Book Title: Nandanvan Kalpataru 2016 11 SrNo 37
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ गजः लब्ध्वाऽपि गात्रमितरैरनवाप्यमीदृक् त्वं ह्रस्वमानवभिया कुरुषेऽस्य कार्यम् । दास्यं विगर्ह्यमुररीकुरुषे विलज्जो धिक् त्वां करीन्द्र ! तव निन्द्यतमा प्रवृत्तिः ॥ ३९॥ हे वारणाधिप ! बृहत्तमगात्र ! शत्रून् शुण्डाप्रहारविधिना कुरुषे गतासून् । राजा तवोपरि सुवर्णकुथे निषीदन् राज्यते तव तिर्न नरेण शक्या ||४०|| गरुडः कीटान् समत्सि गरुडोरगशावकान् वा मत्स्यांश्च भक्षयसि खादसि मांसखण्डान् । कं वा गुणं त्वयि परीक्ष्य हरिः स्ववाहं त्वां चक्र इत्यविदितं मयकाऽद्य यावत् ॥४१॥ तार्क्ष्यं प्रणौमि हरिवाहनमागमेड्यं वेगेन यान्तमुरगव्रजशत्रुमाद्यम् । विद्यास्वरूपमनवद्यगुणं च हृद्यं सद्यो भयावहरणं खगलोकराजम् ॥४२॥ काकः हे काक ! ते रुचिरियं सततं ह्यशुद्धे दुर्गन्धपूर्णविषये कथमाविरासीत् ? । त्वद्दर्शनेन नहि कस्यचिदत्र हर्षः संलक्ष्यते क्वचिदसौ पितृपिण्डदाने ॥४३॥ काक ! त्वमत्र भुवने बहु निन्दितोऽसि वर्णस्तवास्त्यधवलः परुषश्च नादः । किन्तु स्वभावमलिनं जगदेतदाराच्छुद्धीकरोषि गुणमेनमहं स्वीमि ॥४४॥ २४

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122