Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ कथा उपायनम् - मुनिधर्मकीर्तिविजयः जन्मदिनमहोत्सवं समाप्तीकृत्य रीवया महती कर्गजपेटिकोद्घाटिता । तत्पेटिकातो रमणीयाऽतिसुन्दरा च पुत्तलिका निर्गता । तस्या रक्तवर्णीयं वस्त्रं, रक्तौ औष्ठी, श्वेतं वदनं, नीलवर्णे नयने, सुवर्णमयाः केशाः - इत्येतत् सर्वं सा पुनः पुनर्दृष्टवती, तथाऽपि किं दृष्टमात्रेणैव सन्तोषो भवति खलु ! सा तु पुत्तलिकां वारं वारं दृढमालिङ्गितवती । तत्पश्चात् पुत्तलिकाया मश्रुणोदरस्योपरि पुनः पुनर्हस्तौ स्पृष्टवती सा । अहो ! 'एषा तु वदत्यपि !' इत्युक्तवती साऽतीव प्रसन्ना जाता । दिनद्वये एव सा पुत्तलिका तु मौनं धृतवती । ततस्तया रीवया तामाह्वयितुं तस्या उदरं पुनः पुनर्विमर्दितम् । क्षणान्तरं तस्या उदरं विदीर्णं जातम् । अन्त्राणि बहिरागच्छन्तीव शब्दमुद्रिका बहिर्निगता । सा तु बालरोगनिष्णातचिकित्सक इव पुत्तलिकायाः समीकरणं कुर्वत्यासीत् । ___एतत् सर्वमपि रीवाया बालचेष्टितं तज्जनकः पश्यन्नासीत् । स उक्तवान् – 'रीवे ! अलमेतया । सा तु कृत्रिमाऽस्ति । कृत्रिमं वस्तु दर्शने एव रमणीयं स्यात्, किन्तु तच्चिरस्थायि न स्यात् कदाऽपि' । रीवाया जनन्यवसरं प्राप्याऽवोचत् – 'कृत्रिमं वस्तु न दीर्घकालीनं भवति । अल्पमूल्यमेतत् क्रीडनकं भवदीयभगिन्यैव दत्तम् । कस्मैचिदपि यत्किमपि उपायनं देयं स्यात्तर्हि श्रेष्ठमेव देयम्, अन्यथा नैव देयम्इत्येष व्यवहार एवोचितोऽस्ति' । कानिचिद् दिनानि ससुखं व्यतीतानि । एकदा सा रीवा यदा शालायाः प्रतिनिवर्तमानाऽऽसीत् तदा तस्या जननी स्वसख्या सह चर्चा कुर्वत्यासीत् – “विवाहप्रसङ्गे न केषाञ्चिदपि रूप्यकाणि स्वीकरिष्यन्ते' इत्युद्घोषितं तैः, तथाऽपि न कृतो विरोध उपायनग्रहणस्य । अतः किमपि लघूपायनं वयं दास्यामः । अन्यथा किं करणीयम् ?' 'सत्यं, तथाऽपि किं देयम् ?' इति सख्या व्यथा व्यक्तीकृता ।

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122