Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 9
________________ श्री हेमचन्द्राचार्यग्रन्थावली. य एव घटे लोकप्रवृत्तिलक्षण उपकारोऽस्तित्वेन क्रियते, स एवान्यधर्मैरपि, सकलधर्मविशिष्ट एव घटे लोकप्रवृत्तेर्जायमानखात्; इत्युपकाराभेदवृत्तिः । " गुणी' घटः, तस्य ' देशः ' क्षेत्रं भूतलादिकम्, तदाश्रित्य यथा घटेऽस्तित्वसद्भावः, तथाऽन्यधर्माणामपि इति गुनिदेशा भेदवृत्तिः । धान्ये सति सम्बन्धः 'संसर्गः ' ततो य एव घटेऽस्तित्वस्य संसर्गः, स एवान्यधर्माणामपि इति संसर्गाभेदवृत्ति । नतु संसर्ग सम्बन्धयोः को भेदः ? इति चेत्; संसर्गे भेदः प्राधान्येन भवति, अभेदो गौण्येन सम्बन्धे तु भेदो गौण्येन, अभेदः प्राधान्येन, इति तात्पर्यम् । य एवास्तित्वधर्मात्मकस्य घटस्य वाचकः शब्दः, स एवान्यधर्मात्मकस्यापि इति शब्दाभेदवृत्तिः । इत्युक्तं सकलादेशस्वरूपम् ; अयं च प्रमाणवाक्यापरपय एव । विकला देश स्वरूपं तु एतद्विपरीतत्वेन सुखावबोधत्वात्, न सूत्रे प्रतिपादितम् । विकलादेशस्य सकलादेशवैपरीत्यं तु नयवाक्यात्मकत्वेनैभिरेव कालादिभिरष्टभिः कृत्वा भेदग्राहकत्वादेव । 9 दुर्नयवाक्यं तु न सकलादेशात्मकम् नापि विकलादेकिन्तु सर्वथा हेयत्वाद्वहिष्कृतमेव । इति तृतीय शात्मकम्, वृत्तार्थः ॥ ३ ॥ अथ प्राणवाक्यवाक्ययोर्विषयस्तु नया एव, ते च के ? कियन्तः ? सङ्गताथ कथं भवन्ति ? इति जिज्ञासायामाहक्रमान्नयाः सप्त परैर्गृहीताः परस्परं ये विवदन्त एव ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50