Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२२
श्रीहेमचन्द्राचार्यग्रन्थावली.. ना सप्तभङ्गी । अविरोधेनाभिधानात् प्रत्यक्षादिविरूद्धविधिप्रतिषेधकल्पनायाः सप्तभङ्गीरूपता प्रत्युक्ता, एकवस्तुनीत्याभधानाच्च अनेकवस्त्वाश्रयकल्पनायाः; इति ।
नन्वियं सप्तभङ्गी क्व भवति ? इत्याह-'जिनराजशासने सा सप्तभङ्गी जयति' इत्युत्तरान्वियः । किं विशिष्टा ? 'अनेकान्तविचारवर्द्धिनी'-स्याद्वादविचारद्धिकारिणी, इत्यर्थः । अनया किल सप्तभङ्गया एकान्तवादनिरासपूर्वमनेका. तवाद एवादाप्ता भवात, एकास्मन्नव वस्तुनि कालाद्यभेदेन सत्त्वासत्त्वाधनेकधर्माणां प्रतिपादनात् । .
नन्वेवं घटादिरूपमेकं वस्तु 'सदसत्' इत्युक्तं भवति, तच्च नैव घटते; तथाहि-सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, असत्त्वमपि सत्त्वपरिहारेण, अन्यथा तयोरविशेषात् । ततश्च तयपि सत्, कथमसत् ? अथासत्, कथं सत् ? इत्येकत्र सदसत्वयोर्विरोधात् । तथा चोक्तम्
यस्मात्सत्त्वमसत्त्वं च विरुद्धं हि मिथो द्वयम् । - वस्त्वेकं सदसदूपं तस्मात्खलु न युज्यते ॥१॥
किंच-सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्वं च वस्तु. धर्मतयाऽभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम्-धर्मधर्मिणोः किं तावद्भेदः ? आहोश्विदभेदः ? आहोश्विद्भेदाभेदः ? इति ।
तत्र यदि तावद्भेदः, ततः सदसत्त्वयोर्भिन्नत्वात् , कथमेकं सदसद्रूपम् ? इति । अथाभेदः, ततः सदसत्त्वयोरेकत्वम्, एकस्माद्धर्मिणो भिन्नत्वात्, तत्स्वरूपवत् । अतोऽपि कथमेकं सदसदूपम् ? इति ।
धर्मिणो वा भेदः, सदसत्त्वयोरभिन्नत्वात् , स्वात्मवत् । इत्थमपि कथमेक मुभयरूपम् ? । अथ भेदाभेदः, अत्रापि येना

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50