Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 29
________________ श्रीहेमचन्द्राचार्यगन्थावली. क्तत्वादितरासत्त्वस्य; यथा वा रक्तत्वादिनाऽसत्, तथा श्यामत्वेनापि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । ततश्च तदितररूपापत्त्यादिनाऽवस्तुत्वमसङ्गः, इत्यलं स्वदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेन इति । ततश्चैवं न सर्वथा सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, न चासत्त्वं सत्त्वपरिहारेण । , न चानयोरविशेष एव, भिन्ननिमित्तत्वात्। तथाहि-स्वद्रव्यादिरूपेण सत्, परद्रव्यादिरूपेण चासत्, इत्युक्तम्। ततश्चैवं सदसदूपं वस्त्वङ्गीकर्त्तव्यमेव । यदप्युक्तम्-" सदसटूपं वस्त्वभ्युपगच्छता सत्त्वमसत्वं च वस्तुधर्मतयाऽभ्युपगतं भवति," एतदिष्यत एव । . . यत्पुनरिदमुक्तम्-" ततश्चात्रापि वक्तव्यम्-धर्मधर्मिणोः किं तावद्भेदः ? " इत्यादि, अत्रापि सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषोऽनभ्युपगमतिरस्कृतत्वादेव न नः क्षतिमावहति । भेदाभेदपक्षस्त्वभ्युपगम्यत एव । नन्वत्रापि " येन प्रकारेण भेदः, तेन भेद एव ?" इत्यादिदूषणमुक्तम्, इति चेत् न, अधिकृतविकल्पस्यार्थापरिज्ञानात, अन्योऽन्यव्याप्तिभावेन भेदाभेदपक्षस्य जात्यन्तरात्मकत्वात्केवलभेदानुपपत्तेः । नान्योऽन्यानुविद्धौ इति जैनमतम्, अभेदाननुविद्धस्य केवलभेदस्यासिद्धेः,भेदाननुविद्धस्य चाभेदस्यासि द्धेः; अतो येनाकारेण भेदस्तेन भेद एव, इत्यर्थशून्यमेव । ___अथ 'धर्मर्मिणोर्भेदाभेदः' इति कोऽर्थः ? कथञ्चिद्भेदः, कथश्चिदभेदः, इति । तत्र धर्मागां मिथो भेदात्पतिनियतधाश्रितत्वाच कथञ्चिद्भेदः, । तथाहि-न धर्माणां धर्मिणा सर्वथैकले धर्मतयापि भेदो युज्यते, इति प्रतीतमेतत् । तथा धर्माणा

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50