Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
१५
नयप्रकाशस्तववृत्तिः ननु पूर्वनिरूपणे कथं नैते नयाभासाः पृथक्दर्शिताः ? इति चेत् तत्रैतेषां नयानां शब्दविचारचतुरखेन विशेषतात्पर्याविवक्षयैवकारमात्रविहितविभेदास्त्रयोऽप्येते नयाभासा न प्रदर्शिता इति हाईम् । एतेषु च नयेषु ऋजुसुत्रान्ताश्वखारोऽथेप्रधानाः, शेषास्तु त्रयः शब्दप्रधानाः प्रत्येतव्याः।
कः पुनरत्र बहुविषयो नयः ? को वाऽल्पविषयः ? कश्रात्र कारणभूतः कार्यभूतो वा ? इति चेत्, पूर्वः पूर्वो बहुविपया कारणभूतश्च, परः परोऽल्पविषया कार्यभूतश्व, इति ब्रूमःसङ्ग्रहाद्धि नैगमो बहुविषयो भावविषयत्वात् यथा-सति संकल्पस्तथाऽसत्यपि । सङ्ग्रहस्तु ततोऽल्पविषयः सन्मात्रगोचरत्वात्, तत्पूर्वकसाच्च तत्कार्यम् ।
सङ्ग्रहाद्वयवहारोऽपि, तत्पूर्वकः सद्विशेषावबोधकत्वात् , अल्पविषय एव ।
व्यवहारात्कालत्रितयवृत्त्यर्थगोचरात् ऋजुमुत्रोऽपि, तत्पूर्वको वर्तमानार्थगोचरतयाऽल्पविषय एव । ___ कालादिभेदेनाभिन्नार्थप्रतिपादकात् ऋजुसुत्रात् , तत्पूर्वकः शब्दनयोऽप्यल्पविषय एव तद्विपरीतार्थगोचरत्वात् । ____ शब्दनयात् पर्यायभेदेनार्थाभेदं प्रतिपद्यमानात् तद्विपर्ययात्तत्पूर्वकः समभिरूढोऽप्यल्पविषय एव । -
समाभिरूढतश्च क्रियाभेदेनाभिन्नमर्थ प्रतिपादयतस्तद्विपर्ययेण एवम्भूतोऽप्यल्पविषय एव इति। .
नन्वेते नयाः किमेकस्मिन्विषयेऽविशेषेण प्रवर्तन्ते ? किंवा विशेषोऽस्ति ? इति अत्रोच्यते-यत्रोत्तरो नयोऽर्थीशे वर्तते, तंत्र पूर्वः पूर्वोऽपि वर्तत एव । यथा-सहस्रेऽष्टशती, तस्यां वा पञ्चशती, इत्यादौ पूर्वसंख्या उत्तरसंख्यायामावरोधेन वर्तते ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50