Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 28
________________ नयमकाशस्तवत्तिः . २७ न मृत्पिण्डकपालकालत्वेन; तथा भावतः-श्यामत्वेन, न रक्तत्वादिना, इति । अन्यथेतररूपापत्त्या तत्स्वरूपहानिप्रसङ्गः, इति । अत्र बौद्धः प्राह-नन्वेतत्स्वद्रव्यसत्त्वमेव परद्रव्यासत्त्वम्, एवं स्वक्षेत्रसत्त्वमेव परक्षेत्रासत्त्वम् , एवं स्वकालसत्त्वमेव परकालासत्त्वम्, एवं स्वभावसत्त्वमेव परभावासत्त्वम्, इति। तथा च-घटवस्तुनः पार्थिवद्रव्यसत्त्वमेव अबादिद्रव्यात त्वम्, तथेहक्षेत्रसत्त्वमेव पाटलिपुत्राद्यसत्त्वम्, तथा घटकालसत्त्वमेव मृत्पिण्डकपालकालासत्त्वम्, तथा श्यामत्वसत्त्वमेव रक्तत्वायसत्वम्, इति । एतदप्यसारम्, तस्यैकस्वभावत्वेऽवस्तुत्वमसङ्गात् तथाहियदि पार्थिवद्रव्यसत्त्वमेव, अवादिद्रव्यासत्त्वम्, एवं तर्हि यथा तत्पार्थिवद्रव्यत्वेन सत्, एवमबादिद्रव्यत्वेनापि सदेव स्यात् ; तत्सत्त्वाव्यतिरिक्तवादितरासत्त्वस्य; यथाऽवादि द्रव्यत्वेनासत्, तथा पार्थिवद्रव्यत्वेनापि असदेव स्यात्, तदसत्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । एवं यदि इहक्षेत्रसत्त्वमेव, पाटलिपुत्रायसत्त्वम्, सतश्च तद्यथेह सत्, तथा पाटलिपुत्रकादावपि स्यात्, इह सत्याव्यतिरिक्तत्वात्तत्रासत्त्वस्य; यथा वा पाटलिपुत्रादावसत्, तथेहापि, तदसत्त्वाव्यतिरिक्तत्वादिहसत्त्वस्य । एवं यदि घटकालसत्वमेव, मृत्पिण्डकपालकालासत्त्वम् , ततश्च तद्यथा घटकाले सद्, एवं मृत्पिण्डकपालकालेऽपि स्यात्, तत्सत्वाव्यतिरिक्तत्वात् तदसत्त्वस्य; यथा वा मृत्पिण्डकपालकालेऽसत्, तथा घटकालेऽपि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात् तत्सत्त्वस्य । एवं यदि श्यामत्वसत्वमेव, रक्तत्वाद्यसत्त्वम्, ततश्च तद्यथा श्यामत्वेन सत्, एवं रक्तत्वादिनाऽपि स्यात्, तदसत्त्वाव्यतिरि

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50