Book Title: Nayprakash Stav Vrutti Author(s): Virchand Prabhudas Pandit Publisher: Hemchandracharya Sabha View full book textPage 4
________________ ‘नयप्रकाशस्तववृत्तिः क्यं च त्रिघा, तत्रापि दुर्नयवाक्यं हेयं, नयवाक्यं चोपेक्ष्य, प्रमाणवाक्यं तूपादेयम् , इत्येतद्दर्शयति प्रमाणवाक्यं नयवाक्यगर्भितं निर्दूषणं दुर्नयवाक्यदूरितम् । स्यादेवयुक्तं जिनराजशासने सतां चमत्कारकरं भवेन्न किम् ? ॥२॥ . व्याख्या-'जिनराजशासने ''सतो'-जिनाज्ञावतां 'प्रमाणवाक्यं' 'कि' 'चमत्कारकर''न', 'भवेत् ' ? अपि तु भवत्येव, इत्यर्थः । ननु कीदृशं प्रमाणवाक्यं भवति ? इति जिज्ञासायामाह-'स्यादेवयुक्तं'। स्यादित्यव्ययपदम् , समयसक्रेतात्कथंचित्ववाचकम् । तेन, भायोऽन्ययोगव्यवच्छेदपरेण एवकारण च युक्तम्-कलितम् । यथा-'स्यादस्त्येव घटः' इति । प्रमाणलं चास्य 'स्यादेव' पदलाग्छितत्वात् । तत्र कथश्चित्मकारेण स्वरूपादिना, न तु पररूपादिना घटेऽस्तिवं स्यात्पदेन प्रतिपायते । एवपदेन चास्तित्वविरुद्धनास्तित्वादीनां व्यवच्छेदः प्रतिपाद्यते । ननु जैनमते विरुद्धधर्माध्यासाङ्गीकारात् कालावच्छेदेन देशावच्छेदेन च यदा यशस्तित्वं प्रतिपाद्यते, तदा तत्र नास्तिखमपि प्रतिपाद्यम्, तत्कथम् ' स्यादस्त्येव घटः' इत्यत्र एवकारेण नास्तित्वव्यवच्छेदः क्रियते ? इति चेत् ; सत्यम् , यद्यप्येकस्मिन्नेव कालेऽप्येकस्मिन्नेव देशेऽस्तित्वं नास्तित्वं च वक्तव्यमेव, तथापि स्वरूपभेदस्तु सर्वथैव तत्र निगद्यः । नहि येनैव स्वरूपेण तत्रास्तिस्वं प्रतिपाद्यते, तेनैव स्वरूपेण नास्तित्वमपि मतिपादयितुं शक्यम् । ...Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 50