Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 19
________________ १८ श्रीहेमचन्द्राचार्यग्रन्थावली. स्यानास्त्येव सर्वम्, इति निषेधकल्पनया द्वितीयः। स्यादस्त्येव, स्यान्नास्त्येव, इति क्रमतो विधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेव, इति युगपद्विधिनिषेधकल्पनया चतुर्थः । स्यादस्त्येव, स्यादवक्तव्यमेव, इति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव, स्यादवक्तव्यमेव, इति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव, स्यान्नास्त्येव, स्यादवक्तव्यमेव, इति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः। तत्र 'स्यात्' कथश्चित्स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण; तथाहिकुम्भो द्रव्यतः पार्थिवत्वादिना स्वरूपेणास्ति, न जलत्यादिरूपेण क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन; कालतः शशिरत्वेन, न वासन्तिकादित्वेन; भावतः श्यामत्वेन, न रक्तत्वादिना; अन्यथा स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्रभङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपातम्, इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत; प्रतिनियतस्वार्थानभिधानात्, तदुक्तम्-'वाक्येऽवधारणं तावदनिष्टार्थनिष्पत्तये कर्तव्यम्' अन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् । तथापि 'अस्त्येव कुम्भः' इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भायस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात्, तत्प्रतिपत्तये ' स्यात्' इति शब्दः प्रयुज्यते, स्यात्-कथञ्चित् स्वद्रव्यादिभिरेवायमस्ति, न परद्रव्यादिभिरपि, इत्यर्थः । यत्रापि चासो न प्रयुज्यते, तत्रापि व्यवच्छेदफलैवकारवद बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्-" सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते " यथैवकारोऽयोगादिव्यवच्छेद

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50