Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सिंहः पञ्चास्य ! मूर्खनिवहेन मृगेन्द्रता ते दत्ता तया किमिति दृप्यसि तिष्ठ तूष्णीम् । नित्यं निहंसि हरिणान् शशकान् अशक्तान् कर्तव्यमिन्द्रपदलास्य ! न वेत्सि किञ्चित् ।।३३।। सिंह ! त्वमस्यखिलभूमितले प्रसिद्धो धैर्यं बिभर्षि सहजं विपुलं च शौर्यम् । प्राप्ता मृगेन्द्रपदवी भक्ता स्वशक्त्या त्वं चिन्तये विपदि लब्धुमभीतिमद्धा ॥३४॥
शुकः वाचस्त्वया त्वधिगताः कतिचित् प्रयत्नात् ताः प्रत्यहं रटसि न त्वयि नूतनोक्तिः । नार्यः स्तुवन्तु तव कौशलमप्रगल्भा नाऽऽर्यस्त्वभिज्ञमतिराद्रियते भवन्तम् ॥३५॥ ख्यातोऽसि हे शुक ! वचःकुशलत्वहेतोः श्लाघ्यश्च वर्णविभवो वपुषि त्वदीये । त्वां पालयन्ति सरसं नरपालदाराः धन्योऽसि मान्य ! तव नास्ति समो विहङ्गः ॥३६॥
हरिणः नित्यं तरक्षुवृकसिंहवनेचरेभ्यो बिभ्यत् कथञ्चिदिह जीवसि दीनचित्तः । क्षेत्रे चिखादिषसि सस्यमथाऽपि रङ्को लब्ध्वा प्रहारमभिधावसि कान्दिशीकः ॥३७।। निर्मत्सरोऽसि परितुष्यसि पल्लवैस्त्वं रूपेण दृप्यसि न, लुभ्यसि नैव रायैः । कञ्चिन्न निन्दसि न शंससि धूर्तराजान् धत्थस्त्वमेव हरिण ! क्षणिके प्रपञ्चे ॥३८॥
२३

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122