत्समानपरिणामस्यापि रिणामवत्तद्भावानुपपत्तिः, इति ।
एतदप्ययुक्तम्, सत्यप्यन्यत्वे समानासमान परिणामयोर्भिनस्वभावत्वात् तथाहि - समानधिषणाध्वनिनिबन्धन स्वभावः समानपरिणामः, तथा विशिष्टबुद्धयभिधानजननस्वभावस्त्वितरः, इति ।
प्रतिविशेषमन्यत्वादसमानप
यथोक्तसंवेदनासंवेद्याभिधेयाभिधाना एव विषादयः, इति प्रतीतमेतत्; अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि द्वयमप्युभयरूपम्, तथाहि - विषार्थी विष एवं प्रवर्त्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविना भूतत्वात् न तु मोदके, तत्समानपरिणामाविनाभावाभावात्तद्विशेषपरिणामस्य, इति । अतः प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदना, इति । एतेन " विषे भक्षितेऽपि मोदको भक्षितः स्यात् " इत्याद्यपि प्रतिक्षिप्तमवमन्तव्यम्, तुल्ययोगक्षेमत्वात् इति ॥
यच्च परेणाप्युक्तम् - "सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः” इत्यादि तदपि न विदुषां मनोरञ्जकमित्यपकर्णयितव्यम्, वस्तुतः प्रदत्तोत्तरत्वात् इत्यलं विस्तरेण ।
यच्चोक्तम् - " एवमभिलाप्यानभिलाप्यम् " इत्यादि तदप्ययुक्तम्, अन्यथा व्यवहारोच्छेदप्रसङ्गात्, तथाहि - यद्येकान्तेनैवानभिलाप्यमभ्युपगम्यते, कथं तर्हि शब्दविशेषादर्थप्रतीत्यादिः ? दृश्यते च ' अनलाद्यानय' इत्याद्युक्ते विनीतानां धूमध्व'जादौ प्रवृत्तिः । एवमेकान्ताभिलाप्यत्वम्, अनलाचलादिशब्दोच्चारेण वदनदाहपूरणादिप्रसङ्गान्नाङ्गीकर्त्तव्यम् । न चैत्रंवादिनः क्वचिदप्युपलभ्यन्ते इत्यतो नेह यत्नः इति । तस्माद्वयवहारान्यथाऽनुपपत्तेरभिलाप्यानभिलाप्यम्, इति स्थितम् ;

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50