Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
नयनकाशस्तवत्तिः तथैकान्तानिवृत्तौ [सत्यां] तद्विलक्षणबुद्धयभाव एव, इति न स्यात्कपालबुद्धिः, विशेषाभावात्, तस्यापच्युतानुस्पअस्थिरैकस्वभावखात्, इति । एतेन स्यादारेका-" नहि कूटस्थनित्यतया" इत्यादि यदाशङ्कयोक्तम्-" पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः" इत्यादि' तदपि प्रतिक्षिप्तमेवावगन्तव्यम् , कथञ्चिद्वयतिरेकसिद्धेः, इति ॥ तथा चोक्तम्
द्रव्यपर्याययोः सिद्धो भेदाभेदः-प्रमाणतः। संवेदनं यतः सर्वमन्वयव्यतिरेकवत् ॥१॥ ....
यचोक्तम्-"एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम्" इत्यादि, तदप्ययुक्तम्-सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात् ; तथाहि-'घटो घटः' इति सामान्याकारा बुद्धिरुत्पद्यते, मार्तिकः, ताम्रः, राजतः, इति विशेषाकारा च पटादिवा न भवति, इति । .. .
न चार्थसद्भावोऽर्थसद्भावादेव निश्चीयते, सर्वसत्वानां सर्वज्ञत्वप्रसङ्गात् , सर्वार्थानामेव सद्भावस्याविशेषात् । . .
किं तर्हि ? ... अर्थविज्ञानसद्भावानिश्चयः । ज्ञानं च सामान्यविशेषाकारमेवोपजायते, इति । अतोऽनुभवसिद्धत्वात् सामान्यविशे. षरूपं वस्तु, इति ॥ . ..न चायमनुभवो भ्रान्त इति युज्यते, घटादिसनिधावविकलतदन्यकारणानां सर्वेषामेवाविशेषेणोपजायमानत्वात् , इति । सिद्धं सर्व वस्तु सामान्यविशेषात्मकम् इति । ..
यच्चोक्तम्-" एक सामान्यमनेके विशेषाः" इत्यादि । तदप्ययुक्तमः अनभ्युपगमातू । नहि यथोक्तस्वभावं सामान्यम

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50