Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 5
________________ श्रीहेमचन्द्राचार्यग्रन्थावली. ननु अस्तित्वनास्तित्वयोः कः स्वरूपभेदः ? इति चेत् ; शृणु, अस्तित्वं तावत्स्वस्वरूपेण, नास्तित्वं च परस्वरूपेण, पृथुबुध्नोदरायाकारजलाहरणादिक्रियाकर्तृत्वादिना स्वस्वरूपेण चास्त्येव घटः; तन्तुजन्यत्वशीतत्राणादिक्रियाकर्तृत्वादिना परस्वरूपेण च नास्त्येव घटः; इति सिद्धं-स्यादस्त्येव घटः, इति । अत्र एवकारेण अस्तित्वविरुद्ध नास्तित्वादीनां व्यवच्छेदो भवति, इति सुष्टुक्तम्-' स्यादेवयुक्तं ' 'प्रमाणवाक्यम्' इति । - 'अस्त्येव घटः' इति प्रमाणवाक्यमस्तु, स्यादित्यधिकम् । इति चेत् ; न, दुर्नयवाक्येऽतिप्रसक्तेः। __ननु दुर्नयवाक्यं कीदृशम् ? इति चेत् ; शृणु, 'अस्त्येव घटः' इति तावदुर्नयवाक्यम् । अत्र हि केवलेनैवकारेणास्तित्वव्यतिरिक्तास्तत्समानाधिकरणा अप्यनन्ता धर्मा व्यवच्छिचन्ते। अत एवास्य मिथ्यात्वम् , अस्तित्वसमानाधिकरणानामप्यनन्तानां धर्माणामपलापात् । अत एव सूत्रेऽपि प्रमाणवाक्यविशेषणं 'दुर्नयवाक्यदूरितम्' इति । तल्लक्षणस्पर्शमात्राभावाहुर्नयवाक्यं दूरितं-दूरीकृतं येन, तत्तथा, इति । .. . अथ ' स्याद् घटोऽस्ति' इत्येवास्तु, 'एव' इति पदमधिकम्, इति चेत् ; न, एवं हि नयवाक्येऽतिमसक्तेः। - ननु नयवाक्यं कीदृशम् ? इति चेतः शणु, 'स्यादस्ति घटः' इति तावन्नयवाक्यम् । अत्र हि स्यात्पदलान्छितत्वे क्रियमाणेऽपि केनचित्प्रकारेण घटेऽस्तित्वमानं सिद्धयति, तत्समानाधिकरणानामनन्तानामपि तद्वयतिरिक्तानां धर्माणामुपेक्षैव जायते । ____ ननु तर्हि नयवाक्यं किं प्रमाणम्, अप्रमाणं वा ? इति चेत: शृणु, नयवाक्यं तावन्न प्रमाणम् , नाप्यप्रमाणम् ; किन्तु प्रमाणे

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50