Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वैद्याः वैद्यान् महीतलयमान् सभयोऽत्र वन्दे छिन्दन्ति ये वपुरपारधनं गृहीत्वा । ये यातनामधिकयन्त्यगदैविरुद्धै रुग्णस्य वित्तमपहर्तुमसत्यवाचः ॥८१।। वैद्यं नमामि जगतीतलविष्णुमाद्यं रक्षन्तमामयगणात् सकलं प्रपञ्चम् । राजा कविश्च विबुधो निखिलागमज्ञः पादौ समाश्रयति यस्य रुजाभिभूतः ॥८२।।
ज्योतिषिकाः मिथ्याग्रहान् अनृतशास्त्रगतान् विचारान् भीति जने जनयितुं सततं गदन्तः । लुण्टन्ति ये जगति मुग्धधियां धनं तान् कार्तान्तिकान् क इह शंसति शास्त्रशत्रून् ॥८३।। कार्तान्तिकान् सकललोकविचारदक्षान् नक्षत्रयोगकरणोपनिषन्नदीष्णान् । सूक्ष्मेक्षिकाविदितसर्वशुभाशुभार्थान् लोकोपकारनिरतान् प्रणमामि भक्त्या ॥८४।।
गुरुः मूढः स्वयं नृपतिदत्तकरावलम्बो लब्ध्वा गुरोः पदमनुत्तममिद्धगर्वः । नित्यं प्रतारयति शिष्यगणान् वितन्वंश्चेष्टां मुनीन्द्रवदयं गुरुवेषधारी ॥८५॥ पूज्यो गुरुः सकलशास्त्ररहस्यवेदी छात्रे सदा सकरुणः परमार्थदर्शी । यस्यैव चाऽत्र कृपया प्रभवन्ति शिष्यास्तुल्या गुरोर्गुणगणैश्च सुविद्यया च ॥८६।।
३१

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122