Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 27
________________ २६ श्रीहेमचन्द्राचार्यग्रन्थावली. रूपैकवस्तुवादाभिमानः ॥ एवमभिलाप्यमपि विरोधबाधितत्वादेवानुद्घोष्यम् ; तथाहि-अभिलप्यते यत्तदभिलाप्यम्, अनभिलाप्यं चेत्, न तहमिलाप्यम् , इति, एकस्यानेकविरुद्धधर्मानुगमाभावात् । - किंच-विरुद्धधर्माध्यासितस्वरूपत्वात् वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः; तथाहि-रतदात्माङ्गनाभवनमणिकनकधनधान्यादिकम् ,अनात्मकम् अनित्यम्,अशुचि, दुःखम् इति कथञ्चिद्विज्ञाय भावतस्तथैव भावयतः,वस्तुतस्तत्राभिष्वङ्गास्पदाभावाद्, भावनाप्रकविशेषतः वैराग्यमुपजायते; ततो मुक्तिः। यदा तु तदात्माऽङ्गनादिकं सात्मकायपि,तदा यथोक्तभावनाऽभावात्, भावेऽपि मिथ्यात्वरूपत्वात् , वैराग्याभावः, तदभावाच्च मुत्त्यभावः, इति ॥ ___ तदेवमेते मन्दमतयो दुस्तर्कोपहतास्तीर्थ्याः स्वयं नष्टाः परानपि मन्दमतीनाशयन्ति, इति प्रतिविधीयते । तत्र यत्तावदुक्तम्-"कथमेकमेव घटादिरूपं वस्तु सच्चासच्च भवति," तदेतदाबालगोपालाङ्गनादिप्रतीतमनाशङ्कनीयमेव; यतः-तत्स्वद्रव्यक्षेत्रकालभावरूपेण सर्तते, परद्रव्यक्षे कालभावरूपेण चासत् ; ततश्च सच्चासच्च भवति; अन्यथा तदभावप्रसङ्गात् तथाहि-यदि तद्यथा स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्त्तते, तथैव परद्रव्यक्षेत्रकालभावरूपेणापि स्यात् । ततश्च तद् घट वस्त्वेव न स्यात; परद्रव्यक्षेत्रकालभावरूपेणासत्त्वे सति स्वद्रव्यक्षेत्रकालभावरूपेणाप्यसत्त्वात्, खरविषाणादिवत् । इत्येवं तदभावप्रसङ्गात्-सदभावप्रसङ्गात् सदसद्रूपं तदङ्गीकर्तव्यम्, इति । ___ तथा च-द्रव्यतः-पार्थिवत्वेन सत्, नावादित्वेन क्षेत्रतःइहत्यत्वेन, न पाटलिपुत्रकादित्वेन; तथा कालतः-घटकाललेन; .

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50