Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
श्रीहेमचन्द्राचार्यग्रन्थावली. प्रधानभावाप्तिाभ्यामाकान्तं व्यवतिष्ठते, न च सर्वथाऽवक्तव्यम्, अवक्तव्यशब्देनाप्यनभिधेयत्वप्रसङ्गात, इति चतुर्थः ।
शेषास्त्रयः सुगमाभिप्रायाः । इयं च सकलादेशापरपर्याया प्रमाणसप्तमी प्रमाणवाक्यनिरूपिता इति ।:
ननु नयवाक्ये प्रमाणवाक्ये च कथं सप्तैव भङ्गाः सम्भवन्ति ? इति चेत्, प्रतिपायप्रश्नानां तावतामेव सम्भवात, प्रश्नवशादेव हि सप्तभङ्गीनियमः।
- सप्तविधप्रश्नोऽपि कुतः ? इति चेतः सप्तविधजिज्ञासासंभवात् । सापि सप्तधा कुतः ? इति चेत्, सप्तधा संशयोत्पत्तेः । सोऽपि सप्तधा कथम् ? इति चेत; तद्विषयवस्तुधर्मस्य सप्तविधत्वात् । तथाहि
सत्त्वं तावद्वस्तुधर्मः, तदनभ्युपगमे वस्तुनो वस्तुत्वायोगात, खरशङ्गवत् । तथा, कथञ्चिदसत्त्वं तद्धगतध]में एव स्वरूपादिभिरिव पररूपादिभिरपि, अस्यासत्त्वानगीकारे प्रतिनियतस्वरूपासंभवात् वस्तुप्रतिनियमविरोधः स्यात् । एतेन क्रमार्पितोभयत्वादीनां वस्तुधर्मत्वं प्रतिपादितं प्रतिपत्तव्यम् । तदभावे क्रमेण सदसत्त्वविकल्पशब्दव्यवहारविरोधात्, सहावक्तव्योपलक्षितोत्तरधर्मीवकल्पत्रय [विकल्प] सत्वव्यवहारस्य चासत्वमसङ्गात् । न चामी व्यवहारा निषिया एव, वस्तुप्रतिपत्तिप्रत्तिप्राप्तिनिश्चयात्, तथाविधरूपादिव्यवहारवत् ।
ननु प्रथमद्वितीयधर्मवत्मथमतृतीयादिधर्माणां क्रमेतरार्पितानां धर्मान्तरत्वसिद्धेन सप्तविधधर्म नियमः सिद्धयेत् । ' ___इत्यप्यसुन्दरम्, क्रमार्पितयोः प्रथमतृतीयधर्मयोईयोधर्मान्तरत्वेनापतीतेः सत्त्वद्वयस्यासम्भवात्, विवक्षितस्वरूपादिना सत्त्वस्यैकत्वात्, तदन्यस्वरूपादिना सत्त्वस्य द्वितीयस्य संभवे

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50