Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२९
नयप्रकाशस्तववृत्तिः मेवाभ्यन्तरीकृतर्मिस्वरूपत्वाद्धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वाच्च कथञ्चिदभेदः, इति । न चात्यन्तभेदे धर्मधर्मिकल्पना युज्यते, अतिप्रसङ्गात् । ....
ननपेक्षितेयं धर्मधर्मिकल्पना, न तत्त्वतः इति । एतदप्ययः क्तम् , दृष्टविरोधात् । न च दृष्टेऽनुपपनं नाम, अनुत्तव्यात
भावं च, तदेकस्मभाव एवासावनुभवो घटप्रतिच्छायतयोपजायमानः पटादिप्रतिभासव्यवच्छेदेन ख्याप्यते । न पुनरस्य भावतो द्वे रूपे, इति चेत्, नैतद्युक्तम् , विहितोत्तरखात् 'तत्स्वरूपसत्त्वमेव परस्वरूपासत्त्वम्' इति निर्लोठितम् ।।
किञ्च-एकान्तपर्यायनयमतानुसारिपक्षे कल्पनायोगात; तथा हि-कल्पना वस्तुनि समुत्पन्ने वा स्यात् ? अनुत्पन्ने वा ? न तावदनुत्पन्ने, तस्यैवासत्वात् उत्पन्नेऽपि गृहीते वा स्याद् ? अगृहीते वा ? न तावदगृहीते अतिप्रसङ्गात् गृहीतेऽपि च तद्ग्राहकस्य ज्ञानस्याविकल्पकखात्, विकल्पज्ञानस्य चातद्विषयत्वात्, भावकाले च तदसत्त्वात् । तत्रैव कल्पना, इति चेत् न, विकल्पानुपपत्तेः; तथाहि-तत्राप्युत्पन्ने वा स्याद ? अनुत्पन्ने वा ? नानुत्पन्ने असत्त्वात नाप्युत्पन्ने, उत्पत्त्यनन्तरविनाशित्वात् । विकल्पनारूपमेवोत्पयते, इति चेत्, न, तस्य हेत्वयोगात् । हेत्वयोगश्च स्वलक्षणादनुत्पत्तेः। स्वलक्षगानुभवाहितसंस्कारातज्जन्म, इति चेत् न, संस्कारस्यापि स्वलक्षणेतररूपानतिकमात्, इति ।
यच्चोक्तम्-" भेदाभेदमभ्युपगच्छताऽवश्यं चेदमगीकर्तव्यम् ,-इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः, इत्यादि" एतदपि “धर्माणां मिथो भेदात्मतिनियतवन

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50