Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ सोऽकथयत् – “मम अत्रैव सुष्ठु प्रतिभाति । अतो अत्रैव वसनं योग्यम् ।" ततस्तृतीयो मणिरामो जामाता प्रातरुत्थाय कमपि विनाऽऽपृच्छ्य पलायितः । चतुर्थो जामाता केशवस्तु आनन्देन भूमौ स्वपिति । गमनस्य नामाऽपि न लाति । तस्य हृदये लेशमपि अरोचकता न प्रकटिता । श्वशुरस्य गृहं कथमपि न मुञ्चति । ईदृशं तस्य वर्तनं दृष्ट्वा श्रेष्ठी जामातरं बोधयितुं विचारयति । कतिपयेषु दिनेषु गतेषु एकदा पितापुत्रौ वाग्युद्धे लग्नौ । शनैः शनैर्मुष्टामुष्टि प्रारब्धम् । जामाता तौ पश्यति ; ततश्च "शान्तौ भवथः शान्तौ भवथः....!" इति कूजति । तत: पितापुत्रौ तमपि पद्भ्याम् ताडितवन्तौ प्रणोद्य च तं बहिर्निष्कासितवन्तौ द्वारं पिहितं च । ततः पितापुत्रौ शान्ति प्रापतुः । "वज्रकूटेन विजयरामः, तिलतैलेन माधवः । भूशय्यया मणिरामः, धक्कामुक्केन केशवः ॥ अयं लौकिको मार्गः । ८८

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122