Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
. १३
नयप्रकाशस्तवत्तिः तथा 'पुष्यस्तारक' इत्यत्र लिङ्गभेदेऽपि नक्षत्रार्थमेकमेवाद्रियन्ते पुनः केचित्, तदप्यसङ्गतम् । 'पटः, कुटी' इत्यत्राप्येकत्वानुषङ्गात् । तथा 'आपोऽम्भः' इत्यत्र संख्याभेदेऽप्येकमर्थ जलाख्यं मन्यन्ते केचित् , तदप्ययुक्तम् , 'पटस्ते तव' इत्यत्राप्येकत्वानुषङ्गात् । .
तथा 'एहि, मन्ये रथेन यास्यामि 'न हि यास्यसि' यातस्ते पिता' इति साधनभेदेऽप्यर्थाभेदमाद्रियन्ते पुनः केचित्, तदप्यसङ्गतम् , 'अहं पचामि, स्वं पचसि,' इत्यत्राप्येकार्थत्वप्रसङ्गात् । __ तथा 'संतिष्ठते, प्रतिष्ठते' इत्यत्रोपसर्गभेदेऽप्यर्थाभेदमाद्रियन्ते पुनः केचित्, उपसर्गस्य धात्वर्थमात्रोद्योतकत्वात् ,तदप्यचारु । तिष्ठति, प्रतिष्ठते' इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसङ्गात् । ततः कालादिभेशाद्भिन्न एवार्थः शब्दस्य । तथाहिविभिन्न कालादिशब्दो विभिन्नार्थप्रतिपादकः, विभिन्नकालादिशब्दत्वात्, तथाविधान्यशब्दवत् ।
ननु एवं लोकव्यवहारविरोधः स्यात्, इति चेत् विरुध्यताम् । तत्त्वं तु मीमांसते, नहि भेषजमातुरेच्छानुवृत्ति । ....' ___नानार्थान् समेत्याभिमुख्येन रूढः समभिरूढः। शब्दनयो हि पर्यायशब्दभेदान्नार्थभेदमभिपैति । कालादिभेदत एवार्थभेदाभिप्रायात् । अयं तु पर्यायभेदेनाप्यर्थभेदमभिप्रति । तथाहि'इन्द्रः,शक्रः,पुरन्दरः' इत्याद्याः शब्दा विभिन्नार्थगोचराः,विभिनशब्दत्वात् , वाजिवारणवत् इति । ........ ....
एवम्' इत्थं विवक्षितक्रियापरिणामप्रकारेण · भूतम् । परिणतमर्थ योऽभिप्रति, स एवंभूतो नयः। समभिरूढो हि शक्कनक्रियायां सत्यामसत्यां वा देवराजार्थस्य शक्रव्यपदेशमभिप्रति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यांवा गोव्यपदेशमभिप्रेति,

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50