Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 65
________________ मीमांसकमते पुनर्भ्रमे प्रमात्रादेरिव विषयस्याऽपि दुष्टत्वं प्रतिपाद्यते । विपर्ययोत्पत्तावर्थगतानां सादृश्य-सौक्ष्म्यादीनामपि सहभागित्वमिति तेषां कथनम् । बौद्धमते ऐन्द्रियके प्रत्यक्षे इन्द्रियस्य मुख्यत्वाद्, मिथ्याप्रत्यये तस्यैव दोषस्य मुख्यता प्रतिपन्ना । तन्मतेऽन्ये सर्वेऽपि दोषाऽन्तत इन्द्रियमेव विकृतं विदधति । जैनमते तु ज्ञानव्यापारे आत्मनो मुख्यत्वम् । ते कथयन्ति यत् प्रमातुरेव दोषो भ्रमं जनयति । प्रमातरि विकृत्युत्पादने यद्यपीन्द्रियादिदोषाः सहभागित्वमावहन्ति, तथापि तत्र प्रधानं कारणं तु प्रमात्रा पूर्वसञ्चितानां कर्मणां विपाक एव । अद्वैतवादिभिरत्र कर्मविपाकस्य स्थानेऽविद्याऽभ्युपगताऽस्ति । भ्रमज्ञानस्योत्पत्त्यनन्तरं यावद् न तद्बाधकज्ञानस्फूर्तिस्तावत् तद् निर्दुष्टमेव प्रतिभासते, तद्वान् पुरुषश्च तज्ज्ञानं 'प्रमाणीभूत'-मित्याकलय्य तथा प्रवर्तते । बाधकज्ञानमेव भ्रमे मिथ्यात्वप्रतीत्युत्पादकं भवति । नव्यनैयायिकैरिह स्पष्टीकृतं यद् भ्रमज्ञानमपि विशेष्यांशे त्वभ्रान्तमेव भवति । यथा शुक्तौ 'इदं रजत'मिति ज्ञाने विशेष्यीभूताया अभिमुखं स्थितायाः शुक्तेरेव इदन्त्वेन यथार्थसंवेदनाद् विशेष्यांशे तद् ज्ञानं नैव भ्रमात्मकम् । तस्मिन् ज्ञाने भ्रान्तित्वं रजतत्वरूपे विशेषणांशे एव । नैयायिकैरत्रैकमेव ज्ञानं भ्रान्ताभ्रान्तोभयरूपं परिगणय्य स्याद्वाद एवाऽभ्युपगतोऽस्तीति ध्येयम् । जैना: पुनरितोऽपि गभीरतया विविच्य प्रतिपादयन्ति यद् भ्रमज्ञानमपि न केवलं विशेष्यांशे, अपि तु प्रमात्रंशे प्रमित्यंशे चाऽपि निर्दोषं भवति । यतो जैनसम्मते " मम 'इदं रजत 'मिति ज्ञानमुत्पन्न”मित्यात्मके प्रथमत एव स्वपरप्रकाशप्रत्यये, नैयायिकादिसम्मते व्यवसायानन्तरं जायमाने तादृशाकारेऽनुव्यवसाये च, 'ममे 'ति प्रमात्रंशे, 'इद' मिति विशेष्यांशे, 'ज्ञानमुत्पन्न'मिति प्रमित्यंशे च भ्रमज्ञानमप्यभ्रान्तमेव समस्ति । तस्य मिथ्यात्वं तु विशेषणांशे एव सीमितम् । स्याद्वाददृष्ट्या पुनर्विशेषणांशेऽपि प्रामाण्येतरव्यवस्था प्रायशः सङ्कीर्णैव । तथाहि - इन्द्रियदोषजन्यं चन्द्रद्वयदर्शनं सङ्ख्यांशविषये भ्रान्तमपि चन्द्रस्वरूपांशे त्वभ्रान्तमेव । किञ्च, एकचन्द्रदर्शनं सङ्ख्यांशे स्वरूपांशे च सम्यक्त्वाद् यद्यपि प्रमात्मकं, तथापि उक्तज्ञानकाले चन्द्रं यावद्दूरं वयं सम्भावयामस्ततोऽत्यधिकदूरत्वे तस्य वस्तुतः स्थितत्वादेकचन्द्रदर्शनं तस्मिन्नंशे तु मिथ्यैव । एवञ्च परमार्थतया किमप्यैन्द्रियकं प्रत्यक्षं न सर्वथा प्रमात्मकं भवति, न च सर्वथा भ्रमात्मकमिति । कथं तर्हि ज्ञानेषु भ्रान्ताभ्रान्तविवेक इति चेत्, शृणु - ज्ञाननिष्ठयोः संवाद - विसंवादयोः प्रकर्षाऽपकर्षावपेक्ष्य ज्ञानेषु प्रामाण्या - ऽप्रामाण्यव्यवहारः सम्भवति । यथा हि कस्तूरिकादिद्रव्येषु स्पर्शादिगुणेभ्यो ५८

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122