Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 20
________________ नयप्रकाशस्तववृत्तिः प्रयोजन इति । अयं भावार्थ:- स्यात्पदेन हि स्वरूपेणास्तित्वायोगव्यवच्छेदः क्रियते, एवकारेण च पररूपेण नास्तित्वायोगव्यवच्छेदः क्रियते इति प्रथमो भङ्गः । " ' स्यात् ' कथञ्चित् ' नास्त्येव कुम्भादि: ' स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसच्चानङ्गीकारे प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियतिर्न स्यात् । १९ न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धम्, इति वक्तव्यम् ? कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वात् साधनवत् । न हि क्वचिदनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम्, तस्य साधनत्वाभावप्रसङ्गात्; तस्माद्वस्तुनोऽस्तित्वं नास्तित्वेन विनाभूतम्, नास्तित्वं च तेन, इति विवक्षावशाच्चानयोः प्रधानोपसर्जनभावः । प्रथमभङ्गे हि विधेः प्राधान्येन निरूपणम्, प्रतिषेधस्य गौणत्वेन । द्वितीयभङ्गे तु प्रतिषेधस्य प्राधान्येन निरूपणम्, विधेस्तु गौणत्वेन; इत्यनयोर्विशेषः । एवमुत्तरभङ्गेष्वपि ज्ञेयम्, इति द्वितीयो भङ्गः । तृतीयः स्पष्ट एव द्वाभ्यामस्तित्व नास्तित्वधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यामेकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासम्भवात्, अवक्तव्यं जीवादि वस्तु । तथाहि -सदसत्त्वगुणद्वयं युगपदेकत्र 'सत् ' इत्यनेन वक्तुमशक्यम्, तस्यासत्त्वप्रतिपादनासमर्थत्वात्; तथा असत्' इत्यनेनापि, तस्य सच्चप्रत्यायन सामार्थ्याभावात् न च पुष्पदन्तादिवत् सांकेतिकमेकपदं तद्वक्तुं समर्थम्, तस्यापि क्रमेणार्थद्वयप्रत्यायने सामर्थ्योपपत्तेः । ' एवं सकलवाचकरहितत्वादवक्तव्यं युगपत्सदसत्त्वाभ्यां

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50