Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 29
________________ व्याघ्रः को वा गुणोऽस्ति बलिनोऽपि तव प्रशस्तो व्याघ्र ! प्रभूतपशुमारणमात्रवृत्तेः । कस्यापि नोपकृतये तव शक्तिरेषा भीतिं सृजस्यखिलजन्तुषु गर्जनैश्च ||२७|| व्याघ्र ! त्वमेव मम मानधनो विभासि त्वं याचसे न नृपतीन् मदघूर्णिताक्षान् । नित्यं मृगान् बहुविधान् स्वयमेव हत्वा त्वं पूरयस्युदरभाण्डमनभ्रमूर्धा ॥२८॥ रासभ: किं वा फलं जगति रासभ! जन्मनस्ते किं साधितं तु भवता वहताऽत्र भारम् ? । कस्याऽपि वस्त्रमिह शुद्धमभूत् त्वदीयात् कार्यान्न ते शुचिवपुर्न च ते प्रशंसा ॥२९॥ हे रासभाऽसि सहनानिधिरत्र नित्यं वस्त्राण्यशुद्धिभरितानि नयस्यजस्रम् । शुद्धानि तानि पुनराहरसे प्रदोषे प्राप्तुं प्रशस्तिमिह नेच्छसि कर्मयोगी ||३०|| कोकिलः हे कोकिल ! त्वमसि वञ्चकसार्थनेता न स्वात्मजानपि च पोषयसि श्रमेण । भूत्वाऽन्यपुष्ट इह मञ्जुलगानमात्रालोकान् प्रसाद्य लभसे विपुलां प्रशंसाम् ॥३१॥ प्राप्ते वसन्तसमये पिक ! गायसि त्वं स्वान्तं विनोदयितुमाह्वयितुं प्रियां वा । श्रुत्वा जनस्तव तु पञ्चमगानमारान् नानन्द्यते त्वमसि धन्यतमोऽत्र लोके ॥३२॥ २२

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122