Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 13
________________ श्रीहेमचन्द्राचार्यगन्थावली. . अत्र केचिदेवमपि निरूपयन्ति-ऋजुसूत्रः पुनरिदं मन्यते वर्तमानक्षणवत्यैव वस्तुरूपम्, न अतीतमनागतं च; अतीतस्य विनष्टत्वात्, अनागतस्य चानुत्पन्नत्वात्, खरविषाणस्येव अर्थक्रियाकारित्वाभावात् । यदेव अर्थक्रियाकारि, तदेव वस्तु, अत एवास्याभिप्रायेणानुपयोगित्वात् परकीय वस्त्वप्यवस्त्वेव इति । ____यस्तु सर्वद्रव्यं सर्वथा प्रतिक्षिपति अखिलार्थानां प्रतिक्षणं क्षणिकत्वाभिमानात् स तदाभासः प्रतीतिविरुद्धत्वात्, इति । कालकारकलिङ्गसंख्यासाधनोपसर्गभेदाद्भिननर्थ शपति, इति शब्दो नयः, शब्दप्रधानत्वात् । ततोऽपास्तं वैयाकरणानां मतम् । ते हि 'विश्वदृश्वाऽस्य पुत्रो भविता' इत्यत्र कालभेदेऽपि एक पदार्थमादृत्य 'यो विश्वं द्रश्यति सोऽस्य पुत्रो भविता' इत्यत्र भविष्यकालेनातीतकालस्याभेदाभिधानात् , तथाव्यवहारोपलम्भात् । तच्चानुपपन्नम्, कालभेदेऽप्याभेदेऽतिप्रसङ्गात्, भरतेश्वरब्रह्मदत्तयोरप्यतीतानागतार्थगोचरयोरेकार्थतापत्तेः । अथानयोभैंदविषयत्वान्नैकार्थता; विश्वदृश्वा भविता' इत्यत्रानयोरप्यसौ मा. भूत, तत एव न खलु 'विश्वं दृष्ट्वान्-विश्वदृश्वा' इति शब्दस्य योऽर्थोऽतीतकालः, स भविता, इति शब्दस्यानागतकालो युक्तः पुत्रस्य भाविनोऽतीतत्वविरोधात् , अतीतकालस्याप्यनागतत्वाध्यारोपात्, एकार्थत्वे तु न परमार्थतः कालभेदेऽप्यभिन्नार्थव्यवस्था स्यात् । ___तथा करोति क्रियत इति कर्मकारकभेदेऽप्यभिन्नमर्थ पुनः केचिदाद्रियन्ते । य करोति किश्चित्, स एव क्रियते केनचित्, इति प्रतीतेः। तदप्यसाम्प्रतम् । देवदत्तः कटं करोति, इत्यत्रापि कर्तृकर्मणोर्देवदत्तकटयोरभेदप्रसङ्गात् ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50