Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
श्री हेमचन्द्राचार्यग्रन्थावली.
9
स च द्वेधा, द्रव्यार्थिक पर्यायार्थिक विकल्पात् । द्रव्यमेवाथ - विषयो यस्य स द्रव्यार्थिकः । पर्याय एवार्थो यस्य, असौ पर्यायार्थिकः, इति नयविशेषलक्षणम् । तत्र आयो नैगम-सग्रह-व्यवहारविकल्पात् त्रिविधः, द्वितीयस्तु ऋजुसूत्र-शब्द- समभिरूढ एवम्भूतविकल्पाच्चतुर्विधः ।
१०
तत्र अनिष्पन्नार्थसङ्कल्पग्राही नैगमः । निगमो हि सङ्कल्पः, तत्र भवः, तत्प्रयोजनो वा नैगमः । यथा - कचित्पुरुषो गृहीतकुठारो गच्छन् ' किमर्थं भवान् गच्छति ?' इति पृष्टः सन्नाह- प्रस्थमानेतुम् इति । एधोदकाद्याहरणे वा व्याप्रियमाणः ' किं करोति भवान् ? ' इति पृष्टः प्राह - ' ओदनं पचामि ' इति । न चासौ प्रस्थपर्यायः, ओदनपर्यांयो वा निष्पनः ; सङ्कल्पमात्रे प्रस्थादिव्यवहारात् । यद्वा नैकगमो नैगमः, धर्मधर्मिणोर्गुणप्रधानभावेन विषयीकरणात् । ' जीवगुणः सुखम्' इत्यत्र हि जीवस्याप्राधान्यम्, विशेषणत्वात्; सुखस्य तुं प्राधान्यम्, विशेष्यत्वात् । ' सुखी जीवः' इत्यादौ तु जीवस्य प्राधान्यम्, न सुखादेः, विपर्ययात् । न चास्यैव प्रमाणात्मकस्वानुषङ्गः, धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् । तयोरन्यतर एव हि नैगमनयेन प्रधानतयाऽनुभूयते । प्राधान्येन द्रव्यपर्यायद्वयात्मकमर्थमनुभवद्विज्ञानं प्रमाणं प्रतिपत्तव्यम् । प्रमाणनिरूपणं तु मत्कृतममाणप्रकाशादवसेयम् ।
सर्वथा धर्मधर्मिणोरर्थान्तरत्वाभिसन्धिस्तु नैगमाभासः, धर्मधर्मिणोः सर्वथाऽर्थान्तरत्वे धर्मिणि धर्माणां वृत्तिविरोधस्याग्रे प्रतिपाद्यमानत्वात् इति ।
स्वजात्यविरोधेनैकत्वमुपनीयार्थानाक्रान्तभेदात् समस्तसग्रहणात् सङग्रहः । स च परोऽपरश्च । तत्र परः सकलभा

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50