Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 31
________________ श्रीहेमचन्द्राचार्यग्रन्थावली. याश्रितत्वाच्च कथघिद्भेदः" इत्यादिना प्रत्युक्तम् , प्रका. रान्तरेण भेदाभेदासिद्धे। यदप्युक्तम्-" संविनिष्ठाश्च विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात् ," इत्यादि । एतदपि “ अनुवृत्तव्यात्तस्वभावं वस्त्वध्यक्षतोऽवसीयते" इत्यादिना परिहृतम् , उभयरूपस्य संवेदनस्यावा. धितत्वात् । यच्चोक्तम्-" न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुत्पद्यते," इत्यादि । एतदप्यनवकाशम् , वस्तुस्थित्योभयरूपस्योपलम्भस्य साधितत्वात् । " न च तत्कायकरणे प्रवर्तमान केनचिदाकारेण करोति, केनचिन करोति, एकस्य करणाकरणविरोधात्," इत्यायप्यसारम् , विरोधासिद्धः, तथाहि-पर्यायात्मना करोति, द्रव्यात्मना न करोति, इति; कुत एकस्य करणाकरणविरोधः ? इति । अथवा स्वकार्यकर्टलेन करोति, कार्यान्तराकर्तृखेन न करोति, अतः केनचिदाकारेण करोति, केनचिन करोति, कोऽत्र विरोधः ? इति । तस्माद्व्यवस्थितमेतत् ‘सदसद्रूपं वस्तु' इति । . एतेन "नित्यानित्यमपि प्रत्युक्तमवगन्तव्यम्" इत्यादि यदुक्तम् , तदप्यनुपपन्नम् , प्रमाणतस्तदवगमात् ; तथाहि-नित्यानित्यमेव तदवगम्यते, अन्यथा तदवगमाभावप्रसङ्गात् ; तथाहि-यदि तदप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते, एवं तर्हि तद्विज्ञानजननस्वभावं वा स्यात् ? अनननस्वभावं वा ? ययायपक्षः, एवं सति सर्वत्र सर्वदा सर्वेषां तद्वि

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50