Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२१
नयमकाशस्तववृत्तिः विशेषादेशात्, तत्प्रतिपक्षभूतासत्त्वस्याप्यपरस्य संभवात्, अप. रधर्मसप्तकसिद्धेः सप्तभङ्गायन्तरसिद्धतो न कश्चिदुपालम्भः । एतेन द्वितीयतृतीयधर्मयोः क्रमार्पितयोधर्मान्तरत्वमप्रातीतिक व्याख्यातम् ।
कथमेवं प्रथमचतुर्थयोर्द्वितीयचतुर्थयोश्च सहितयोर्धर्मान्तरत्वं स्यात् ? इति चेत्, चतुर्थे अवक्तव्यधर्मे सच्चा तत्त्वयोरपरामर्शत्वात् न खलु सहार्पितयोरवक्तव्यशब्दनाभिधानम् । किं ताह ? क्रमापितयोस्तयोः सवेथा वक्तुमशक्यवक्तव्यवस्य धमान्तरस्य तेन प्रतिपादनमिष्यते न च तेन सहितस्य सत्त्वस्यो. भयस्य वा प्रतीतिः, धर्मान्तरत्वासिद्धिर्वा ।
प्रथमभङ्गे सत्त्वस्य प्रधानभावेन प्रतीतेः, द्वितीये पुनरसस्वस्य, तृतीय क्रमार्पितयोः, चतुर्थे वक्तव्यत्वस्य, पञ्चभे सत्त्व सहितस्य, षष्ठे पुनरसत्त्वोपेतस्य, सप्तमे क्रमवत्तदुभययुक्तस्य सकलजनैः सुप्रतीतखात्, इति ।
ननु च वक्तव्यत्वस्य धर्मान्तरत्वे वस्तुनि वक्तव्यत्वस्याट्रमस्य धर्मान्तरस्य भावात् कथं सप्तविध एव धर्मः सप्तमजीविषयः स्यात् ? ... ___ इत्यप्यपेशलम्, सत्त्वादिभिरभिधीयमानतया वक्तव्यखस्य प्रसिद्धः सामान्येन वक्तव्यत्वस्यापि विशेषेण वक्तव्यतायामव: स्थानात् । भवतु वा,-वक्तव्यत्वात्तयोधर्मयोः प्रसिद्धिः, तथापि आभ्यां विधिप्रतिषेधकल्पनाविषयाभ्यामिव सप्तभङ्गायन्तरस्य प्रवृत्तेनं तद्विषयसप्तविधधर्मनियमविधातः, यतः-तद्विषयः संशयः सप्तधैव न स्यात् । तद्धेतुजिज्ञासा वा, तन्निमित्तः प्रश्नो वा, वस्तुन्येकत्र सप्तविधवाक्यनियमहेतुः।।
इत्युपपन्नेयं प्रश्नवशादेकवस्तुन्यविरोधेन विधिनिषेधकल्प

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50